________________ 761 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० शब्दवत् प्राकृतशब्दानामप्यविशिष्टम् / विशिष्टपुरुषप्रणीतत्वं विशिष्टार्थाभिधायित्वं बाधारहितत्वं प्रमाणान्तरानुगृहीतत्वम् अनुपहतेन्द्रियग्राह्यत्वञ्च उभयत्राप्यविशिष्टमेव / अनावृतत्वमपि आवृतत्वपूर्वक न शब्दे संगच्छते; स्थायित्वाभावात् / स्थायिन एव हि पदार्थस्य आवृतत्वानावृतत्वे 5 घटेते / शब्दे च स्थायित्वं प्रागेव प्रतिषिद्धम् / / व्याकरणसिद्धस्वरूपत्वञ्च संस्कृतशब्दवत् प्राकृतशब्दानामप्यस्त्येव / यथैव हि संस्कृतव्याकरणेन प्रकृतिप्रत्ययविभागेन शब्दा व्युत्पाद्यन्ते तथा प्राकृतेनापि / अस्याऽव्याकरणत्वे अन्यत्र कः सामाश्वासः ? यच्चान्यदुक्तम्-'संस्कृता वागुद्यते' इत्यादि; तत्राप्यसौ कदा वक्तव्या-कर्मकाले', अध्ययनकाले वा ? अध्ययनकाले चेत् ; कस्य अध्ययनकाले प्राकृतस्य, संस्कृतस्य वा ? न तावत् प्राकृतस्य; ती संस्कृतवाचोऽनभिधानात् , अन्यथा तदध्ययनानुपपत्तिः। अथ संस्कृतस्य; कथं तदध्ययनकाले अंनधीयमानत्वात् प्राकृतवाचोऽसाधुत्वम् ? अन्यस्याध्ययनकाले अन्यस्याऽप्रयोगादसाधुत्वे' तुपुराणाध्ययनकाले वेदवाचामप्यप्रयोगादसाधुत्वं स्यात् / अथ कर्मकाले; कुतस्तदा प्राकृता न वक्तव्याः-अर्थाप्रतिपादकत्वात्, अपशब्द16 त्वात्, अधर्महेतुत्वाद्वा ? तत्राद्यपक्षोऽयुक्तः; गाव्यादिशब्देभ्यः संस्कृतेतरवेदिनां सुस्पष्टाथेप्रतिपत्तिप्रतीतेः। __अपशब्दत्वञ्च गाव्यादिशब्दानां स्वरूपमात्रात्, व्याकरणादनिष्पत्तर्वा ? यदि स्वरूपमात्रात्; तर्हि गोशब्दस्यापि अपशब्दत्वप्रसङ्गः तदविशेषात् / व्याकरणादनि प्पत्तिरपि संस्कृतात्, प्राकृताद्वा स्यात् ? न तावत् प्राकृतात् ; तत्रै तेषां स्वरूपनिष्प20 त्तिप्रतीतेः / संस्कृतव्याकरणतोऽपि गावीशब्दस्य स्वरूपमात्रेणाऽनिष्पत्तिः, अर्थविशेषे वा ? न तावत् स्वरूपमात्रेण; “यत्त्ये तदादि गुं:' [जैनेन्द्र० 1 / 2 / 114] इति गुसज्ञायां सत्यां गोरियं गावी प्रक्रिया इति स्वरूपमात्रेण तनिष्पत्तिप्रसिद्धेः / अथ अर्थविशेषे गोत्वलक्षणे गावीशब्दस्व अतोऽनिष्पत्तेः अपशब्दत्वमुच्यते; तदप्यसुन्दरम् ;तत्रं तस्याऽव्युत्पादकत्वात् / प्राकृतव्याकरणमेव हि गोत्वलक्षणेऽर्थे गावीशब्दं व्युत्पादयति नान्यत् / बोधस्ततोऽनुष्ठानं ततो धर्मोत्पत्तिरिति / (1) तुलना-"न ह्येषां प्रज्ञाबाहुश्रुत्यादिकं संस्कारं पश्यामो नाप्येषामेकान्तेन श्रव्यता / नाप्यर्थप्रत्यायने कश्चिदतिशयः / ""शिष्टप्रयोगः संस्कार इति चेत्; के शिष्टा? ये वेद्यतादिगुणयुक्ताः / कः पुनरेषां गुणोत्कर्षानपेक्षोऽलीकनिर्बन्धो यत्तेऽमूनेव शब्दान् प्रयुञ्जते नापरान्.."-वादन्या० पू० 107 (2) प्राकृतव्याकरणस्य / 3) पृ०७६१५० 14 / (4) प्राकृताध्ययनकाले / (५)प्राकृतव्याकरणे / (6) “यस्य त्यः यत्यः तस्मिन् परतः तदादि शब्दरूपं गुसंज्ञं भवति ।"-शब्दार्ण / (7) 'ग' इति संज्ञा 'अंग'संज्ञास्थानीया। (8) गोत्वलक्षणेऽर्थे / (9) संस्कृतव्याकरणस्य / ____1-ष्टाभिधा-ब० / 2-नावृतत्वं घटते ब०। 3-मस्त्येव ब० / 4 वागुत्पद्यते आ० / 5-ले वा अध्य-। 6 अनभिधीय-श्र। 7-वे प्राकृ-आ। 8 प्राकृताऽसौ न श्र०। 9 सस्पष्टार्थ -श्र०। 10-प्रतिप्रतीतेः आ०, ब० / 11 त्येतदा-श्र० /