________________ प्रवचनप्र० का अपभ्रंशादीनां वाचकत्वविचारः 763 10 यदप्युक्तम् -'गोशब्दे समुच्चारयितव्ये अशक्तया प्रमादेन वा बालेन गावीशब्दः समुच्चारितः' इति; तदप्यसाम्प्रतम्; यतो यदि गोशब्दसमुच्चिचारयिषया बाल: अशक्तिप्रमादाभ्यां गावीशब्दं समुच्चारयेत्, तर्हि परित्यक्तबालभावः प्रबुद्धः सन् 'मया अशक्त्या प्रमादेन वाऽयं प्रयुक्तः' इति ज्ञात्वा तं परित्यज्य गोशब्देनैव व्यवहारं कुर्यात् / न च पटुकरणोऽपि गावीशब्दं परित्यज्य गोशब्देनैव व्यवहरति / ननु च असंस्कृत- / मतिभिः सह संस्कृतशब्देन गवादिना व्यवहारः कर्तुं न शक्यते, लक्षणपरिज्ञानाभावतस्तेषों संस्कृतशब्दपरिज्ञानानुपपत्तेः, अत: बहुत्वादसंस्कृतमतीनाम् अशक्तिप्रमादप्रभवोऽपि अपभ्रष्टव्यवहारः परां रूढिमागतः, येन शक्तो विज्ञातशब्दस्वरूपोऽपि जनः तेनैव व्यवहरति; इत्यप्येतेनैव प्रत्याख्यातम् ; प्रमादाऽशक्तिप्रभवत्वे गाव्यादिशब्दव्यवहारस्य उक्तदोषानुषङ्गात् / अपभ्रष्टत्वश्चास्य पुरुषार्थाऽप्रसाधकत्वात् , व्याकरणस्मृत्यनुगृहीतस्य सर्वत्र सर्वदाऽनवच्छिन्नस्य एकत्वेन प्रतीत्यभावात् , सङ्केतेन अर्थाभिधायित्वाद्वा स्यात् ? तत्र आद्यः पक्षोऽनुपपन्नः; सकलस्य धर्मार्थादेः पुरुषार्थस्य प्राकृतशब्दव्यवहारादेव प्रसिद्धेः / नहि कश्चित्तादृशः पुरुषार्थोऽस्ति यत्र साक्षात् परम्परया वा तद्व्यवहारो न स्यात् / तत्प्रतिपिपादयिषया प्रयुक्तानामपि संस्कृतशब्दानामर्थः सुस्पष्टः प्राकृत- 15 शब्दैरेव प्रदर्यते इति कथं तद्व्यवहारस्य पुरुषार्थाऽप्रसांधकत्वं यतोऽपभ्रष्टत्वं स्यात् ? द्वितीयपक्षे तु ठकागमस्य “सधनं ब्राह्मणं हन्याद् भूतिकामः" [ इत्यादेः साधुत्वप्रसङ्गः, व्याकरणस्मृत्यनुगृहीतस्य सर्वत्र सर्वदानवच्छिन्नस्यैकत्वेन अस्यापि प्रतीत्यविशेषात् / शिष्टैरस्वीकृतत्वात् तत्रास्य विच्छेदः पशुवधाद्यागमेऽपि समानः। नहि “श्वेतमजमालभेत" [ ] इत्यागमः परीक्षाप्रधानैः कृपा- 20 द्रीकृतचेतोवृत्तिर्भिः आद्रियते / तृतीयपक्षोप्ययुक्तः, प्राकृतशब्दवत् संस्कृतशब्दानामपि सङ्केतसहायानामेव अर्थप्रतिपादनसामर्थ्यसंभवात् / असङ्केतिताऽनभि(ताभिधाने अतिप्रसङ्गात् / तदेवं संस्कृतेतरशब्दानां विशेषासंभवात् उभयेषां साधुत्वमसाधुत्वं वा अविशेषत: प्रतिपत्तव्यम् / किश्च, स्वरूपतः प्रसिद्धे साधुत्वे क्वचिद् विधानं निषेधो वा युक्तः / न च 25 स्वरूपतः तत् प्रसिद्धम् / तत्स्वरूपं हि वाचकत्वम् , अनादिप्रयोगिता, धर्मसाधनत्वम् , विशिष्टपुरुषप्रणीतत्वम् , विशिष्टार्थाभिधायित्वम् , बाधारहितत्वम् , प्रमाणान्तराचेंगृहीतत्वम् , अनुपहतेन्द्रियग्राह्यत्वम् , अनावृतत्वम् , व्याकरणसिद्धस्वरूपत्वं (1) पृ० 75960 6 / (2) व्याकरणसूत्र / (3) असंस्कृतमतीनाम् / (4) प्राकृतादि. भाषाशब्दव्यवहारः / (5) पुरुषार्थबोधनाय। (6) जैनबौद्धवैष्णवादिभिः। (7) साधुत्वम् / ____ 1 इत्यादि तद-श्र०,ब० // 2 चायं श्र०। 3-नवस्थितस्य ब० / 4 तद्वयापारव्यवहारो न आ०, श्र०। 5-ष्टव्यत्वं श्र०। 6-नुगृहीतमनु-आ०. ब०।-रूपं वा ब०।