________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० णापनयनम् ; तदा एकत्रैकदा आवरणापगमे सर्वदेशावस्थितैः सर्वदोपलभ्येत नित्यत्वव्यापित्वाभ्यामपगतावरणस्यास्य सर्वत्र सर्वदोपलभ्यस्वभावत्वात् / अनुपलभ्यस्वभावत्वे वा न कचित् कदाचित् केनचिदुपलभ्येत / अथ एकदेशेन आवरणापगमः क्रियते; नन्वेवम् आवृतानावृतत्वेनास्य सावयवत्वसंभवात् कार्यत्वाऽनित्यत्वे स्याताम् / अथ 5 अविनिर्भागत्वेन एकत्राऽनावृतोऽसौ सर्वत्राऽनावृतोऽभ्युपगभ्यते; तर्हि तदवस्थः अशेषदेशावस्थितैरुपलब्धिप्रसङ्गः। यथा च निरवयवत्वात् एकत्राऽनावृतः सर्वत्राऽनावृतः, तथा एकत्र आवृतः सर्वत्राप्यावृत इति मनागपि नोपलभ्येत / अथ स्फोटविषयसंवेदनोत्पादस्तत्संस्कारः; सोऽप्ययुक्तः; वर्णानामर्थप्रतिपत्तिजननवत् स्फोटप्रतिपत्ति. जननेऽपि सामर्थ्यासंभवात् , न्यायस्य समानत्वात् / अथ मतम्-पूर्ववर्णश्रवणज्ञानाहितसंस्कारस्य आत्मनः अन्त्यवर्णश्रवणज्ञानानन्तरं पदादिस्फोटस्य अभिव्यक्तेरयमदोषः; तदप्यपेशलम् ; पैदार्थप्रतिपत्तेरप्येवं प्रसिद्धेः रैफोटकल्पनानर्थक्यात् / चिदात्मव्यतिरेकेण तत्त्वान्तरस्यास्य अर्थप्रकाशनसामर्थ्यासंभवाच्च / स एव हि चिदात्मा विशिष्टशक्तिः स्फोटोऽस्तु, स्फुटति प्रकटीभवति अर्थोऽस्मिन्निति स्फोटः चिदात्मा। पदार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टः पदस्फोटः, वाक्यार्थ15 ज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टस्तु वाक्यफोटः, इति भावतः श्रुतज्ञानपरिणतस्य आत्मनस्ताभिधानाविरोधात् / ___'वायवः स्फोटाभिव्यञ्जकाः' इत्यप्यसुन्दरम् ; शब्दाभिव्यक्तिवत् स्फोटाभिव्यक्तेः तेभ्योऽनुपपत्तेः / तेषां तद्व्यञ्जकत्वे च वर्णकल्पनावैफल्यम् , स्फोटाभिव्यक्तौ अर्थप्रति पत्तौ च अमीषामनुपयोगात् / 20 एतेन 'नादेनाहितबीजायाम्' इत्यादि प्रत्याख्यातम् ; नित्यत्वमन्तरेणापि च (1) स्फोटस्य / (2) स्फोटः / (3) "तथैव पदार्थप्रतिपत्तिसिद्धेः स्फोटपरिकल्पनानर्थक्यात् / चिदात्मव्यतिरेकेण तत्त्वान्तरस्य स्फोटस्यार्थप्रकाशनसामर्थ्यानुपपत्तेः। स एव चिदात्मा विशिष्टशक्तिः स्फोटोऽस्तु / स्फोटति प्रकटीभवत्यर्थोऽस्मिन्निति स्फोटश्चिदात्मा। पदार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्ट: पदस्फोट:, वाक्यार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टो वाक्यस्फोट इति / प्रकरणाह्निकाध्यायशास्त्रादिरङ्गप्रविष्टाङ्गबाह्यविकल्पः स्फोट: प्रसिद्धो भवति, भावश्रुतज्ञानपरिणतस्यात्मनस्तथाभिधानाविरोधात्।"-युक्त्यनु० टी० पु० 97 / तत्त्वार्थश्लो० पृ० 427 / प्रमेयक० 10 456 / (4) तुलना-"स्फोटवादिनस्तु दृष्टहानिरदृष्टकल्पना च। वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति, स स्फोटोऽर्थ व्यनक्तीति गरीयसी कल्पना स्यात् ।"-ब्रह्म शां० भा० 1 / 3 / 28 / (5) 'स्फुटत्यर्थोऽस्मिन् प्रकाशते इति स्फोट:"-तत्त्वार्थश्लो० पृ०४२६। (6) पदवाक्यादिस्फोटरूपेण / (7) "वायनाञ्च व्यञ्जकत्वपरिकल्पने वर्णवैफल्यप्रसक्तिः ।"-सन्मति० टी०पू०४३४। प्रमेयक० पू०४४६। न च स्फोटमभिव्यञ्जन्ति ध्वनयः अचाक्षुषप्रत्यक्षत्वात् गन्धवत्।"-तत्त्वार्थभा० व्या०५।२४। (8) वर्णानाम् / (9) पृ० 749 पं०७। (10) तुलना-"समस्तवर्णसंस्कारवत्याऽन्त्यया बुद्धघा वाक्यावधारणमित्यपि 1 'कदाचित' नास्ति आ०,श्र०। 2 नत्वे आ०, ब०। 3 अन्यवर्ण-श्र०। 4 स्फोटति श्र०। $ एतदन्तर्गतः पाठो नास्ति आ०।