________________ 764 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० वा स्यात् ? यदि वाचकत्वम् ; तद् गवादिशब्दवत् गाव्यादिशब्दानामस्त्येव, अन्वयव्यतिरेकाभ्यां तद्वत् तेषामप्यर्थप्रतिपादकत्वप्रतिपादनात् / __अनादिप्रयोगितापि प्रवाहापेक्षया, नित्यत्वापेक्षया वा उच्येत ? प्रथमपक्षे गोगावीशब्दयोरविशेषः, द्वयोरपि अनादिप्रयोगितायाः तथा संभवाद् उभयोरपि साधु5 त्वमसाधुत्वं वाऽविशेषतः स्यात् / अनादिप्रयोगितयां च साधुत्वे प्राकृतस्यैव गाव्यादेः साधुत्वं स्यात्, तस्यैव तत्संभवात् / प्रकृतिरेव हि प्राकृतम्, प्रकृतिश्च स्वभावः, अतः प्रकृतिभूतस्य अर्थस्वरूपावेदकस्य अनादिप्रयोगार्हस्य गाव्यादेरेव साधुत्वं युक्तं न तु संस्कृतस्य गवादेः, तस्य अनादिप्रयोगितानुपपत्तेः। सतो हि वस्तुनो गुणान्तरारोपः संस्कारः, स च आदिमानेव, अत: संस्कृतव्यपदेशादेव संस्कारात् पूर्व विद्यमानं 10 प्रकृतिभूतमन्यत्किञ्चिदस्तीत्यवसीयते। तच्च प्राकृतमेव, इत्यस्यैव अनादिप्रयोगितया साधुत्वमायातम् / अथोच्यते-न प्रकृतिरेव प्राकृतम् , किं तर्हि ? प्रकृतेर्भवम् / ननु केयं प्रकृति र्नाम-यतो भवं प्राकृतम् इत्युच्येत ? किं स्वभावः, धातुगणः, संस्कृतशब्दस्वरूपं वा ? प्रथमविकल्पे 'प्रकृतिरेव प्राकृतम्' इत्ययमेव पक्षोऽङ्गीकृतः स्यात्, प्रकृतेः स्वभावात् 16 लब्धात्मलाभैाव्यादिशब्दैः निखिललोकानां व्यवहारप्रसिद्धेः। द्वितीयविकल्पे तु गवादि शब्दानामपि प्राकृतत्वप्रसङ्गः, धातुगणात् तत्स्वरूपसिद्धरविशेषात्, इति संस्कृतव्यवहाराय दत्तो जलाञ्जलिः स्यात् / संस्कृतशब्दस्वरूपस्य तु प्रकृतित्वमनुपपन्नम् , विकारत्वात्। सतो हि वस्तुनो गुणान्तराधानं संस्कारः स विकाररूपतया कथं प्रकृतित्वं प्रतिपद्येत ? किञ्च, पूर्वापरकालभावित्वे सति प्रकृति-विकृतिभावो दृष्टः / न चात्रं तदस्ति, 20 वैपरीत्यप्रतीते:-'आदिमद्धि संस्कृतम् अनादिमच्च प्राकृतम्' इति / (1) "अथ गावीशब्दस्य वाचकत्वं नोपपद्यते; तदयुक्तम् ; गावीशब्देन बहुलं व्याहरन्ति प्रमातारः।"-तत्त्वो० पृ० 124 / (2) अनादिप्रयोगितासंभवात्। (3) "प्राकृतेति-सकलजगज्जन्तूनां व्याकरणादिभिरनाहितसंस्कारः सहजो वचनव्यापारः प्रकृतिः, तत्र भवं सैव वा प्राकृतम् / 'आरिसवयणे सिद्धं देवाणं अद्धमग्गहा वाणी' इत्यादि वचनाद्वा प्राक् पूर्वं कृतं प्राक्कृतं बालमहिलादिसकलभाषानिबन्धनभूतं वचनमुच्यते। मेघनिर्मुक्तजलमिवैकस्वरूपं तदेव च देशविशेषात् संस्कारकरणाच्च समासादितविशेषं सत् संस्कृताधुत्तरविभेदानाप्नोति / अत एव शास्त्रकृता प्राकृतमादौ निर्दिष्टं तदनु संस्कृतादीनि। पाणिन्यादिव्याकरणोदितशब्दलक्षणेन संस्करणात् संस्कृतमुच्यते।"-काव्या० रुद्र० नमि० 2 / 12 / (4) तुलना-"प्रकृतिः संस्कृतं तत्र भवं तत आगतं वा प्राकृतम् ।"-हेम० प्राकृ०, प्राकृतसर्व०, प्राकृतच०, वाग्भट्टा० टी० 2 / 2 / "एतदेव विपर्यस्तं संस्कारगुणवर्जितम् / विज्ञेयं प्राकृतं पाठचं नानावस्थान्तरात्मकम् ॥"-नाटयशा० 1712 / "प्रकृतेः संस्कृतायास्तु विकृतिः प्राकृती मता।"-षड्भा० / "प्राकृ तस्य तु सर्वमेव संस्कृतं योनिः ।"-प्राकृतसं० / "प्रकृतेः संस्कृतात् साध्यमानात्सिद्धाच्च यद्भवेत् / प्राकृतस्यास्य लक्ष्यानुरोधि लक्ष्म प्रचक्ष्महे ॥"-त्रि० प्रा०प०१। (5) संस्कृतप्राकृतयोः। 1-तया साधु-श्र० / न च श्र०। 3 प्रकृतौ भवम् आ० / 4 इत्युच्यते ब०। 5 धातुगणोक्तरूपसिद्धः ब० / 6 विकारित्वात् श्र /