________________ प्रवचनप्र० का०६५ ] स्फोटवादः 753 यथाहि गौरिति पदस्यार्थो गकारोच्चारणात् प्रतीयते तथा औकारोच्चारणाद् औशनस इति पदार्थोऽपि, तथा च गौरिति पदादेव 'गौः' 'औशनसः' इत्यर्थद्वयं प्रतीयेत / संशयो वा स्यात्-'किं पदान्तरस्फोटव्यवच्छेदेन एकपद स्फोटाभिव्यक्तये गवाद्यनेकवर्णोच्चारणम् , किंवा अनेकपदस्फोटाभिव्यक्तये अनेकाद्यवोच्चारणम्' इति / नच पूर्ववर्णैः स्फोटस्य संस्कारे अन्त्यो वर्णस्तस्य व्यञ्जकः इति न वर्णान्तरोच्चारणवैयर्थ्यमित्य- 6 भिधातव्यम् ; अभिव्यक्तिव्यतिरिक्तस्य संस्कारस्यैव तत्रानुपपत्तेः / न खलु वेगाख्यः तंत्र तैः संस्कारो विधीयते; मूर्तेष्वेव अस्य संभवात् / नापि वासनारूपः; अँचेतनत्वात् / स्फोटस्य तच्चैतन्याभ्युपगमे वा स्वशास्त्रविरोधः / नापि स्थितस्थापकरूपः; अस्यापि मूर्त्तद्रव्यवृत्तित्वात् , स्फोटस्य च अमूर्त्तत्वाभ्युपगमात् / . किश्च, असौ संस्कारः स्फोट एव, तद्धर्मो वा ? तत्र आद्यविकल्पोऽयुक्तः; स्फोटस्य 10 वर्णोत्पाद्यत्वानुषङ्गात् / द्वितीयविकल्पोऽप्यसंभाव्यः; व्यतिरिक्ताव्यतिरिक्तविकल्पानुपपत्तेः / स्फोटाद्धि तस्य अव्यतिरेके तत्करणे स्फोट एव कृतो भवेत् , तथा चास्य अनित्यत्वानुषङ्गात् स्वाभ्युपगमक्षतिः / व्यतिरेके तु सँम्बन्धानुपपत्तिः अनुपकारकत्वात् , तस्य तदुपकारकत्वे वा तदुपकारस्यापि ततोव्यतिरिक्ताऽव्यतिरिक्तविकल्पप्रसङ्गः, तत्रापि पूर्वोक्तदोषोऽनवस्थाकारी प्रसज्येत / नच व्यतिरिक्तधर्मसद्भावेऽपि स्फोटस्य अनभिव्यक्त- 15 स्वरूपापरित्यागे पूर्ववदर्थप्रतिपत्तिहेतुत्वं घटते अतिप्रसङ्गात, तत्त्यागे वाऽनित्यत्वप्रसक्तिः / किञ्च, वर्णैः संस्कारः स्फोटस्य क्रियमाणः किमेकदेशेन क्रियेत, सर्वात्मना वा ? यदि एकदेशेन; तदा तद्देशानामपि अतोऽर्थान्तरानान्तरपक्षयोः पूर्वोक्तदोषानुषङ्गः। सर्वात्मना संस्कारे तु सर्वत्र सर्वदा सर्वेषां ततोऽर्थप्रतीतिः स्यात् / किञ्च, स्फोटसंस्कारः स्फोटविषयसंवेदनम्, आवरणापनयनं वा ? यदि आवर- 20 (1) तुलना-"अभिव्यक्तिव्यतिरिक्तसंस्कारस्वरूपानधारणात् / तथाहि न तावत्तत्र तैर्वेगाख्यः संस्कारो निर्वय॑ते तस्य मूर्तेष्वेव भावात् / नापि वासनारूपः; अचेतनत्वात् "-सन्मति० टी० 10 433 / प्रमेयक० पू० 454 / (2) स्फोटे / (3) वर्णेः / (4) स्फोटस्य अचेतनत्वात् / (5) "किञ्चासौ संस्कारः स्फोटस्वरूपस्तद्धर्मो वा ?"-प्रमेयक० पृ० 455 / सन्मति० टी०पू० 434 / (6) संस्कारस्य / तुलना-"अपि च साऽभिव्यक्तिः स्फोटादव्यतिरिक्ता व्यतिरिक्ता वा ध्वनिभिः क्रियेत ?"-स्या० र० पृ० 662 / (7) स्फोटस्य। (8) स्फोटस्यायं संस्कार इति / (9) संस्कारस्य। (10) स्फोटोपकारकत्वे। (11) संस्कारकृतोपकारस्यापि। (12) स्फोटात् / (13) अनभिव्यक्तस्वरूपपरित्यागे। (14) तुलना-"किञ्च, आद्यो वर्णध्वनि: शब्दात्मा सकलस्य वा व्यञ्जकः स्यादेकदेशस्य वा? यदि सकलस्य; इतरेषां ध्वनीनामानर्थक्यं स्यात् / अथैकदेशस्य; निरवयवत्वमस्य हीयते ।"-राजवा० 5 / 24 / प्रमेयक० पृ० 455 / सन्मति० टी० पृ० 434 / (15) स्फोटात् / (16) "किञ्च, स्फोटसंस्कारः स्फोटविषयसंवेदनोत्पादनम्, आवरणापनयनं वा?"-प्रमेयक० पृ० 455 / सन्मति० टी० पृ० 434 / 1यथा गौ-श्र०। तदा श्र०। प्रतीयते आ०। एतदन्तर्गत: पाठो नास्ति आ० / 4 धर्मो वा श्र०। 5 स्फोटाद्वैतस्य ब.। 6-दोषानवस्था-श्र०। 7 वानि-ब।