________________ 752 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० वर्णः पदार्थप्रतिपत्तिहेतुः। वाक्यार्थप्रतिपत्तावपि अयमेव न्यायो द्रष्टव्यः / वर्णाद् वर्णोत्पत्त्यभावप्रतिपादनञ्च सिद्धसाधनमेव / तदेवं यथोक्तसहकारिकारणसव्यपेक्षादन्त्यवर्णाद् अर्थप्रतिपत्तेः अन्वयव्यतिरेकाभ्यां निश्चयात् स्फोटपरिकल्पनाऽनर्थिकैव, तदभावेऽपि अर्थप्रतिपत्तेः उक्तप्रकारेण संभवे अन्यथानुपपत्तेः प्रक्षयात् / न खलु 5 दृष्टादेव कारणात् कार्योत्पत्तौ अदृष्टतदन्तरपरिकल्पना युक्तिसङ्गता अतिप्रसङ्गात् / किञ्च, यदि उपलभ्यमाना वर्णा व्यस्ताः समस्ता वा नार्थप्रतिप्रत्तिजननसमर्थाः, तैदा स्फोटाभिव्यक्तावपि न समर्थाः स्युः / तथाहि-न समस्तास्ते स्फोटमभिव्यञ्जयन्ति उक्तप्रकारेण तेषां सामस्त्यासंभवात् / नापि व्यस्ताः; वणान्तरोच्चारणानर्थक्यप्रसङ्गात्, एकेनैव वर्णेन स्फोटाभिव्यक्तेः कृतत्वात् / न च पदार्थान्तरप्रतिपत्तिव्यवच्छेदार्थ 10 तदुच्चारणम् इत्यभिधातव्यम् ; तेदुच्चारणेऽपि तत्प्रतिपत्तिप्रसक्तेरवश्यम्भावित्वात् / "तथाभूतसंस्कारप्रभवस्मृतिसव्यपेक्षो वाऽन्त्यो वर्णः पदार्थप्रतिपत्तिहेतुः ।"-प्रमेयक. 10.454 / "तस्मात्पूर्ववर्णेषु स्मृतिरुपजाता अन्त्यवर्णेनोपलम्यमानेन सहार्थप्रतिपत्तिमत्पादयति ।"-सन्मति० टी० / पृ० 433 / द्रष्टव्यम्-पु. 750 टि०६ / (1) "क्रमोपलब्धेष्वपि वर्णेषु मानसमनुव्यवसायरूपमखिलवर्णविषयं सङ्कलनाज्ञानं यदुपजायते तदर्थप्रत्ययनाङ्गं भविष्यति ।"-न्यायमं० पृ० 376 / “सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङक्तिबुद्धिमारोहन्ति एवं क्रमानुरोधिन एव वर्णाः पदबुद्धिमारोक्ष्यन्ति / तत्र वर्णानांमविशेषेऽपि क्रमविशेषकृता पदविशेष प्रतिपत्तिन विरुध्यते / वृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसम्बन्धाः सन्तः स्वव्यवहारेऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमशिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना।"ब्रह्म शां० भा० 103 / 28 / "ते हि पूर्वमनुभूताः प्रत्येकमनुभूतताक्रमोपसृष्टाः एकबुद्धिसमारोहिण: शक्नुवन्त्यर्थधियमाधातुम्।"-न्यायवा० ता० पृ० 470 / (2) तुलना-"वर्णाद्वर्णोत्पत्त्यभावप्रतिपादनञ्च सिद्धसाधनमेव / तदेवं यथोक्तसहकारिकारणसव्यपेक्षादन्त्याद्वर्णादर्थप्रतिपत्ति: अन्वयव्यतिरेकाभ्यामपजायमानत्वेन निश्चीयमाना स्फोटपरिकल्पनां निरस्यति तदभावेऽप्यर्थप्रतिपत्तेरुक्तप्रकारेण संभवेऽन्यथानुपपत्तेः प्रक्षयात् / नहि दृष्टादेव कारणात् कार्योत्पत्तावदृष्टतदन्तरपरिकल्पना युक्तिसङ्गता अतिप्रसङ्गात्।"-सन्मति० टी० पु० 433 / प्रमेयक० पृ० 454 / (3) 'यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः। सोऽपि पर्यनुयोगेन नैवैतेन विमुच्यते // तत्रापि प्रतिवर्णं पदस्फोटो न गम्यते / नचावयवशो व्यक्तिस्तदभावान्न चात्र धीः // प्रत्येकञ्चाप्यशक्तानां समुदायेप्यशक्तता।"-मी० श्लो. स्फो० श्लो०९१-९३ / “न समस्तैरभिव्यज्यते; समुदायानभ्युपगमात् / न व्यस्तैः; एकेनैवाभिव्यक्तौ शेषोच्चारणवैयर्थ्यप्रसङ्गात् ।"-प्रश० व्यो० पृ० 595 / “पदस्फोटो नित्यो निरंशः सर्वगतोऽमर्तः किमनभिव्यक्त एवार्थप्रतिपत्तिहेतुरभिव्यक्तो वा ? प्रथमपक्षे वर्णोच्चारणानर्थक्यम्। द्वितीयपक्षे तु पदस्फोटोऽभिव्यज्यमानः प्रत्येक वर्णेनाभिव्यज्यते वर्णसमूहेन वा ?"-युक्त्यनु० टी० ए० 96 / तत्त्वार्थश्लो० पृ० 426 / प्रमेयक० पृ० 454 / सन्मति० टी० पृ० 433 / (4) वर्णानाम् / (5) "वर्णान्तरोच्चारणादपि पदार्थान्तरप्रतिपत्तेरेवानुषङ्गात् / यथाहि गौरिति पदस्यार्थो गकारोच्चारणात् प्रतीयत तथा औकारोच्चारणाद् औशनस इति पदस्थार्थः प्रतिपद्येत / आद्येन गकारेण गौरिति पदस्येव प्रथमौकारेण औशनस इति पदस्य स्फोटस्य अभिव्यक्तेः / तथा च गौरिति पदादेव गौरौशनस इति वाक्यार्थप्रतिपत्तिः प्रसज्येत / संशयो वा स्यात्"-युक्त्यनु० टी०१० 96 / प्रमेयक पृ० 454 / 1 बुद्धिः संगता ब०, युक्तिः संगता आ० / 2 तथा आ०, ब०।