________________ प्रवचनप्र० का०६५ ] अपभ्रंशादीनां वाचकत्वविचारः इति विवक्षायां स्थानकरणप्रयत्नवैकल्यात् प्रमादाद्वा तमुच्चारयितुमसमर्थः अम्बिति बालोऽपभाषते / अम्बा च तच्छब्दश्रवणानन्तरं प्रवर्त्तमाना एवं मन्यते-अनेन बालेन 'अम्ब' इति शब्दविवक्षायाम् अम्बिति तत्स्थाने समुच्चारितमिति अम्बितिशब्दादसाधुभूताद् ‘अम्ब' इति मूलशब्दं साधुभूतं स्मृत्वा प्रवर्तते / तथा, खण्ड (षण्ढ) शब्दे समुच्चारयितव्ये विवक्षिते प्राच्यानां संढशब्दोच्चारणं दृश्यते / व्यवह" तद्वाक्यश्रव- 5 णानन्तरं प्रवर्तमानः अनेन मूलशब्दोच्चिचारयिषया अशक्त्या प्रमादेन वा अयं संढशब्दः समुच्चारितः इति संढशब्दात् षंढशब्दं स्मृत्वा ततोऽर्थं प्रतिपद्य प्रवर्त्तते / एवं गावीशब्दादसाधुरूपात् मूलभूतं साधुरूपं गोशब्दं स्मृत्वा व्यवहर्ता ततोऽथ प्रतिपद्यते इति, अन्वयव्यतिरेकयोरत्र अन्यथासिद्धत्वात् न वाचकत्वावधारणक्षमत्वम् / यत्रैव हि निश्चितौ तौ तत्रैव वाचकत्वनियममवबोधयतः / न च गावीशब्दस्य उक्त- 10 प्रकारेण तो निश्चितौ, अतो न तन्नियममवबोधयतः / गोशब्दस्य तु उभयवादिसम्प्रतिपन्नत्वेन तौ निश्चितौ, अतोऽस्यैव गोत्वप्रतिपत्तौ वाचकत्वनियमोऽवकल्प्यते / सर्वदेशकालपुरुषपुराणवेदादिषु गोशब्दस्य एकरूपतया व्यवहारकारकत्वेन प्रतीयमानत्वाच्च अस्यैव व्याकरणस्मृत्यनुगृहीतस्य वाचकत्वनियमो युक्तः न तु गावीशब्दस्य, अस्य नियतदेशादावेव व्यवहारहेतुतया प्रतीयमानत्वात् / न खलु ये देशान्तरादिप्रभवा 15 गाव्यादिशब्देष्वगृहीतसम्बन्धा तेषां ते व्यवहारं प्रसाधयन्ति / अतः अवगतप्रमाणभावेन व्याकरणेन ये अनुशिष्टा गवादयः शब्दाः त एव साधवः सिद्धा नै तु गीच्यादयः। - 'तत्रैव वाचकत्वनियमावगतेश्च गवादिशब्दानामेव साधुत्वम् ; तथाहि'गामानय' इत्युक्ते सास्नादिमत्त्वविशिष्टार्थानयनप्रतिपत्तिर्भवतिः / तत्र च यथा 'गोशब्दस्य सास्नादिमानर्थो वाच्यः' इत्यवधार्यते, तथा 'गोशब्दस्यैव अयमर्थः' इति 20 नियमोऽप्यवधार्यते / अवगतश्च नियमः अन्यस्य वाचकत्वं बाधते / अस्तु वा नाम गवादीनामेव वाचकत्वावधारणम् ; तथापि वृद्धव्यवहारादेव तेषां तद् भविष्यति, अतस्तत्साधुत्वसमर्थनाय व्याकरणारम्भो व्यर्थः; इत्यसमीचीनम् ; व्याकरणनिरपेक्षाद् वृद्धव्यवहारादेव सकलशब्दानां वाचकत्वस्य अवधारयितुमशक्यत्वात् / अनन्तो हि शब्दराशिः, तस्य अनन्तेनापि कालेन प्रतिपदं वृद्धव्यवहाराद् 25 वाक्यप० 13149-53 / “गाव्यादिशब्दानां पुनरुच्चारणासामर्थ्यतो मूलशब्दादपभ्रंशानां विवक्षितेषु ' मूलशब्दानुसारेणार्थप्रतिपादकत्वम्, अविवक्षितेषु तु वाचकभ्रान्त्यैवेति ।"-तौता०प०१३० / भाट्टचि० पृ० 95 / (1) सर्वे देशान्तरे / “सर्वे खलु एते शब्दाः देशान्तरेषु प्रयुज्यन्ते ।"-पात० महा० पस्पशा० / (2) पुरुषाणाम् / (3) गाव्यादयः शब्दाः / (4) वाचकत्वावधारणम् / 1 अन्विति आ० / 2 तत्र स्थाने ब० / 3 गोशब्दत्वप्रति-श्र० / 4-ल्पते आ०, ब० / 5 ना तु आ० / 6 गव्या-ब०। 7-तीति तत्र श्र०। 8 अस्तु नाम ब०, श्र० / 9-निरपेक्षे व-श्रः /