________________ 756 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० किञ्च, वर्णैः तद्बुद्धिभिर्वा व्यङ्ग्यो यदि शब्दस्फोटोऽभ्युपगम्यते; तदा प्रदीपादिना तबुद्ध्या वा व्यङ्ग्यः प्रदीपादिस्फोटोऽप्यभ्युपगम्यतामविशेषात् / प्रत्यक्षादिविरोधात् तदनभ्युपगमे शब्दस्फोटोऽप्यत एव नाभ्युपगन्तव्यः / बाधकानुमानस द्भावाच्च; तथाहि-नं वर्णाः स्फोटं व्यञ्जयन्ति व्यञ्जकत्वात् / अर्थबुद्धिर्वा वर्णपदवाक्य5 प्रभवा तद्भावभावित्वात् धूमादेपूंमध्वजबुद्धिवत् / ____ यदि च अर्थप्रतीत्यर्थो वर्णादिव्यतिरिक्तः शब्दस्फोटोऽभ्युपगम्यते तर्हि गन्धादिस्फोटोऽप्यभ्युपगन्तव्यः। यथैव हि शब्दः कृतसङ्केतस्य क्वचिदर्थे प्रतिपत्तिहेतुः तथा गन्धादिरपि, ‘एवंविधं गन्धमाघ्राय स्पर्शश्च संस्पृश्य रसञ्चास्वाद्य रूपञ्चावलोक्य त्वया एवंविधो ऽर्थः प्रतिपत्तव्यः' इति समयग्राहिणां पुनः कचित्तादृशगन्धाधुपलम्भात् तथाविधार्थप्रति10 पत्तिप्रसिद्धेः गन्धादि विशेषव्यङ्ग्यः गन्धादिस्फोटोऽस्तु वर्णविशेषव्यङ्ग्यपदादिस्फोटवत् / __ एतेन हस्त-पाद-करण-मात्रि(तृका)-अङ्गाहारादिस्फोटोऽपि आपादितो द्रष्टव्यः / नच पदादिस्फोट एव, नतु स्वावयवक्रियाविशेषव्यङ्ग्यो हंसपक्ष्मादिः हस्तस्फोटः, : विकुट्टितादिलक्षणः पादस्फोटः, हस्तपादसमायोगलक्षणः करणस्फोटः, करणद्वयरूपः मात्रि(तृ)कास्फोटः; मात्रि(तृ)कासमूहलक्षणः अङ्गहारस्फोटो वा इति वक्तुं युक्तम् ; तस्यापि (1) “वर्णा वा ध्वनयो वापि स्फोटं न पदवाक्ययोः / व्यञ्जन्ति व्यञ्जकत्वेन यथा दीपप्रभादयः / / सत्त्वात् घटादिवच्चेति साधनानि यथारुचि। लौकिकव्यतिरेकेण कल्पितेऽर्थे भवन्ति हि॥ नार्थस्य वाचकः स्फोट: वर्णेभ्यो व्यतिरेकतः / घटादिवत्, न दृष्टेन विरोधो धर्म्यसिद्धितः ॥"-मी० श्लो० स्फो. इलो० 131-33 / (2) "वर्णोत्था वाऽर्थधीरेषा तज्ज्ञानानन्तरोद्भवा / येदृशी सा तदुत्था हि धूमादेरिव वह्निधीः॥"-मी०श्लो०स्फो०श्लो०१३५॥ तत्त्वसं०का०२७३१॥ (३)“गन्धादिस्फोटस्य तथाभ्युपगमाईत्वात् / यथैव शब्दः वक्तृसंकेतस्य क्वचिदर्थप्रतिपत्तिहेतुः तथा गन्धादिरपि विशेषाभावात् / एवंविधमेव गन्धं समाघाय इत्थमेवंविधोऽर्थः प्रतिपत्तव्यः स्पर्श स्पृश्य रसं वास्वाद्य रूपं वालोक्येत्थम्भूतमीदृशो भावः प्रत्येतव्य इति समयग्राहिणां पुनः क्वचित्तादृशगन्धाधुपलम्भात् तथाविधार्थनिर्णयप्रसिद्धेः गन्धादिज्ञानाहितसंस्कारस्यात्मनः तद्वाक्यार्थप्रतिपत्तिहेतोः गन्धादिपदस्फोटतोपपत्तेः पूर्वगन्धादिविशेषज्ञानाहितसं. स्कारस्यात्मनः अन्त्यगन्धादिविशेषोपलम्भानन्तरं गन्धादिविशेषसमुदायगम्यार्थप्रतिपत्तिहेतोर्गन्धादिवाक्यस्फोटत्वघटनात् ।"-तत्त्वार्थश्लो० पृ० 427 / प्रमेयक० पृ० 457 / (4) हस्तपादसमायोगो नृत्यस्य करणं भवेत् ।"-नाट्यशा० 4 / 30 / (5) 'द्वे नृत्तकरणे चैव भवतो नृत्तमातृका / नृतस्य अङ्गहारस्यात्मनो मातृका उत्पत्तिकारणम ।"-नाटयशा०४।३१। (6) "अङ्गानां देशान्तरे समुचिते प्रापणप्रकारोऽङ्गहारः हरस्य चायं हारः प्रयोगः, अङ्गनिर्वयों हारः अङ्गहारः। स्थिरहस्तादिभेदेन द्वात्रिशद्विधः / द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः // त्रिभिः कलापकं चैव चतुभिर्मण्डकं भवेत् // पञ्चैव'करणानि स्युः सङघातक इति स्मृतः // षड्भिर्वा सप्तभिर्वापि अष्टभिः नवभिस्तथा / करणैरिह संयुक्ता अङ्गहाराः प्रकीर्तिताः॥"-नाटयशा०४।३१.३३ / (7) "पदादिस्फोट एव घटते न पुनः स्वावयवक्रियाविशेषाभिव्यङग्यः हंसपक्ष्मादिर्हस्तस्फोट: स्वाभिधेयार्थप्रतिपत्तिहेतुरिति स्वल्पमतिसन्दर्शनमात्रम् / एतेन वित्कुट्टितादिः पादस्फोट: हस्तपादसमायोगलक्षणः करणस्फोटः करणद्वयरूमात्रिकासहस्रलक्षणः अङ्गहारादिस्फोटश्च न घटते इति वदन्ननभिधेयवचनः प्रतिपादितो बोद्धव्यः, तस्यापि स्वस्वावयवाभिव्यङग्यस्य स्वाभिधेयार्थप्रतिपत्तिहेतोरशक्यनिराकरणात्।"-तस्वार्थश्लो०१४२७ 1-स्फोटोऽभ्यु-ब०।2-ञ्चालोक्य ब०, श्र०। 3-पक्षाविःश्र०।