________________ 748 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० गन्तव्यः, प्रत्यक्षतः तस्यैव अवभासमानत्वात् / विभिन्नतनुषु हि वर्णेषु अभिन्नाकारं श्रोत्रान्वयव्यतिरेकानुविधाय्यध्यक्षं स्फोटसद्भावमेव अवभासयति / नहि तद् वर्णविषयम् ; वर्णानामन्योन्यव्यावृत्तरूपतया अभिन्नाकारावभासिप्रत्यक्षोत्पादनसामर्थ्यासंभ वात् / नापि सामान्यविषयम् ; गकारौकारविसर्जनीयेषु वर्णत्वव्यतिरेकेण अपरसामा5 न्यस्याऽसंभवात् / वर्णत्वस्य च प्रतिनियतककुदादिमदर्थप्रतिपादकत्वानुपपत्तेः / न चेदं भ्रान्तम् ; अबाध्यमानत्वात् / न चाबाध्यमानप्रत्ययगोचरस्यापि स्फोटस्य असत्त्वं युक्तम् ; अवयविद्रव्यादेरपि असत्त्वप्रसङ्गात् / नित्यश्चासौ अभ्युपगन्तव्यः / अनित्यत्वे सङ्केतकालानुभूतस्य तदैव ध्वस्तत्वात् कालान्तरे देशान्तरे च गोशब्दश्रवणात् ककुदादिमदर्थप्रतीतिर्न स्यात् / असङ्के10 तिताच्छब्दात् अर्थप्रतीतरेसंभवात् / संभवे वा द्वीपान्तरादागतस्य गोशब्दाद् गवार्थ प्रतिपत्तिप्रसङ्गात् सङ्केतकरणवैयेयं स्यात् / ननु 'देवदत्त गामभ्याज' इत्यादि वाक्यस्फोट अन्तरालेष्वपि शब्दप्रतिपत्तयः संवेद्यन्ते अतस्तत्रापि तावद्दा (द्धा) स्फोटः कल्पनीयः तथा च स्वमतव्याघातः, तस्याऽखण्डस्यैकस्य तत्र प्रसिद्धेः; इत्यप्यचोद्यम् ; अन्तरालप्रत्ययानां स्फोटाभिव्यक्तिहेतुतया विभिन्नस्फोटायोग्यत्वात् / यथैव हि पुनः पुन (1) “तत्र प्रत्यक्षं तावत्प्रसिद्धमेव, गौरित्युच्चारणे सत्येकमेवेदं पदमित्येकाकारविज्ञानोदयात् / न चेदं वर्णमात्रविषयं भवितुमर्हति ; तेषां भिन्नानामभ्रान्तकाकारज्ञानविषयत्वायोगात् / न चेदं भ्रान्तम् ; भ्रान्तिनिमित्ताभावात् ।"-स्फोटसि० भा० पृ०१। "प्रत्यक्षज्ञाननियता व्यक्ताव्यक्तावभासिता / मानान्तरेषु ग्रहणमथवा नैव हि ग्रहः // इन्द्रियं हि व्यक्तावभासिनोऽव्यक्तावभासिनश्च प्रत्ययस्य हेतुः यथा दूराद् ग्रहणे सूक्ष्मार्थनिरूपणायाञ्च / लिङ्गशब्दादयस्तु निश्चितात्मानं प्रत्ययमुपजनयन्त्येकरूपं नैव वा तत्र व्यक्ताव्यक्तग्रहणबुद्धिभेदः / अर्थश्च शाब्दप्रत्ययावसेयः, स्फोटात्मा तु प्रत्यक्षवेदनीय इति निरवद्यम् ।"-स्फोटसि० पृ० 169 / (2) "न च समुच्चयज्ञानोपारोहिवर्णनिबन्धनार्थबोधाभिप्रायं 'शब्दादर्थं प्रतिपद्यामहे' इति,नापि शब्दजात्यभिप्रायम् / तथाहि-नेक्षिता जातिशब्दानां समुदायानुपातिता। जातिमाचक्षते ते हि व्यक्तिर्वा जातिसङ्गता // न तावदिदं शब्दजात्यभिप्रायम् / न शब्दजातितोऽर्थप्रतीतिः; गवाश्वादिपदेषु तदविशेषादभिधेयाविशेषप्रसङ्गात् / "नापि शब्दव्यक्त्यभिप्रायम्; तद्भेदात् गोशब्दादित्येकवचनानुपपत्तेः ।"-स्फोटसि० पृ०७३ / (3) "अनादिनिधनं शब्दब्रह्मतत्त्वं यदक्षरम् ।"-वाक्यप० 121 / (4) "यतः प्रत्येकमपि तेऽविकलं स्फोटात्मानमभिव्यञ्ज. यन्ति / न चेतरनादवैयर्थ्यम्; अभिव्यक्तिभेदात् / तथाहि-पूर्वे ध्वनयः अनुपजातभावनाविशेषमनसः प्रतिपत्तुः अव्यक्तरूपोपग्राहिणीः उत्तरव्यक्तपरिच्छेदोत्पादानुगुणभावनाबीजवापिनीः प्रख्याः प्रादुर्भावयन्ति, पश्चिमस्तु पुरस्तनध्वनिनिबन्धनाव्यक्तपरिच्छेदप्रभावितसकलभावनाबीजसहकारि स्फुटतरविनिविष्टस्फोटबिम्बमिव प्रत्ययमतिव्यक्ततरमुद्भावयन्ति / यथा रत्नपरीक्षिणः परीक्षमाणस्य प्रथमसमयाधिगमानुपाख्यातमनुपाख्येयरूपप्रत्ययोपाहितसंस्काररूपाहितविशेषायां बुद्धौ क्रमेण चरमे चेतसि चकास्ति रत्नतत्त्वम्।"-स्फोटसि० पृ० 129 / स्फोट० न्या० पृ० 20 / स्फोटसि० भा० पृ० 21 / “अभिव्यजकोऽपि प्रथमो ध्वनिः स्फोटमस्फुटमभिव्यनक्ति, उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुटं स्फुटतरं स्फुटतमम् / यथा स्वाध्यायः सकृत् पठ्यमानो नावधार्यते, अभ्यासेन तु स्फुटावसायः, यथा वा रत्नतत्त्वं प्रथमप्रतीतौ स्फुटं न चकास्ति चरमे चेतसि यथावदभिव्यज्यते ।"-सर्वद० पु० 303 / . 1-यर्थ्यञ्च स्यात् श्र०। 2 तावद्वास्फो-श्र०, तावस्फो-आ० /