________________ 758 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० णेऽर्थे शक्ति कल्पयित्वा उपपन्नौ तदा न द्वितीयस्य गावीशब्दस्य तत्रार्थे तौ शक्ति कल्पयतः। अनुपपत्त्या हि तयोः कल्पकत्वम् ; यश्च येन विना आत्मानं न लभते स तेन विनाऽनुपपन्नः स्वोपपत्तये तं कल्पयति, यत्पुनः येन विनाप्युपपद्यते न तत् तं कल्पयति अनुपपत्तेः कल्पिकायाः क्षीणत्वात् / न च गावीशब्दादपि अन्वयव्यतिरेकाभ्यामर्थप्रतीतिसंभवात् कथन्न वाचकत्वमित्यभिधातव्यम् ; अन्वयव्यतिरेकयोस्तैत्र अन्यथासिद्धत्वात् / अवाचकस्यापि हि गावीशब्दस्य वाचकगोशब्दस्मृतिद्वारेण अर्थप्रतिपत्तौ अन्वयव्यतिरेको घटेते / दृश्यते च असाधुशब्दप्रयोगे साधुशब्दस्मरणादर्थप्रतिपत्तिः, यथा आमन्त्रणे 'अम्ब' वा जातिः कापीह साधुतेति ।"-शब्दकौ० पृ० 25 / (4) “गौरित्यस्य शब्दस्य गावीगोणीगोतागोपोतलिकेत्येवमादयः अपभ्रंशाः ।"-पात० महा० पस्पशा (1) “सामर्थ्यं सर्वभावानामपित्त्यावगम्यते। एकसामर्थ्य सिद्धेऽर्थे नानेकं तच्च लभ्यते // नाम च व्यवहारार्थमर्थस्याभ्युपगम्यते / तेनैकेनैव सिद्धेऽर्थे द्वितीयादि च निष्फलम् ।।"-तन्त्रवा० पृ० 113 / 26 / "किंच, वाचकशक्तिर्नाम सूक्ष्मा परमार्थापत्तिमात्रशरणावगमा न तन्मन्दतायामन्यतः कुतश्चिदवगन्तुं पार्यते / सा चेयमन्यथाप्युपपद्यमाना गवादिभ्योऽर्थप्रत्ययादिव्यवहारे मन्दीभवति तेषु शक्तिकल्पनायामापत्तिः एवं गवादय एव वाचकशक्तेराश्रयः न गाव्यादयः ।"-न्यायमं० पृ० 421 / / "अत्र च संस्कृतस्य सर्वदेशे एकत्वात्तत्रैव शक्तिः, भाषाणाञ्च प्रतिदेशं भिन्नत्वात् संस्कृतैः सह पर्याय-. तापत्तेश्च न शक्तिः ।"-वैयाकरणभू०५० 248 / “एकत्र शक्तचाप्यन्यत्र तदारोपात्तदर्थप्रतीत्युपपतावेकत्रैव शक्तिलाघवात् , अनन्यलभ्यस्यैव शब्दार्थत्वात् / सा च शक्तिः संस्कृत एव सर्वदेशे तस्यैकत्वात्।"-तत्त्वचि० शब्द० पृ०६४१ / (2) अन्वयव्यतिरेको / (3) गावीशब्दे / (4) “अथ यदुक्तम्अर्योऽवगम्यते गाव्यादिभ्यः, अत एषामप्यनादिरर्थेन सम्बन्ध इति / तदशक्तिरेषां गम्यते / गोशब्दमच्चारयितुकामेन केनचिदशक्तया गावीत्युच्चारितम्, अपरेण ज्ञातं सास्नादिमानस्य विवक्षितस्तदर्थ गौरित्युच्चारयितुकामो गावीत्युच्चारयति / ततः शिक्षित्वाऽपरेऽपि सास्नादिमति विवक्षिते गावीत्युच्चारयन्ति / तेन गाव्यादिभ्यः सास्नादिमानवगम्यते। अनुरूपो हि गाव्यादिर्गोशब्दस्य ।"एवं गाव्यादिदर्शनाद् गोशब्दस्मरणं तत: सास्नादिमानवगम्यते ।"-शाबरभा० 113028-29 / “यथा गौरित्यस्य पदस्यार्थे गावीति प्रयुज्यमानं पदं ककूदादिमन्तथं प्रतिपादयतीति / न च शब्दान्वाख्यानं व्यर्थम् ; अनेन शब्देन गोशब्दमेवादौ प्रतिपद्यते गोशब्दात् ककुदादिमन्तमर्थम् ।"-न्यायवा० पृ० 556 / "ते तु वर्णसारूप्यच्छायया गवादिशब्दस्मृतिमादधानाः तदर्थप्रतिपत्तिहेतुतामुपगच्छन्ति ।"-न्यायमं० पृ० 421 / न्यायवा० ता० पृ० 714 / तत्त्वचि० शब्द०पृ० 643 / "न चापभ्रंशानामचाचकतया कथमर्थावबोध इति वाच्यम् ; शक्तिभ्रमवतां बाधकाभावात् / विशेषदर्शिनस्तु द्विविधाः-तत्तद्वाचकसंस्कृतविशेषज्ञानवन्तः तद्विकलाश्च / तत्र आद्यानां साधुस्मरणद्वारा अर्थबोधः / द्वितीयानां तु बोध्यार्थसम्बद्धार्थान्तरवाचकस्य स्मृतौ सत्यां ततो लक्षणया बोधः / सर्वनामस्मृतेर्वा, तदर्थज्ञापकत्वेन रूपेण साधुस्मृतेर्वा, अर्थाध्याहारपक्षाश्रयणाद्वा यथायथं बोध्यम् ।"-शब्दकौ० पृ० 32 / (5) “अस्वगोण्यादयः शब्दा: साधवो विषयान्तरे / निमित्तभेदात्सर्वत्र साधुत्वञ्च व्यवस्थितम् // ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः / तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकः // न शिष्टैरनुगम्यन्ते पर्याया इव साधवः / ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकः // अम्बाम्बेति यथा बाल: शिक्षमाणः प्रभाषते। अव्यक्तं तद्विदां तेन व्यक्ते भवति निश्चयः // एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते / तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते // " 1 अनुपपन्ना हि ब०। एतदन्तर्गत: पाठो नास्ति आ०12 विनोपप-ब०।।