________________ प्रवचनप्र० का०६५] ब्राह्मणत्वजातिविचारः 767 अव्युत्पादकादनिष्पत्तेश्चास्य अपशब्दत्वे गोशब्दस्याप्यपशब्दत्वप्रसङ्गः, प्राकृतव्याकरणातस्याप्यनिष्पत्तेरविशेषात् / अतः संस्कृतेतरव्याकरणप्रसिद्धयोः गोगावीशब्दयोः गोत्वलक्षणार्थाभिधायित्वेन प्रवृत्तेः कुतोऽयं नियमः 'गोशब्द एव गोत्वस्य वाचको न गावीशब्दः शब्दः तथा' / यथैवं हि तुल्यप्रमाणावधारितवाचकत्वा वृक्षतरुपादपादयः पर्यायश ब्दाः तथा गोगाव्यादयोऽपि। तथाहि-मो-गावी-गौणी-गोपोतलिकेत्यादयः शब्दाः गोत्वस्य / वाचकाः वृद्धस्तत्र अविगानेन प्रयुज्यमानत्वात् गौः उश्रा(स्रा)इत्यादिवत् / तथा, गाव्यादयः शब्दाः गोत्वे अनादिप्रयोगाः अनवगम्यमानाऽवधित्वात् 'गौरुश्रा(स्रा)इत्यादिवत् / ____ अथ अधर्महेतुत्वादसाधुत्वमस्याः; ननु कदा तस्या अधर्महेतुत्वम्-सर्वदा, यागादिकर्मकाले वा ? यदि सर्वदा; न कदाचिद् धर्मस्यावसरः स्यात् , नित्य-नैमित्तिकानुष्ठानसमयेऽपि प्राकृतशब्दानां घृतसमिदाद्यभिधायिनां गोभूम्यादिदानाभिधायिनाश्च 10 प्रयुक्तानामधर्मस्यैव हेतुत्वप्रसङ्गात् / अथ यागादिकर्मकाले; महत् तत्कर्मणो माहात्म्यं येनान्यदा अधर्मस्याजनकमपि आत्मसत्ताकाले[s]धर्मजनकं करोति इति / किञ्च, प्राकृतवचसामधर्महेतुत्वनियमः तदा सिद्ध्येत् यदा संस्कृतानां तेषां धर्महेतुत्वनियमः स्यात् / तन्नियमाभ्युपगमे च नटभटवरुटचर्मकारादीनां संस्कृतवेदवचोऽभिधायिनां प्राकृतवक्तुमासोपवासिन्यादिभ्यः अतीवाधिकधर्मोत्पत्तिः स्यात् / 15 अथ ब्राह्मणस्यैव तदभिधायिनो धर्मः नान्यस्येति चेत्, न; ब्राह्मण्यस्य कुतश्चिदपि प्रमाणादप्रतीतेः ॥छ।। ननु प्रत्यक्षेणैव ब्राह्मण्यं प्रतीयते; विस्फारिताक्षस्य पुरोव्यवस्थितेषु क्षत्रियादिसनियनिकलावि चेषु तद्वैलक्षण्येन 'ब्राह्मणोऽयं ब्राह्मणोऽयम्' इत्यनुगतैकाकारप्रत्ययमोपेता योनिनिबन्धना विषयतया ब्राह्मणसङ्घ मनुष्यत्वाद्यतिरिक्तस्य अनुगतैकाकारस्य ब्राह्मण- 20 ब्राह्मण्यजातिरिति मीमां- (ण्य)स्य प्रतिभासप्रतीतेः / न चायं प्रत्ययः सन्दिग्धः; उभयकोसकादीनां पूर्वपक्षः- टिसंस्पर्शित्वाभावात् / नापि विपर्यस्तः; दोषरहितैः कारणैरारब्धत्वात् . बाधकप्रत्ययरहितत्वाच्च / यदि च ब्राह्मण्यं प्रत्यक्ष न स्यात् तदा 'ब्राह्मणोऽयं पुरुषः' इति विशिष्टप्रतिभासो न स्यात् / अत्र हि ब्राह्मणत्वानुरागविशिष्टः पुरुषः प्रतिभासते, न पुनः (1) गावीशब्दस्य / (2) तुलना-"तस्मात्पर्यायशब्दत्वात् गाव्यादेत्तरुवृक्षवत् / आचारेण प्रयोज्यत्वं न शास्त्रस्थैर्निवारितम् ॥"-तन्त्रवा० 1324 / (3) तुलना-"गावीगोण्यादयः शब्दाः सर्वे गोत्वस्य वाचकाः / वृद्धस्तत्र प्रयुक्तत्वाद् गोरुस्रेत्येवमादिवत् ॥"-तन्त्रवा० 1 / 3 / 24 / (4) म्लेच्छजातिविशेषः / “पुलिन्दा नाहलाः निष्टया शवरा वरुटा भटाः / माला भिल्ला: किराताश्च सर्वेऽपि .म्लेच्छजातयः ।।"-हैमः / (5) ब्राह्मणोऽयं ब्राह्मणोऽयमित्यनुगतप्रत्ययः / 1-भिधायकत्वेन ब०, श्र०। 2-त्वात् वृक्ष-ब०। 3-गौणातलि-श्र० / 4 गोरूपत्वेत्याब०, गोरुक्षेत्या-श्र०। 5 गोरूपत्वेत्या-ब०।-चरुट-आ०. ब.17 यदि ब्राह्म-आ०। एतदन्तर्गतः पाठो नास्ति आ० / 8-1 पुनः पुरुषमात्रं श्र०।