________________ प्रवनचप्र० का 0 65] स्फोटवादः 746 रुच्चार्यमाणोऽनुवाकग्रन्थः श्लोको वा आवृत्या सुखेनैव अवधारयितुं शक्यते न तु सकृदुच्चरितः प्रतिगताऽऽवृत्तिः, तथैवायं स्फोटलक्षणः शब्दः अन्तरालप्रत्ययैः सत्यप्रतिभासकल्पैः तद्ग्रहणानुगुणोपायभूतैः अभिव्यज्यते / अन्त्येन हि ध्वनिना सह पूर्वभाविभि दै: आहितसंस्कारायां बुद्धौ अयं स्फुरन्नेव अवधार्यते / उक्तञ्च“यथाऽनुवाकः श्लोको वा सोढत्वमुपगच्छति / श्रावृत्त्या नैतु स ग्रन्थः प्रत्यावृत्तिनिरूप्यते // 5 पैंत्ययैरनुपाख्येयैर्ग्रहेणानुगुणैस्तथा / ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते / नादेनाहितबीजायामन्त्येन ध्वनिना सह / आवृत्ति(त्त परिपाकायां बुद्धौ शब्दोऽवभासते॥" [वाक्यय० 1183-85 ] इति ॥छ॥ (1) ऋग्यजुःसामसमूहः-इत्यमरः / "वेदविशेष इति सूभूतिः"-शब्दकल्पद्रुमः / (2) व्याख्या-"सोढत्वमेकबुद्धिविषयत्वम्, एवं वर्णपदवाक्यविषयाः प्रयत्नविशेषसाध्या ध्वनयो वर्णपदवाक्याख्यान स्फोटान पुनः पुनराविर्भावयन्तो बुद्धिष्वध्यारोपयन्ति "नत्वेतावता आनन्त्यं स्फोटानाम्,यथावृत्तौ न श्लोकाद्यानन्त्यम् / तदेवाह-न तु प्रत्यावृत्त्या स ग्रन्थः श्लोकसमुदायात्मको भेदेन निरूप्यत इत्यर्थः / तत्रान्त्यया ध्वनिना सम्यग्बुद्धौ निवेशः / यच्चानुपगृहीतविशेष बुद्धावसन्निविष्टं तावदनुपलब्धमेव / नहि तेन कश्चिदपि व्यवहारः प्रकल्प्यते।"-वाक्यप० पु० टी० / वाक्यप०.७० / 'अनुवाक इति वैदिकं वाक्यम्, सोढत्वमिति सोढुं शक्यत्वं बुद्ध्याक्रमणीयता स्वीकार्यत्वम्, येन स्वेच्छयाऽसौ पठनीयो भवति / आवृत्येति जातावेकवचनम्, आवृत्तिरेकैकापि उपयुज्यते उत्तरोत्तरविशेषाधानाय, अन्यथा एकावृत्त्यैव सोढता स्यादिति / "यथा ह्यनुवाक: श्लोको वा पुनः पुनरावृत्त्या सुखेनावधारयितुं शक्यते / न च प्रत्यावृत्तिस्तत्र ईदृशी बुद्धिरुपजायते यथेदं गृहीतमिदं नेति / अथ चानेकावृत्तौ श्लोकाद्यवभासः स्पष्टः संवेद्यते तथैवायमपि शब्दात्मा पुनः पुनरभिव्यक्तस्फोटरूपोऽवधार्यते, न च प्रत्यभिव्यक्तिस्तत्रेदशी बुद्धिरुपजायते इदं गृहीतमिदं नेति / अथवाऽनेकाभिव्यक्तौ स्फोटावभासः स्पष्ट: संवेद्यते ।"-स्या० 20 पृ० 650 / “अनुवाको वैदिकः श्लोकस्तु लौकिकः, सोढत्वं जितत्वं वशतामिति यावत्"-स्फोटसि० टी० पृ० 132 / (3) 'प्रत्यावृत्त्या'-वाक्यप०, 'प्रत्यावृत्ति नि'वाक्यप० ब्र, स्फोटसि० / प्रकृतपाठ:-स्या०र० / न्यायवि०वि०५० 576 B. 'प्रत्यावृत्तिनिरुच्यते'-प्रमाणवा० स्ववृ० टी० पृ० 359 / (4) "यथा श्लोक एकदा प्रकाशितोऽनवधारितोऽन्यदा प्रकाशने त्ववधारणसहो भवति पुनः पुनः प्रकाशने त्ववधार्यते / तथा वाक्यं पूर्वध्वनिभावानभिव्यक्तमपि नावधारितम्, तेन पूर्वपूर्ववाक्याभिव्यक्त्याहितैस्तु संस्कारक्यावधारणं प्रति प्रत्ययभूतैरन्त्यवर्णश्रवणकाले तदवधार्यते, तस्माद्वर्णेनानुक्रमवताऽक्रमस्य वाक्यव्यक्तियुज्यत एव ।"-प्रमाणवा० स्वत टो० पृ० 359 / “व्यक्तरूपग्रहणानुगुणा अनुपाख्येयाकाराः (इदं तदिति तस्य बुद्धयारूढस्याख्यातुमशक्यत्वात् ) बहवः उपायभूताः प्रत्ययाः ध्वनिभिः प्रकाश्यमाने शब्दे समुत्पद्यमानाः शब्दस्वरूपावग्रहहेतवो भवन्ति ।"-वाक्यप० वृ०। (5) 'ग्रहणानुग्रहैः'-ध्वन्या० टी० 1316 / प्रकृतपाठः-स्फोटसि०, प्रमाणवा०स्व०टी०. स्या०र०, न्यायवि०वि०। (6) "नादैः शब्दात्मानमवद्योतयभिः यथोत्तरोत्कर्षेणाधीयन्ते व्यक्तपरिच्छेदानुगुणसंस्कारभावनाबीजानि, ततश्चान्त्यो ध्वनिविशेषः परिच्छेदसंस्कारभावनाबीजवृत्तिलाभप्राप्तयोग्यतापरिपाकायां बुद्धौ उपग्रहेण शब्दस्वरूपाकारं सन्निवेशयति ।"-वाक्यप०००। वाक्यप० पु० टी०। 'नादैराहित'-वाक्यप०, स्फोटसि०, प्रमाणवा० स्ववृ० टी०, स्या०र०, न्यायवि० वि०, सर्वद० / प्रकृतपाठः-तत्वसं० पृ०७२२, पं० पृ० 636 / प्रमेयक० पृ० 456 / (7) "आवृत्तः 1-वादकन-आ० / 2 शक्योच्यते श्र०। 3 अन्येन ब०, श्र० / 4 स्फोटत्व-आ०, ब०, श्र० / 5 ननु आ०, ब०। 6 इति नाहित-श्र० /