________________ 760 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० 5 वाचकत्वं गृहीतुमशक्यम् / व्याकरणेन तु सामान्यविशेषवता लक्षणेन उपलक्षितानां स्वल्पप्रयत्नेन सर्वेषामपि शब्दानां वाचकत्वमवबोद्धं शक्यमेव / अतो व्याकरणादेव तेषां साधुत्वावगमः। तथाहि-“कर्मण्यण" [पाणिनि० 3 / 2 / 1] इत्येकेनैव सूत्रेण कुम्भकार-काण्डलाव-वेदाध्यायादयः शब्दाः बहवः साधुत्वेन लक्ष्यन्ते / अतो व्याकरणानुगृहीतलोकव्यवहारात् सुखेनैव साधुत्वमवधारयितुं शक्यते इत्यस्ति व्याकरणस्योपयोगः। ननु चास्याप्रमाणत्वात् कथं ततः केषाश्चिच्छब्दानां साधुत्वमवधारयितुमुचितम् ; इत्यप्यसाम्प्रतम् ; तदप्रामाण्ये कर्मकादिकारकाणां सम्लवप्रसङ्गात् / न खलु व्याकरणमन्तरेण प्रकृति-प्रत्ययविभागद्वारेण कर्मकादिकारकाणां नैयत्येन प्रति पत्तिर्घटते, तन्नैयत्यहेतोरन्यस्याऽसंभवात् / अतस्तन्नैयत्यमुपलभ्यमानं स्वव्यवस्थानि10 मित्तं व्याकरणमेव व्यवस्थापयति / तथा व्याकरणाप्रामाण्ये लोकशास्त्रविरोधः / तत्र लोकविरोधस्तावत्-संकलशिष्टानां तत्प्रामाण्यस्य अभीष्टत्वात् / शास्त्रविरोधोऽपि तदप्रामाण्ये सकलशास्रोच्छेद- . प्रसङ्गात् / सकलान्यपि हि शास्त्राणि नियतभाषात्मकानि, नियमस्य च व्याकरणाधीन त्वात् कथं तदप्रामाण्ये तदुपपत्तिः ? शास्त्रप्रामाण्यमनभ्युपगच्छताऽपि परप्रत्यायनाय 15 साधनदूषणप्रयोगः तत्प्रामाण्यप्रसाधनोऽवश्याभ्युपगन्तव्यः। तदनभ्युपगमे स्वपरपक्षसाधनदूषणप्रपञ्चप्रत्यस्तमयप्रसङ्गात् , केवलैमनोविकल्पैः अङ्गसंज्ञाभिर्वा परप्रत्यायनानुपपत्तेः / तस्मादुक्तदोषं परिजिहीर्षता न व्याकरणप्रामाण्यमपह्नवनीयम् , इति सिद्धं तत्साधुत्वप्रसाधनायास्य प्रामाण्यम् / ननु साधुत्वस्य शब्दानां कुतश्चित् प्रमाणादप्रसिद्धेः कथं तत्प्रसाधनाय व्याक (1) "रक्षोहागमलध्वसन्देहाः प्रयोजनम्"लघ्वथं चाध्येयं व्याकरणम् ब्राह्मणेनावश्यं शब्दा ज्ञेयाः इति / न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या ज्ञातुम् ।"किञ्चित्सामान्यविशेषवल्लक्षणं प्रवर्त्यम्, येनाल्पेन प्रयत्नेन महतो महतः शब्दौघान् प्रतिपद्येरन् / किं पुनस्तत् ? उत्सर्गापवादौ / कश्चिदत्सर्गः कर्त्तव्यः कश्चिदपवादः / सामान्येनोत्सर्गः कर्त्तव्यः तद्यथा कर्मण्यण् / तस्य विशेषेणापवादः तद्यथा आतोऽनपसर्गे कः ।"-पात० महा० पस्पशा०। "प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेन ॥"-काशिका० पृ० 1 / “तत्र सामान्यवता लक्षणेन प्रकृत्यादिविभागपरिकल्पनया कुम्भकारः काण्डलावः शरलाव इत्येवमादिकं महान्तं शब्दोघं प्रतिपद्यते / विशेषवता तु पार्णित्रो गोदः कम्बलद इत्येवमादिकम् ।"-न्यास० पृ०६। सर्वद० पाणिनि०। (2) "लोकव्याकरणाभ्यां हि मिश्राभ्यामविप्लतवाचकसिद्धिरिति ।"-तन्त्रवा० 113 / 27 / (3) व्याकरणस्य। (4) "नचान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुम् ।"-पात० महा० पस्पशा० / 'तत्त्वावबोधः शब्दानां नास्ति व्याकरणादते।"-वाक्यप० 213 / (5) "सर्वपार्षदत्वाच्च शब्दानुशासनस्य ।"-हमश०बह०पू०२। (6) “साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः। अविच्छेदेन शिष्टानामिदं स्मृतिनिबन्धनम् ॥"वाक्यप० 11143 / 1-ध्याय इत्यादयः श्र० / 2 शब्दबहुगाधुत्वेन श्र०।-लविशिष्टानां श्र०।।