________________ प्रवचनप्र० का०६५ ] ब्राह्मणत्वजातिविचारः 766 हि प्रवादेन व्याप्तः, अतः प्रवादो निवर्तमानः व्यभिचारं निवर्त्तयति, व्यापकनिवृत्तौ व्याप्यस्याऽनिवृत्तिविरोधात् / यदि च ब्राह्मणशब्दस्य ब्राह्मण्यजातिरर्थो न स्यात् तदाऽयमनर्थकः स्यात् , न चैतद् युक्तम् , एतदुच्चारणानन्तरभाविनोऽर्थप्रत्ययस्य उपलभ्यमानत्वात् / तन्निबन्धनव्यवहारस्य च 'ब्राह्मणं भोजय' इत्यादिरूपस्य असन्दिग्धाबाधितस्य सुप्रतीतत्वात्। पाशुपता- 5 दिलिङ्गिनामपि ब्राह्मणत्वादिजात्यनुरूपो नामचिह्नाचारोपदेशादिव्यवहारो दृश्यते, अतः सुदृढव्यवहारदर्शनाद् व्यक्तिभ्योऽर्थान्तरभूता प्रत्यक्षतः प्रसिद्धा ब्राह्मण्यजातिः / ___ तथा अनुमानतोऽपि; तथाहि-असति प्रतिबन्धके यो यदाकारः प्रत्ययः स तदाकारविषयनिमित्तकः यथा नीलादिप्रत्ययः, असति प्रतिबन्धके भवति च 'ब्राह्मणोऽयं ब्राह्मणोऽयम्' इत्यनुगतैकाकारः प्रत्ययः, तस्मात् पिण्डव्यतिरिक्त-अनुगतैकाकारब्राह्म- 10 ण्यनिमित्तक इति। यदाकारो हि प्रत्ययः विषयेणापि तदाकारेणैव भवितव्यम् , अन्यथा नीलादिप्रत्ययस्य अनीलादिविषयत्वप्रसङ्गात् प्रतिनियतवस्तुव्यवस्थाविलोपानुषङ्गः। तथा, ब्राह्मणपदं व्यक्तिव्यतिरिक्तैकनिमित्ताऽभिधेयसम्बद्धम् पदत्वात् पटादिपदवत् / न चायमसिद्धो हेतुः; धर्मिणि विद्यमानत्वात् / नापि विरुद्धः; विपक्ष एवाऽवृत्तेः। नाप्यनैकान्तिकः ; पक्षसपक्षवद् विपक्षेऽप्यप्रवृत्तेः। नापि साधनविकलो दृष्टान्तः ; पटा- 15 दिपदेषु पदत्वस्य विद्यमानत्वात् / नापि साध्यविकल: ; ते व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धत्वाभावे व्यक्तीनामानन्त्येन अनन्तेनापि कालेन सम्बन्धग्रहणानुपपत्तेः / तथा वर्णविशेषाध्ययनाचारयज्ञोपवीतादिव्यतिरिक्तनिमित्तनिबन्धनं 'ब्राह्मण' इति ज्ञानं तन्निमित्तबुद्धिविलक्षणत्वात् गवाश्वादिज्ञानवदिति / दिपारम्पविस्मरणार्थ समूहलेख्यानि प्रवर्तितानि / तथा च प्रतिकूलगुणदोषस्मरणात्तदनुरूपा: प्रवृत्तिनिवृत्तयो दृश्यन्ते ।"-तन्त्रवा० 12 / 2 / “स्त्रीत्वस्य व्यभिचाराप्रयोजकत्वसूचनार्थोऽनुमाने कल्पनाशब्दः / न च निर्मूलकत्वेन लोकस्याप्रामाण्यम्; प्रयत्नेन रक्षणे योग्यान त्वसंभवादिति दर्शयितुमाह-विशिष्टेन हीति / महाकुलीनानां पुरुषाणां स्त्रीरक्षणमेव आत्मरक्षणम्, जायायां रक्ष्यमाणायामात्मा भवति रक्षित इति स्मरणात / यद्वा दुष्कूलप्रसूतत्वं व्यभिचारशीलत्वे प्रयोजकं न स्त्रीत्वमिति दर्शयितुं महाकुलीनत्वं स्त्रीणामुक्तम् / व्यभिचाराभावनिश्चयमेव अभियुक्तवृद्धव्यवहारेण द्रढयति अनेनैवेति। व्यभिचाराभावानिश्चये हि निर्मलत्वात पितृपितामहादिपरम्परालेखनात्मकसमूहलेख्यं व्यर्थं स्यादिति भावः / कुलपरीक्षापूर्वकेदानीन्तनपुरुषगतविवाहादिव्यवहारेणापि तमेव द्रढयति तथा चेति ।"-तन्त्रवा० न्यायसु० पृ०१२। “यत्र यावदूपलब्धिसामग्री तावत्यां सत्यामपि यासां व्यभिचारो न दृश्यते तासां नास्त्येव व्यभिचार इति लोकप्रमाणकमेतत् / अपि च अप्रमत्तः स्त्रियो रक्षणीयाः, तासू नास्त्येव व्यभिचारसंभावनावकाशो यासु त्वस्ति मा भूत तदपत्येष तत्सन्ततिप्रभवत्वनिश्चयः / न चैतावता यत्रापि निश्चयः शक्यस्तत्रापि अनिश्चय इति युक्तमिति ।"-प्रक० 50 50 31 / (1) ब्राह्मणशब्दप्रयोगः / (2) शैवादिभेदानाम् / (3) ब्राह्मणोऽयमिति प्रत्ययः पिण्डव्यतिरिक्तब्राह्मण्यनिबन्धनः असति प्रतिबन्धके ब्राह्मणोऽयमित्याकरतया समुत्पद्यमानत्वात् / (4) पटादिपदेषु / (5) पटव्यक्तितो व्यतरिक्तमेकं निमित्तं पटत्वाख्यम् / ____1-चारं विनि-ब०। 2-तस्य प्रती-ब० / 3 सुदृढं व्यव-श्र० /