________________ 750 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० अत्र प्रतिविधीयते / यत्तावदुक्तम्-'स्फोट एव' इत्यादि; तदसमीक्षिताभिधानम् ; स्फोटनिरसनपुरस्सरं पूर्ववर्णध्वंसविशिष्टाद् अन्त्यवर्णादर्थप्रतिपत्तेरुपपत्तितः स्फोटस्य अर्थवर्णानामेव अर्थप्रति- प्रतिपादकत्वानुपपत्तेः / न च अभावस्य सहकारित्वं न दृष्टम् ; पादकत्वप्रतिपादनम्- वृन्तफलसंयोगाभावस्य अप्रतिबद्धगुरुत्वफलप्रपातक्रियाजनने तदैर्शनात् , तथा प्राक्तनसंयोगाभावविशिष्टं कर्म उत्तरसंयोगं कुर्वत् प्रतीतम् , परमाण्वग्निसंयोगश्च परमाणौ तद्रूतपूर्वरूपप्रध्वंससहकृतो रक्ततामुत्पादयन् दृष्टः / यद्वा पूर्ववर्णविज्ञानाभावविशिष्टः तज्ज्ञानजनितसंस्कारसव्यपेक्षो वा अन्त्यो वर्णः अर्थप्रतीत्युत्पादकः / परिपाको यस्या इति, परिपाक: कार्योत्पादन प्रति विशिष्ट आत्मलाभः"-वाक्यप० वृ० टी०। "आवृत्तोऽभ्यस्त: परिपाको यस्याः सा तथोक्ता, प्रथमेन ध्वनिना किञ्चिद्भावनाबीजमाहितम्, तेन च कश्चित्परिपाक: कार्यजननशक्तिविशेषः एवं द्वितीयेनेति / यद्यपि परिपाका भिन्नाः तथापि जातिमाश्रित्यावृत्तवाचोयुक्तिः अष्टकृत्वो ब्राह्मणा भुक्तवन्त इतिवत् / आवृत्तेत्यस्यान्या व्याख्या-आवृत्तेन वावृत्त्या कषायपरिपाको यस्यामिति / क्वचित्तु आवृत्तीति पाठः / बुद्धावन्तःकरणे . शब्दोऽवधार्यते अन्त्येन ध्वनिना सह, यदा अन्त्यो ध्वनिरवधार्यते तदा गौरित्येवं शब्दोऽप्यवधार्यत इत्यर्थः ।"-स्फोटसि० टी० पृ० 132 / 'आवृत्तपरि'-वाक्यप०, स्फोटसि०, प्रमाणवा० स्ववृ० टी०, तत्त्वसं० पृ० 722 / सन्मति० टी० पृ० 435 / स्फोटत०१०९। 'आवृत्तिपरि-तत्त्वसं० पं० पु० 636 / प्रमेयक० पृ० 456 / स्या० र० पृ० 650 / न्यायवि० वि०पू० 576 B. I (8) 'शब्दोऽवधार्यते'-वाक्यप० / स्फोटसि० / प्रमाणवा० स्ववृ० टी०। तत्त्वसं०५०। स्या० 20 / सर्वद०। प्रकृतपाठः-तत्त्वसं० 10722 / प्रमेयक० / सन्मति० टी० / न्यायवि०वि०। (1) पृ०७४५ पं० 11 // (2) तुलना-“अन्ये तु पूर्ववर्णानां तज्ज्ञानानाञ्च अतीतानामप्यन्त्यवर्णसहकारित्वमन्वयव्यतिरेकोपपत्तेः / तथाहि-वर्तमानस्य कारणत्वमन्वयव्यतिरेकाभ्यां विज्ञातम् एवमतीतस्यापि / यदि वा पूर्ववर्णविनाशास्तज्ज्ञानप्रध्वंसाश्च समीपवर्तिनोऽन्त्यवर्णसहकारिण:।"-प्रश० व्यो० पृ०५९५। प्रमेयक० पृ०४५३। “तत्र पूर्वे वर्णाः अतीता अप्युपकरिष्यन्ति, चरमवर्णस्तु वर्तमान इतीदृश एवायं काल्पनिकः क्रियाक्षणसमूह इव वर्णसमूहोऽर्थप्रत्यायकः।"-न्यायमं० पू० 376 / 'अर्थप्र तिपत्तिस्तु उपलभ्यमानात् पूर्ववर्णध्वंसविशिष्टादन्त्यवर्णात् / न चाभावस्य सहकारित्वं विरुद्धम्। वृन्तफलसंयोगाभावस्येवाप्रतिबद्धगुरुत्वफलप्रपातक्रियाजनने, दृष्टञ्चोत्तरसंयोगं विदधत् प्राक्तनसंयोगाभावविशष्टं कर्म, परमाण्वग्निसंयोगश्च परमाणौ तद्गतपूर्वरूपप्रध्वंसविशिष्टो रक्ततामुत्पादयन् / " -सन्मति० टी० पृ० 433 / (3) सहकारित्व / (4) परमाणुगतश्यामरूप / (5) “यद्वा उपलभ्यमानोऽन्त्यवर्णः पूर्ववर्णविज्ञानाभावविशिष्ट: पदरूपतामासादयन् पदार्थे प्रतिपत्ति जनयति ।"सन्मति० टी० पृ० 433 / प्रमेयक० पृ० 453 / (6) “पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः प्रत्यायकः।"-शाबरभा० 11115 / "वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच्छ्रवणं भवति, श्रुतं वर्णमेकमनेकं वा पदभावेन प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्याति / पदव्यवसायेन स्मृत्या पदार्थ प्रतिपद्यते, पदसमूहप्रतिसन्धानाच्च वाक्यं व्यवस्यति, सम्बद्धांश्च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यते ।"-न्यायभा० 3 / 2060 / “अन्त्यवर्णप्रत्ययात् पूर्ववर्णप्रतिसन्धानप्रत्ययापेक्षादर्थप्रत्ययः ।"न्यायवा०प० 310-16 / 'पूर्ववर्णानुगृहीतस्यान्त्यवर्णस्य स्वानुभवसहकारिणोऽर्थप्रतिपादकत्वात् ।"प्रश० व्यो० पृ० 595 / "यद्वा पूर्ववर्णसंस्कारस्मरणयोरन्यतरसापेक्षोऽन्त्यो वर्णः प्रत्यायकः ।"-प्रश० कन्द० पृ० 270 / प्रमेयक०पू०४५३ / “प्राक्तनवर्णसंवित्प्रभवसंस्कारसव्यपेक्षो वा"-सन्मति० टी० पृ० 433 / “तत्तद्वर्णसंस्कारसहितचरमवर्णोपलम्भेन तद्वयञ्जकेनैवोपपत्तेरिति ।"-मुक्ता० शब्दख० /