________________ प्रवचनप्र० का०६५ ] स्फोटवादः 751 ननु संस्कारस्य कथं विषयान्तरे ज्ञानजनकत्वम् ? इत्यप्यचोद्यम् ; इत्थमेव वाक्यार्थप्रतीतेरुपलब्धेः / पूर्ववर्णविज्ञानप्रभवसंस्कारश्च प्रेणालिकया अन्त्यवर्णसहायतां प्रतिपद्यते; तथाहि-प्रथमवर्णे तावद्विज्ञानम् , तेन च संस्कारो जन्यते, ततो द्वितीयवर्णविज्ञानम् , तेन च पूर्ववर्णज्ञानाहितसंस्कारसहितेन विशिष्टः संस्कारो जन्यते, एवं तृतीयादावपि योजनीयम् , यौवदन्त्यः संस्कारः अर्थप्रतीतिजनकान्त्यवर्णसहायः / / अथवा, शैब्दार्थोपलब्धिनिमित्तादृष्टप्रतिनियमाद् अविनष्टा एव पूर्वसंविदः तत्संस्काराश्च अन्त्यवर्णसंस्कारं विदधति / तथाभूतसंस्कारप्रभवस्मृतिसव्यपेक्षो वा अन्त्यो (1) अर्थप्रतीतो। यद्विषयको हि संस्कारः तद्विषयामेव स्मृति विदधातीति नियमात / शब्दविषयकश्च संस्कारः शब्दस्मृतिमेव विदधीत नतु अर्थप्रतीतिमिति भावः। तुलना-'यद्यपि स्मृतिहेतुत्वं संस्कारस्य व्यवस्थितम् / कार्यान्तरेषु सामर्थ्य न तस्य प्रतिषिध्यते // ननु हेतोः कथं कार्यान्तरे सामर्थ्यमत आह-यद्यपि इति। संभवति टकस्याप्यनेकत्र सामर्थ्य कर्मवत्संयोगविभागयोरिति ।"-मी० श्लो० न्यायर० पृ० 536 / “यतः पदार्थे प्रतीत्यनुगुणतया प्रत्येकमनुभवैराधीयमाना वर्णविषयाः संस्काराः स्मृतिहेतुसंस्कारविलक्षणशक्तय एवाधीयन्ते, तथाभूतानामेव तेषां कार्येणाधिगमात्"-प्रश० कन्द०१० 271 / (2) तुलना-"तथा चैकस्मिन् वर्णे ज्ञाते तेन क्रियते संस्कारः, पुद्वितीयवर्ण ज्ञानम्, तेनापि पूर्ववर्णसंस्कारसहकारिणा संस्कार इति क्रमेणान्त्यवर्णज्ञानम्, तस्मात् पूर्वसंस्काराभिव्यक्तावशेषवर्णा• नुस्मरणे सत्यन्त्यवर्णादर्थप्रतिपत्तिः ।"-प्रश० व्यो० पृ० 595 / प्रमेयक० पृ० 453 / सन्मति०टी० 10433 / “स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति / तत्र चेयं कल्पना वर्णक्रमेण तावत् प्रथमपदज्ञानं ततः संकेतस्मरणं संस्कारश्च युगपद् भवतः / ज्ञानयोहि यौगपद्यं शास्त्रे प्रतिषिद्धं न संस्कारज्ञानयोः। ततः पदार्थज्ञानं तेनापि संस्कारः, पुनर्वर्णक्रमेण द्वितीयपदज्ञानं ततः संकेतस्मरणं पूर्वसंस्कारसहितेन च तेन पटुतरः संस्कारः पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञानं संकेतस्मरणं पूर्वसंस्कारापेक्षः पटुतरः संस्कारः, पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञानं संकेतस्मरणं पूर्वसंस्कारापेक्ष: पटुतरः संस्कारः इत्येवं पदज्ञानजनिते पीवरे संस्कारे पदार्थज्ञानजनिते च तादृशि संस्कारे स्थिते अन्त्यपदार्थज्ञानानन्तरं पदसंस्कारात् सर्वपदविषयस्मृतिः, पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति संस्कारक्रमात् क्रमेण द्वे स्मृती भवतः / तत्रैकस्यां स्मृतावुपारूढ: पदसमूहो वाक्यमितरस्यामुपारूढः पदार्थसमूहो वाक्यार्थः / अथवा कृतं स्मरणकल्पनया अन्त्यपदार्थज्ञानानन्तरं सकलपदपदार्थविषयो मानसोऽनुव्यवसायः शतादिप्रत्ययस्थानीयो भविष्यति। तदुपारूढानि पदानि वाक्यं तदुपारूढश्च पदार्थो वाक्यार्थः ।"-न्यायमं०१० 394-95 / (3) तुलना-"अन्ये तु शब्दार्थोपभोगप्रापकादृष्टनियमिताः पूर्ववर्णानुभवजनितसंस्काराः पूर्ववर्णेष्वेकं स्मरणमारभन्ते तत्सहकारी चान्त्यो वर्णः पदम् / यदि वा संस्कारमेकं विचित्रमारभन्ते तस्माच्च पूर्ववर्णेष्वेकं स्मरणमिति ।"-प्रश० व्यो० पृ० 595 / प्रमेयक० पृ० 453 / सन्मति० टी० 10 433 / (4) तुलना-"यद्वा प्रत्यक्षतः पूर्व क्रमज्ञातेषु यत्परम् / समस्तवर्णविज्ञानं तदर्थज्ञानकारणम् / अन्त्यवर्णेऽपि विज्ञाते पूर्वसंस्कारकारितम् / स्मरणं योगपद्येन सर्वेष्वन्ये प्रचक्षते // सर्वेष चैवमर्थेषु मानसं सर्ववादिनाम् / इष्टं समुच्चयज्ञानं क्रमज्ञानेषु सत्स्वपि // न चेत्तदाऽभ्युपेयेत क्रमदृष्टेषु नैव हि / शतादिरूपं जायेत तत्समुच्चयदर्शनम् // तेन श्रोत्रमनोभ्यां स्यात् क्रमाद्वर्णेषु यद्यपि / पूर्वज्ञानं परस्तात्तु युगपत्स्मरणं भवेत् // तदारूढास्ततो वर्णा न दूरेऽर्थावबोधनात् / शब्दादर्थमतिस्तेन लौकिकरभिधीयते ।"-मी० श्लो० स्फो० श्लो० 109,112-116 / तत्त्वसं० का० 2720-25 / 1-ब्धेः ज्ञानाहितसंस्कारश्च आ०। 2-वर्णेन ता-आ०। 8 तेन च पूर्ववर्णविज्ञानं तेन विशिष्ट: संस्कारो ब०। 4 यावदन्त्यसंस्का-आ०।