________________ प्रवचनप्र० का०६५] अपभ्रंशादीनां वाचकत्वविचारः 765 अथ मतम्-न गुणान्तराधानं संस्कारः, किं तर्हि ? अभिन्नस्वरूपस्य शब्दस्य सम्यगनधिगतार्थस्य प्रकृति-प्रत्ययादिविभागद्वारेण तदन्तर्गतोऽर्थः प्रकाश्यते इत्येवं रूपः शब्दस्य संस्कार इति; तदप्यसङ्गतम् ; प्रकृतिप्रत्ययादिविभागद्वारेण अर्थकथनस्य व्याख्यानरूपतया संस्कारत्वानुपपत्तेः। नहि वस्त्रादौ तथाविधः संस्कारः कदाचिद् दृष्टः / किं तर्हि ? गुणान्तराधानलक्षणः / तथाप्यस्य संस्कारत्वाभिधाने स्वकम्बलस्य / 'कूलिका' इति नाम कृतं स्यात् / ___एतेन व्यवहर्तृशक्तिद्वारेण अपभ्रश्यतः शब्दस्य रक्षाद्वारेण अविचलितस्वरूपस्यैवावस्थापनं संस्कारः' इति मतान्तरमपि अपास्तम् ; अविचलितरूपतयावस्थापनस्यापि संस्कारत्वेन कचिदप्यप्रतीतेः / अविचलितरूपतया अवस्थापनश्च शब्दानां सादृश्यापेक्षया, नित्यैकरूपापेक्षया वा स्यात् ? यदि सादृश्यापेक्षया; तर्हि गाव्यादि- 10 शब्दस्यापि संस्कृतत्वप्रसङ्गः तदविशेषात् / अथ नित्यैकरूपापेक्षया; तदयुक्तम् / शब्दानां नित्यैकरूपतायाः प्राक् प्रबन्धेन प्रतिषेधात् / तन्न प्रवाहापेक्षया अनादिप्रयोगितातः शब्दानां साधुत्वं सिद्ध्यति / तया तत्साधुत्वाभ्युपैगमे च 'पितरि स्वर्ग गते ज्येष्ठेन पुत्रेण माता वोढव्या' इत्यादिम्लेच्छव्यवहाराणामपि साधुत्वप्रसक्तिः; प्रवाहेण अनादिप्रयोगितायाः तत्राप्यविशेषात् / अथ नित्यत्वापेक्षया अनादिप्रयोगितातः तत्सा- 16 धुत्वसिद्धिः इत्युच्यते; तदप्युक्तिमात्रम् ; शब्दानां नित्यत्वस्य प्रमाणानुपन्नत्वात् / तदनुपपन्नत्वञ्चैषां शब्दानित्यत्वसिद्धौ प्रपञ्चतः प्ररूपितमित्यलमतिप्रसङ्गेन / तन्न अनादिप्रयोगितापि तत्साधुत्वलक्षणम् / नापि धर्मसाधनत्वम् ; तद्धि तेषां साक्षात् ; परम्परया वा स्यात् ? न तावत् साक्षात् ; व्रतानुष्ठानादेः तदर्थस्य आनर्थक्यानुषङ्गात्। परम्परया तत्साधनत्वं तु संस्कृत- 20 (1) "नन्वेवं वयं गुणातिशयमपश्यन्तः संस्कारं केषाञ्चिच्छब्दानामनुमन्यामहे..."वादन्या० पु. 107 / (2) "रक्षार्थ वेदानामध्येयं व्याकरणम् / लोपागमवर्णविकारज्ञो हि सम्यग् वेदान् परिपालयिष्यतीति ।"-पात. महा० पस्पशा०। (3) 10703 / (4) अनादिप्रयोगितया। (5) तुलना-"म्लेच्छव्यवहारा अपि केचित् मातृविवाहादयो मदनोत्सवादयश्चानादयः नास्तिक्यवचांसि च अपूर्वपरलोकाद्यपवादीनि ।"-प्रमाणवा० स्ववृ० 11247 / (6) “लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः / शब्देनैवार्थोऽभिधेयो नापशन्देनेति / एवं क्रियमाणमभ्युदयस्तत्तुल्यं वेदशब्देन ।"-पात महा० पस्पशा० / 'साधवो धर्मसाधनम्"-वाक्यप० 1127 / (7) तुलना"न धर्मसाधनता; मिथ्यावृत्तिचोदनेभ्योप्यधर्मोत्पत्तिः, अन्येभ्योऽपि विपर्यये धर्मोत्पत्तेः। शब्दस्य सुप्रयोगादेव स्वर्गमोदनघोषणा वचनमात्रम् / नचैवंविधानागमानाद्रियन्ते युक्तिज्ञाः / नच दानादिधर्मसाधनचोदनाशून्यकेवलशब्दसुप्रयोगान्नगपात इति ब्रुवाणस्य कस्यचिन्मुखं वक्रीभवति ।"-वावन्या० . पृ० 106 / "तथा च संस्कृताच्छब्दात्सत्याद् धर्मस्तथाऽन्यतः। स्यादसत्यं यदा ( सत्याद्यदाऽ) धर्मः कः नियमः पुण्यपापयोः।"-तत्त्वार्थश्लो० पृ० 290 / प्रमेयक० पृ० 668 / (8) शब्दादनुष्ठेयार्थ 1-चिद्वृष्टम् श्र०। 2 व्यवहारातश-श्र०। 3-लितस्वरूप-ब०, श्र०। 4-रूपतापेक्षया ब०, श्र०। 5-प्रसंगतस्तद-ब०। 6-पगमेपि च श्र०। 7-पेक्षस्यनादि-ब।