________________ 768 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० प्रतिभासते तच्छून्यं पुरुषमात्रम् / तत्प्रतिभासे हि 'पुरुषोऽयम्' इति प्रतिभासः स्यांत नतु 'ब्राह्मणोऽयम्' 8 इति, पुरुषातिरेकित्वाद् ब्राह्मण्यस्य / न च अप्रतिपन्ने विशेषणे विशिष्टः प्रत्ययो युक्तः ; अतिप्रसङ्गात् / न च तथाभूतस्य ब्राह्मण्यस्य अर्थेषु संभवे प्रथ मदर्शनेऽपि प्रतिभासप्रसङ्गः; यतः स्वविशेषव्यङ्ग्या जातिः, विशेषाश्च ईतरजातिपरिहा। रेण अवभासमाना जात्यन्तरपरिहारेण स्वजातीय॑ञ्जयन्ति यथा गवाश्वादयः, अतः तत्रै प्रतिभाताऽपि जातिः व्यञ्जकभेदाग्रहणान्नोल्लिखति / व्यञ्जकभेदाग्रहणश्च अत्यन्तसुसहशावयवत्वादुपपन्नम् अत्यन्तसुसदृशगोगवयवत् / दृश्यते च द्रव्यपरीक्षकाणां कूटाकूटविवेके मणिपरीक्षकाणाञ्च मणिकाचादिविवेके अवधानवतां नैसर्गिकाभ्यासिकप्रतिभाससामग्रीसद्भाव एव कूटाकूटविवेको मणिकाचादिविवेकश्व, एवमत्रापि 'अविप्लुतेन ब्राह्मणेन अविप्लुतायां ब्राह्मण्यामुत्पन्नः ब्राह्मणः' इत्याद्यौपदेशिकमातापितृब्राह्मण्यज्ञानलक्षणसामग्रीसद्भाव एव 'ब्राह्मणोऽयम्' इति विवेकेन प्रतिभासाविर्भावो भवति / यदि वा, तद्ब्राह्मण्यज्ञाननिरपेक्षः 'ब्राह्मणोऽयम्' इत्युपदेशसहकृतेन इन्द्रियेण 'ब्राह्मणोऽयम्' इति ब्राह्मण्यजातिग्राही प्रत्ययो जन्यते / न च सामध्यभावात् यन्न प्रतिभासते तन्नास्तीति वक्तुं युक्तम् ; अतिप्रसङ्गात् / अविप्लुतत्वञ्ज मातापित्रोः पंवादाभावान्निश्चीयते / व्यभिचारो (1) ब्राह्मणत्वरहितम् / (2) ब्राह्मणत्वशून्यपुरुषमात्रप्रतिभासे। (3) पुरुषेषु / (4) "ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः / क्षत्रियायां तथैव स्याद् वैश्यायामपि चैव हि // " -महाभा० अनु० 47 / 28 / "सुवर्ण व्यज्यते रूपात्तामत्वादेरसंशयम् / तैलाद घतं विलीनञ्च , गन्धेन च रसेन च // भस्मप्रच्छादितो वह्निः स्पर्शनेनोपलभ्यते। अश्वत्वादौ च दूरस्थे निश्चयो जायते स्वनः। संस्थानेन घटत्वादि ब्राह्मणत्वादि योनितः / क्वचिदाचारतश्चापि. सम्यग्राजानुपालितात् ॥"-मी० श्लो० वन० श्लो० 27-29 / “कथं पुनरिदं लोकस्य प्रसिद्धम् ? प्रत्यक्षेणेति ब्रूमः / कस्मात्पुनः मातापितसम्बन्धानभिज्ञाः चक्षुःसन्निकृष्टेषु मनुष्येष्वनाख्यातं न प्रतिपद्यन्ते ? शक्त्यभावात् यथा वृक्षत्वं प्रागभिधानव्युत्पत्तेः / तेन यथैवालोकेन्द्रियानेकपिण्डानुस्यूतिशब्दस्मरणव्यक्तिमहत्त्वसनिकर्षाकारविशेषादयोऽन्यजातिग्रहणे कारणं तथैवात्र उत्पादकजातिस्मरणम् / अयञ्चोत्पाद्योत्पादकसम्बन्धो मातुरेव प्रत्यक्षोऽन्येषां तु अनुमानाप्तोपदेशावगतः कारणम् / नच तप आदीनां समुदायो ब्राह्मण्यम्, न तज्जनितः संस्कारः, न तदभिव्यङग्या जातिः। किं तर्हि ? मातापितृजातिज्ञानाभिव्यङ ग्या प्रत्यक्षसमधिगम्या ।"-तन्त्रवा० 1 / 2 / 2 / “तस्मात्समानाकारेष्वपि पिण्डेषु विलक्षणब्राह्मणप्रत्ययवेद्यब्राह्मण्यादिजाति पह्नोतुं शक्यते ।."-तन्त्रवा० न्यायसु० पृ० 10-15 / “यथा ब्राह्मणत्वादिजातिरुपदेशसव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति यथा च ब्राह्मणत्वादिजातिप्रतीतौ कारणान्तरमुक्तं क्वचिदाचारतश्चापि सम्यग्राजानुपालितादिति मन्वादिदर्शितानवद्यवानुसरणनिपुणनरपतिपरिपाल्यमानवर्णाश्रमाणां शङ्कितकपटकृतकार्यवेशदृष्टशूद्रव्यभिचारे देशे विशिष्टाचारगम्यापि ब्राह्मणत्वादिजातिर्भवति ।"-न्यायमं०१० 422 / (5) मातापितृब्राह्मण्यज्ञान / (6) "स्त्र्यपराधात्तु दुर्ज्ञानोऽयं सम्बन्ध इति स्वयमेव वक्ष्यति / न च तावन्मात्रेण प्रत्यक्षता हीयते / न हि यगिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षम। न च स्त्रीणां क्वचिद् व्यभिचारदर्शनात् सर्वत्रैव कल्पना युक्ता। लोकविरुद्धानमानासंभवात्। विशिष्टेन हि प्रयत्नेन महाकुलीनाः परिरक्षन्त्यात्मानम्, अनेनैव हेतुना राजभिाह्मणैश्च स्वपितृपितामहा ____ 1 ब्राह्मणस्य ब०, श्र०। 2 ब्राह्मणस्य ब०,०। 8 इतरज्ञाति-आ०। 4 प्रतिज्ञातापि आ०, श्र० / 5-सामण्यासभा-ब० / 6 इत्यौपदेशि-ब०, इत्यापदे-श्र० /