________________ प्रवचनप्र० का०६५] अपभ्रंशादीनां वाचकत्वविचारः 757 स्वस्वावयवाभिव्यङ्गयस्य स्वाभिनेयार्थप्रतीतिहेतोरशक्यनिराकरणत्वात् / * तन्निराकरणे वा शब्दस्फोटाग्रहाभिनिवेशो दूरतः परित्याज्यः, आक्षेपसमाधानानामुभयत्र समानत्वात्। ततः स्फोटस्वरूपस्य विचार्यमाणस्य अनुपपद्यमानत्वात् नासौ पदार्थप्रतिपत्तिनिबन्धनं प्रेक्षादक्षैः प्रतिपत्तव्यः, किन्तु गवादिशब्दास्तन्निबन्धनं प्रतिपत्तव्या इति / नवस्तु तेषां तन्निबन्धनत्वम् ; किन्तु संस्कृतानामेव न प्राकृतानाम्, तेषामसासंस्कृतशब्दा एव धुत्वात् / व्याकरणसिद्धा एव हि गवादयः शब्दाः साधवः, अतसाधवोऽर्थवाचकाश्च स्तेषामेव अर्थवाचकत्वमुपपन्नं न पुनः गव्यादीना॑म् , तेषां तदभावात् / न तु अपभ्रंशादयः वृद्धव्यवहारे हि अनन्यथासिद्धाभ्यामन्वयव्यतिरेकाभ्यां वाच्यवारणादीनां पूर्वपक्षः- चकभावोऽवधार्यते, तौ च यदि एकस्य गोशब्दस्य एकत्र गोत्वलक्ष (1) "अथ पुनरेकमेवानवयवं वाक्यम्; तत्र-एकत्वेऽपि ह्यभिन्नस्म क्रमशो गत्यसम्भवात् / कालभेद एव न युज्यते / न टेकस्य क्रमेण प्रतिपत्तियुक्ता; गृहीतागृहीतयोरभेदात् / क्रमेण च वाक्यप्रतिपत्तिदृष्टा, सर्ववाक्याध्याहारश्रवणस्मरणकालस्यानेकक्षणनिमेषानुक्रमपरिसमाप्तेः वर्णरूपासंस्पर्शिनश्चैकबुद्धिप्रतिभासिनः शब्दात्मनोऽप्रतिभासनात् वर्णानुक्रमप्रतीतेः / तदविशेषेप्यनुक्रमकृतत्वाद्वाक्यस्य अनुक्रमवती वाक्यप्रतीतिः; वर्णानुक्रमोपकारानपेक्षणे तैर्यथाकथञ्चित्प्रयुक्तैरपि यत्किञ्चिद्वाक्यं प्रतीयेत विनापि वा वर्णेः / तैरनुक्रमवद्भिरक्रमस्योपकारायोगात् / अक्रमेण च व्यवहर्तुमशक्यत्वात् / गत्यन्तराभावाच्च ।"-प्रमाणवा० स्ववृ० 10253 / (2) 'एकः शब्द: सम्यग्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति ।"-पात महाभा० 6 / 1184 / "तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष अपशब्दः ।"-पात. महाभा० पस्पशा० / (3) "यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपदिष्टे गम्यत एतद् गाव्यादयोऽपशब्दा इति ।"-पात० महा० पस्पशा०। "तस्माद यमभियक्ता उपदिशन्त्येष एव साधुरिति साधुरित्यवगन्तव्यः ।"-शाबरभा० 123 / 27 / “शिष्टेभ्य आगमात्सिद्धाः साधवो धर्मसाधनम् / अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः ।"-वाक्यप० 1027 / "शब्दस्य तत्त्वमवैकल्यमनपगतसंस्कारं साधुस्वरूम् / अन्ये तु तत्प्रयुयुक्षया प्रयुज्यमाना विकलाः स्युरपभ्रंशाः ।"-वाक्यप० स्वव० 113 / “स साधुर्यस्य व्याकरणावगतः संस्कारोऽविकल: / ताद्विकलास्त्वपभ्रंशा इति ।"-वाक्यप० पु० टी० 1313 / 'तस्मान्न लोकवेदाभ्यां कश्चिद् व्याकरणादृते / वाचकाननपभ्रष्टान् यथावज्ज्ञातुमर्हति ।"-तन्त्रवा० पृ० 278 / “तथा व्याकरणाख्येन साधुरूपं नियम्यते / अविशेषेण सिद्धिः स्याद्विना व्याकरणस्मृतेः ॥"-तन्त्रवा० 10 287 / "व्याकरणलक्षणानुगमविशेषित्वं वाचकत्वं साधुत्वम् ।"-न्यायमं० पृ० 423 / “अभियुक्ततमैरिन्द्रपाणिनिप्रभृतिभिः साधुत्वेनाविगानतः स्मर्यते स साधुरितरोऽसाधुरिति निश्चीयते ।"-न्यायवा० पु० 714 / “साधुत्वं नाम क्वचिदर्थविशेषे स्वाभाविकप्रतिपादनशक्तियोगिनः शब्दस्य विलक्षणं रूपम् / तञ्च प्रकृतिप्रत्ययादिद्वारेण व्याकरणस्मृत्या यस्य प्रतिपाद्यते तस्यैव व्याकरणस्मतिसहकृतेन श्रोत्रप्रत्येक्षण असाधुशब्दव्यावृत्तं साधुत्वरूपं स्फुटतरमद्यतनस्तावत्प्रतीयत एव ।"-तौता० 10 128 / "गवादय एव साधवो न गाव्यादय इति साधुस्वरूपनियमः ।"-शास्त्रदी० 23 / 27 / “साधनेव प्रयुञ्जीत गवाद्या एव साधवः / इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः ॥"-जैमिनिन्या० श३।२७ / "इत्थञ्च संस्कृते एव शक्तिसिद्धौ शक्यसम्बन्धरूपवृत्तेरपि तत्रैव भावात्तत्त्वं साधुत्वम् / वस्तुतो वृत्तिमत्त्वं न साधुत्वम् / 'किन्तु व्याकरणनिष्पाद्यत्वम् / यत्र यः शब्दो व्याकरणे व्युत्पादितः स तत्र साधुः ।"-वैयाकरणभू०१० 249 / "अनपभ्रष्टतानादिर्यद्वाऽभ्युदययोग्यता / व्याक्रिया व्यञ्जनीया 1 खल्वावयवाभि-ब०, स्वसावयवाभि-आ०। 2 गव्यादी-आ०, ब०।