________________ प्रवचनप्र० का०६५ ] अपभ्रंशादीनां वाचकत्वविचारः 761 रणस्य प्रामाण्यम् ? इत्यप्यसमीक्षिताभिधानम् ; प्रत्यक्षत एव तत्साधुत्वप्रसिद्धः / तथाहि-व्याकरणसंस्कृतमतेः 'श्रौत्रप्रत्यक्षे वर्णस्वरूपवत् तत्साधुत्वमवभासते, व्याकरणानुशिष्टेषु शब्देषु उच्चार्यमाणेषु 'साधुभिरयं भाषते' इति प्रतीतिसद्भावात् , अन्यथा चोच्चार्यमाणेषु 'असाधुभिरयं भाषते पापः अपशब्दान् करोति' इति प्रत्ययप्रतीतेः प्रत्यक्षत एव साधुत्वासाधुत्वविभागोऽवसीयते / अथोच्यते-यदि वर्णस्वरूपातिरिक्तं / साधुत्वं स्यात् तर्हि व्याकरणसंस्कारात्पूर्व वर्णस्वरूपवत् तदपि प्रतिभासेत, तत्प्रतिभासकारणस्य श्रोत्रसम्बन्धस्य प्रागपि सद्भावात् ; तदप्युक्तिमात्रम् ; व्याकरणसंस्कारापेक्षस्य श्रोत्रस्य पूर्वमभावात् , कारणाभावे च कार्याभावस्य उपपन्नत्वात् / वर्णस्वरूपग्रहणे हि श्रोत्रस्य केवलस्यापि सामर्थ्यम्, साधुत्वग्रहणे तु व्याकरणसहकृतस्यैव। यथा रत्नादिभेदानां तच्छास्त्रसंस्कारसहायं चक्षुः ग्रहणे समर्थम् न तद्रहितम् / 10 ननु शब्दराशेरपर्यन्ततया प्रत्यक्षागोचरत्वात् कथं ततः तत्साधुत्वसिद्धिः ? इत्यप्यसुन्दरम् ; तैदगोचरस्यास्य अनुमानात् साधुत्वंप्रसिद्धेः; तथाहि-अदृश्यमानप्रयोगाः शब्दाः साधवः व्याकरणानुशिष्टत्वात् परिदृश्यमानगवादिशब्दवत् / तथा 'साधुभिर्भाषितव्यम्' [ ] तस्मादेषा संस्कृता वागुद्यते' [ तैत्ति० 6 / 47 (?) ] इत्येवमादिना आगमेनापि साधुत्वं प्रसाध्यते / तथा उपमानेनापि साधुत्वमवगम्यते; तथाहि- 15 सूत्रकार-भाष्यकार-वार्तिककारादिभिः प्रयुक्ता यथा साधवः शब्दाः तथा तत्प्रायैरन्यैरपि प्रयुक्ताः साधव एवेति / तथा अर्थापत्त्यापि; अनाद्यनन्ताऽनन्यथासिद्धान्वयव्यति· रेकतोऽर्थप्रतीतिसाधनत्वान्यथानुपपत्तिलक्षणया शब्दानां साधुत्वमवसीयते इति ॥छ।। (1) "साधुत्वमिन्द्रियग्राह्य लिङ्गमस्य च विद्यते / शास्त्रस्य विषयोऽप्येष प्रयोगोऽप्यस्त्यसंकरः // "वैयाकरणोपदेशसाहाय्यकोपकृतश्रोत्रेन्द्रियग्राह्यत्वाभ्युपगमात् / यथा ब्राह्मणत्वादिजातिरुपदेशसव्यपेक्षचक्षरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति / 'व्याकरणकोविदोपदेशसचिवश्रवणेन्द्रियग्राह्ये अपि साधत्वासाधुत्वे न प्रत्यक्षतामतिवर्तते।"-न्यायमं० पृ० 422 / तौता० पृ० 128 / (2) "यथा च पारागादीन् काचस्फटिकमिश्रितान् / परीक्षका विजानन्ति साधुत्वमपरे तथा / यथा रत्नपरीक्षायां साध्वसाधुत्वलक्षणम् / तथा व्याकरणात्सिद्धं साधुशब्दनिरूपणम् ॥"-तन्त्रवा० 113 / 27 / (3) प्रत्यक्षागोचरस्यापि शब्दराशेः। (4) “विशिष्टशब्दश्रवणोत्तरकालप्रवृत्तव्यवहारावगतार्थप्रतिपत्तिसहितं शब्दानुशासनशास्त्रोपदिष्टप्रकृतिप्रत्ययविकरणवर्णलोपागमादेशादिलिङ्गमव्यभिचारि तत्स्वरूपावधारणे कारणं भविष्यति ।-"न्यायमं० पृ० 423 / तन्त्रवा० 123 / 27 / (5) उद्धृतोऽयम्-न्यायमं पु०४२३ / न्यायवा० ता०प०७१४ / वैयाकरणभू०पू० 252 / तत्त्वचि० शब्द० पृ० 640 / “साधूनां साधुभिस्तस्माद्वाच्यमभ्युदयार्थिभिः ।"-वाक्यप० 1 / 141 / (6) 'तस्मादेषा व्याकृता'-तन्त्रवा० 1 / 3 / 27 / भाट्टचि० पृ० 98 / (7) "तथा लौकिकार्थप्रत्ययोत्थापितवाचकत्वार्थापत्तिलभ्यस्तावदेकः साधुत्वनिश्चयः ।"-तन्त्रवा० 1 / 3 / 27 / 1 श्रौत्रप्र-आ०, ब० / 2-वत्साधु-ब०, आ०। 8-शिष्टेषुच्चार्य-आ०,-शिष्टेषु शब्दोच्चार्य -ब० / 4-ब्दानुकरोति आ० / 5 पूर्व भावा-आ०, पूर्वसभा-ब०। 6-रस्यानु-आ० / 7-त्वसिद्धेः आ०। 8 सूत्रकारवात्तिक-श्र०। 46