________________ 762 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [.. प्रवचनपरि० अत्र प्रतिविधीयते / यत्तावदुक्तम्-‘गवादयः शब्दा एव साधवः, तेषामेव वाचकअपशपाकतानि त्वोपपत्तेः' इत्यादि; तदविचारितरमणीयम् ; यतो लोकव्यवहारभाषाशब्दानां साधु- समधिगम्यो हि वाच्यवाचकभावः / लोकश्च गाव्यादिशब्दैरेव त्वसमर्थनेन वाच- व्यवहरन् प्रतीयते / संस्कृतवेदिनो हि संस्कृतान् शब्दान् परित्यज्य कत्वप्रसाधनम्- व्यवहारकाले गाव्यादिशब्दैरेव व्यवहरन्तः प्रतीयन्ते / अतः संस्कृतेतरवेदिनां व्यवहारस्य गाव्यादिशब्दैरेव दृष्टत्वात्तेषामेव अन्वयव्यतिरेकाभ्यां वाचकत्वमवधार्यते। नच गाव्यादिशब्दानां गवादिस्मृतिसापेक्षमर्थावबोधकत्वं स्वप्नेऽपि प्रतीतं येन अर्थप्रतिपत्तेरन्यथाप्युपपद्यमानत्वात् तेषामवाचकत्वं स्यात् / न खलु प्राकृतशब्देभ्यः ‘प्रथमं संस्कृतशब्दस्मरणं ततोऽर्थप्रतीतिः' इति व्यवधानेन अर्थप्रत्ययोऽनुभूयते, संस्कृतशब्दवत् तेभ्योऽपि साक्षादेव अर्थप्रत्ययप्रतीतेः, अन्यथा यत्र संस्कृतज्ञा न सन्ति तत्र भाषाशब्देभ्योऽर्थप्रत्ययो न स्यात् / ततो गवादिशब्दवत् शब्दान्तरस्मृतिनिरपेक्ष्तयैव सदा तेषामर्थावबोधकत्वप्रतीतेः वाचकत्वमेवोपपन्नम् / यथैवं हि गवादिशब्दस्य अन्वयव्यतिरेकाभ्यां गाव्यादिशब्दस्मृतिनिरपेक्षं गोत्वाद्यर्था भिधायकत्वं प्रतीयते तथा गवादिशब्दस्मृतिनिरपेक्षं गाव्यादीनामपि / एवश्च अन्वय15 व्यतिरेकाभ्यां तुल्येऽर्थप्रतिपादकत्वे यद्येकस्यैव वाचकत्वं कल्प्यते तद्वरं गाव्यादिशब्दस्यैव कल्प्यताम्., निखिलजनानां व्यवहारस्य तँवारेणैव प्रतीतेः / ___किश्च, स्मरणं मूलानुभवे सति प्रमाणं भवति अनुभवानुसारित्वात्तस्य / न च : गवादिशब्दानां गोव्यवहारे प्रथमत एव स्वरसवृत्त्या वाचकत्वमनुभूतम् ; गाव्यादि शब्दानामेव तदा तदँनुभवात् / अतो येषां वाचकत्वमनुभूतपूर्वं तन्निबन्धने व्यवहारे' 20 अननुभूतवाचकत्वाः स्मर्यन्ते इति महन्न्यायकौशलम् ! / . (1) पृ० 757 50 6 / (2) "वृद्धि (ख) प्रसिद्धितस्त्वेष व्यवहारः प्रवर्तते / संस्कृतैरिति सर्वापि शब्दैः भाषास्वनैरिव।"-तत्त्वार्थ श्लो० पु० 290 / (3) गाव्यादिशब्दानामेव / (4) प्राकृतशब्देभ्योऽपि / तुलना-"व्युत्क्रमादर्थनिर्णीतिरपशब्दादिवेत्यपि / वक्तुं शक्तेस्तथा दृष्टे: सर्वथाप्यविशेषतः॥" -तत्त्वार्थश्लो० पृ० 290 / प्रमेयक० पृ०६६८। (5) तुलना-"स्त्रीशूद्राणामुभयप्रतीतेरभावात् / यः खलुभयं वेत्ति शब्दमपशब्दञ्च स एवं प्रतिपद्यते। यस्तु नक्कमुक्कशब्दमेव वा वेत्ति न नासाशब्दं स कथमपशब्दाच्छब्दं प्रतिपद्येत ततोऽथं प्रतिपद्येत ? दृष्टा चानुभयवेदिनोऽपि प्रतीतिरिति।"-वादन्या० पृ० 103 / म्लेच्छादीनां साधुशब्दपरिज्ञानाभावात्कथं तद्विषया स्मृतिः / तदभावे न गोऽर्थप्रतिपत्तिः स्यात् ।"-तत्त्वो० पृ० 124 // (6) गाव्यादिशब्दद्वारेणैव / तुलना-"विपर्ययदर्शनाच्च / शब्दादर्थमप्रतिपद्यमाना अपशब्दैरेव ज्ञानं व्युत्पद्यमाना लोके दृश्यन्ते इति व्यर्थ शब्दानुशासनम् / तथाहि वृक्षोऽग्निरुत्पलमित्युक्तेऽव्युत्पन्नधियो बाला: प्रश्नोपक्रम सन्तिष्ठन्ते कोऽयं वृक्ष इत्यादिना / ते चान्यस्य व्युत्पादनोपायस्याभावादपशब्दैरेव व्युत्पाद्यन्ते रुक्ख अग्गी उप्पलमिति। तदेवमत्रासाधव एब वाचका न साधवः सन्तोऽपि इति विपर्ययो दृश्यते ।"-वादन्या०, टी० 10 105 / (7) वाचकत्वानुभवात् (8) गाव्यादीनाम् / (9) गवादयः शब्दाः / 1 असंस्कृते-आ० / 2-थोपपद्य-ब०। 3 प्रथमसं-श्र०। 4-व गवादि-ब० / तुल्यार्थप्रति-ब०। 6-प्रथमं त एव स्वरस्य वृत्तावा-आ०। 7-रे न खलु वाचकत्वाः ब० /