________________ प्रवचनप्र० का० 65 ] स्फोटवादः 755 अर्थप्रतिपत्तिर्यथा भवति तथा प्रतिपादितमेव / किञ्च, सिद्धे वर्णोत्पादात् वायूत्पादाद्वा पूर्व स्फोटसद्भावे वर्णानां वायूनां वा तद्व्यञ्जकत्वं युक्तम् , न चास्य सद्भावः कुतश्चित् प्रमाणात् सिद्धः / / यदप्युक्तम् -'प्रत्यक्षतः तस्यैवावभासमानत्वात्' इत्यादि; तदपि श्रद्धामात्रम् ; घंटादिशब्देषु परस्परव्यावृत्तकालप्रत्यासत्तिविशिष्टवर्णव्यतिरेकेण स्फोटात्मनोऽर्थप्रकाश- 5 कस्य अध्यक्षगोचरचारितया [5] प्रतीतेः। न चाभिन्नप्रतिभासमात्रादर्थव्यवस्था युक्ता; अन्यथा दूरान्निविडतरुनिकरे अभेदप्रतिभासादेकत्वव्यवस्था स्यात् / अथास्य बाध्यमानत्वान्नैकत्वव्यवस्थापकत्वम् ; तदन्यत्रापि समानम्, स्फोटप्रतिभासेऽपि अनेकधा बाधकप्रदर्शनात् / यच्चान्यदुक्तम्-'यथानुवाकः श्लोको वा' इत्यादि; तदप्युक्तिमात्रम् ; दृष्टान्तदा - 10 न्तिकयोः वैषम्यात् / अनुवाक् (क) ग्रन्थादौ हि प्रत्यक्षतः प्रतीतिः, पुनः पुनरुच्चार्यमाणे चास्मिन् आवृत्या अप्रयासेनैवाऽवधारणमनुभूयते,अतस्तत्र तथा तत्कल्पनं युक्तम् ,स्फोटस्तु स्वप्नेऽपि न प्रतीयते, अतः कथं तस्य अन्तरालप्रत्ययैर्व्यङ्ग्यत्वकल्पना ज्यायसी। मिथ्या; तस्यावर्णरूपसंस्पर्शिनः कस्यचित्कदाचिदप्रतिपत्तेः / वर्णानाञ्चाक्रमेणाप्रतिपत्तेः कुतोऽक्रममेकबुद्धिग्राह्यं नाम / नचान्त्यवर्णप्रतिपत्तेरूर्वमन्यमशकलं शब्दात्मानमुपलक्षयामः ।"प्रमाणवा० स्ववृ० 10253 / / (1) "स्थिते च स्फोटस्य वर्णोच्चारणात् प्राक् सद्भावे वर्णानां वायूनां वा व्यञ्जकत्वं परिकल्प्येत / नच तत्सद्भावः कुतश्चित्प्रमाणादवगतः ।"-सन्मति० टी० पृ० 434 / प्रमेयक० पृ० 456 / . (2) पृ०.७४८ पं० 1 / (3) "घटादिशब्देषु परस्परव्यावृत्तानेकवर्णव्यतिरिक्तस्य स्फोटात्मनोऽर्थप्रत्यायकस्यैकस्य अध्यक्षप्रतिपत्तिविषयत्वेनाप्रतिभासनात् .."-सन्मति० टी० पृ० 435 / प्रमेयक० 10 457 / (4) तुलना-"दूरदेशावस्थितस्य हि विरलपदार्थस्य घनरूपताप्रतीतिः उत्तरकालभाविबलिष्ठविरलरूपताप्रत्ययेन बाध्यत इति तत्र घनत्वप्रतीतिवशाद् व्यवस्थाप्यमानं घनत्वमस्त्ववास्तवं कः किमाह / वर्णाद्यवयवाभासस्य तु नोत्तरकालिकं बाधकं किञ्चिच्चेतयामः / " स्या० र० पृ० 658 / (5) पृ० 749 पं०५। (6) तुलना-'यतोऽनुवाकश्लोकी सावयवौ वा स्यातां निरवयवौ वा ? प्रथमपक्षे वैषम्यम् / अनुवाकादौ हि सावयवत्वात् स्फुटोऽस्फुटश्चावभासो युज्यते स्फोटे तु निरवयवत्वान्न तौ संभवतः इति। अपसिद्धान्तप्रसङ्गश्चास्मिन् पक्षे वैषम्यम्-श्लोकानुवाकयोरपि स्फोटरूपत्वेनाभ्युपगतयोर्भवच्छास्त्रे निरवयवत्वेनाभ्युपगतत्वात् / द्वितीयविकल्पे तु देवदत्त गामभ्याजेति वाक्यस्फोटवत् एतावपि पूर्वपूर्वध्वनिजनिताभिव्यक्तिकृतसंस्कारविशेषावन्त्यध्वनिबुद्धौ प्रथमावृत्तावपि स्फुटरं प्रतिभासेयाताम् ।"-स्या०र०पृ०६६० / “योऽपि द्वितीयो दृष्टान्त उदाहारि-यथानुवाकः श्लोको वा प्रथमसंस्थया गृहीतोऽपि संस्थानान्तराभ्यासैः स्फुटतरपरिच्छिन्नो भवति तथा स्फोटोऽपि प्रथमवर्णव्यक्तो वर्णान्तरैरतिशयिताभिव्यक्तिर्भविष्यतीति; सोऽपि न सदृशो दृष्टान्तः श्लोकानुवाकयोरनंशत्वानुपपत्तेः। केचिदवयवा वर्णात्मानः पदात्मानो वा प्रथमायां बुद्धावपरिस्फुरन्तः संस्थाभ्यासलब्धातिशयायां तस्यां प्रकटीभवन्ति, स्फोटस्तु एकवर्ण इव निरंशः इति तत्र को बुद्धेरतिशययोगः तस्मादयमपि न सङ्गतो दृष्टान्तः।"-न्यायम०प०३०९। (7) स्फुटतरतमादिरूपेणाभिव्यक्तिकल्पनम् / 1 पूर्वस्फोट-आ०,ब० / 2 'पुनः' नास्ति आ०। तथावत्कल्प-आ०, तदात्मनत्कल्प-श्र० / 4 प्रतीतोतः ब०, श्र०।