________________ 747 प्रवचनप्र० का० 65 ] . स्फोटवादः संवेदनान्यपि तत्प्रभवसंस्काराश्च; तेषामपि तत्कालेऽसत्त्वाऽविशेषात् / किश्च, संवेदनप्रभवसंस्काराः स्वोत्पादकसंवेदनविषये स्मृतिहेतवः न तु अर्थान्तरे ज्ञानमुत्पादयितुं समर्थाः। न खलु घटज्ञानप्रभवः संस्कारः पटे स्मृति विदधत् दृष्टः / न च तत्संस्कारप्रभवस्मृतीनां तत्सहायता युक्ता; तासां युगपदुत्पत्त्यभावात् , अयुगपदुत्पन्नानाञ्च अवस्थित्यसंभवात् / न च अखिलसंस्कारप्रभवैका स्मृतिः संभवति; 5 अन्योन्यविरुद्धानेकार्थानुभवप्रभवसंस्काराणामपि एकस्मृतिजनकत्वप्रसङ्गात् / न च अन्यवर्णानपेक्ष एव 'गौः' इत्यत्र अन्त्यो वर्णः अर्थप्रतिपादकः; पूर्ववर्णोच्चारणवैय ानुषङ्गात् , * घंटशब्दान्त्यव्यवस्थितस्याप्यस्य ककुदादिमर्थप्रतिपादकत्वप्रसङ्गाच्च / तन्न वर्णाः समस्ता व्यस्ता वा अर्थप्रतिपादकाः संभवन्ति / अस्ति च गवादिशब्देभ्योऽर्थप्रतीतिः, अतस्तदन्यथानुपपत्त्या वर्णव्यतिरिक्तः अर्थप्रतीतिहेतुः स्फोटोऽभ्युप- 10 (1) पूर्ववर्णजनितसंवेदनप्रभवसंस्काराः। "अर्थधीकृन्न संस्कारो न तच्छक्तिर्न तज्जधीः / न तस्यापूर्वकल्पस्य कल्पकं जनकं फलम् ॥"-स्फोटसि० भा० पृ० 18 / (2) पूर्ववर्णजनितज्ञानानां तत्प्रभवसंस्काराणाञ्च / (3) अन्त्यवर्णकाले / (4) "संस्काराः खलु यद्वस्तुरूपप्रख्याप्रभाविताः / विज्ञानहेतवस्तत्र ततोऽर्थे धीन कल्प्यते // संस्कारा खलु यद्वस्तूपलम्भसंभावितात्मानः तत्रैव नियतनिमित्तलब्धप्रतिबोधा धियमाविर्भावयन्ति नार्थान्तरे / न हि जातु गवावग्रहप्रत्ययप्रभावितः संस्कारोऽश्वस्मरणमुपकल्पयति ।"-स्फोटसि० पृ० 44 / "स्मृतिफलप्रसवानुमितस्तु संस्कारः स्वकारणानुभवविषयनियतो न विषयान्तरे प्रत्ययमाधातमत्सहते, अन्यथा यत्किञ्चिदेवैकमनुभूय सर्वः सर्व जानीयादिति ।"-योगसू० तत्त्ववै०३।१७ / “पूर्ववर्णग्रहणजसंस्कारसंहितादन्त्यवर्णात्तदर्थधीरिति चेत्; तदपि न; वस्त्वन्तरग्रहणजस्य संस्कारस्य वस्त्वन्तरज्ञानजनकत्वादर्शनात् ।"-स्फोटसि० भा० 1016 / (5) 'नचैकस्मृत्युपारोहात् समुदायस्य संभवः / वर्णेषु क्रमबुद्धेषु युगपत्स्मृत्यसंभवात् / संभवेऽपि च तेष्वेव विपरीतक्रमेष्वपि गकारादिषु विज्ञानं गौरित्येकं प्रसज्यते ।"-स्फोट० न्या०.०१ / “अन्यैस्तु सकलवर्णोपलब्धिनिबन्धननिखिलभावनाबीजजन्मा युगपदखिलवर्णरूपपरामर्शी चरमवर्णप्रत्यक्षोपलब्धिसमनन्तरः स्मरणकरूपः सङ्गीर्यते; क्रमसमधिगतात्मसु न युगपदनुस्मरणमित्यपि मिथ्या।"-स्फोटसि० पृ० 61 / (6) "न च प्रत्येकवर्णानुभवजनितसंस्कारपिण्डलब्धजन्मस्मृतिदर्पणसमारोहिणो वर्णाः समधिगतसहभावा वाचका इति साम्प्रतम् ; क्रमाक्रमविपरीतक्रमानुभूतानां तत्राविशेषेणार्थधीजननप्रसङ्गात् ।”योगसू० तत्त्ववै० पू० 322 / “पूर्वोपलब्धिभेदेऽपि भवेदर्थस्य दर्शनम् / एकोपलब्धौ नैतेषां भेदः कश्चन लक्ष्यते // पूर्वोपलब्धयो हि क्रमविशेषवत्यः परिगृहीताभिमतविपरीतानुपूर्गा अक्रमाश्चैकवक्तृप्रयुक्तवर्णविषया विपरीताश्च न पश्चाद् भाविन्यां समस्तवर्णावभासिन्यामुपलब्धावनुविपरिवर्तमानान् वर्णात्मनो भिन्दन्ति ।"-स्फोटसि०ए०६५। "एवं तर्हि सर्वसंस्कारजा सकलवर्णग्राहिण्यका स्मतिरर्थधीहेतु:; तदपि न; क्रमप्रत्यस्तमयेन जराराजेत्यादावर्थाविशेषप्रसङ्गात् ।"-स्फोटसि० भा०प०१८॥ "तुल्यत्वाद् यौगपद्यस्य तदा नार्थधियो भिदा। सरोरसनदीदीनजराराजादिषु स्फुरेत् ॥"-स्फोट. न्या० पृ० 10 / (7) "न चान्त्यवर्णमात्रस्य पुरःसम्बन्धवेदनम् / अक्षवातिवृत्तत्वात् संस्कारस्य न तद्वतः // विदितसङ्गतयो हि शब्दा यथास्वमर्थान् प्रकाशयन्ति / नचान्त्यवर्णमात्रमर्थसम्बन्धितया प्रतिपद्यन्ते पुरस्तात् ।"-स्फोटसि० पृ० 105 / (8) "गौरश्व इति वा केवलोच्चारणे वा को विसर्जनीयस्य भेदः यत्कृतोऽर्थभेदः प्रत्ययभावाभावौ च ।"-स्फोटसि०ए०३३ / (9) विसर्जनीयस्य / 1 तेषां तत्का-आ०। 2 घटप्रभवः श्र०। 3-नानां वा स्थित्य-श्र०। 4-नुभवसंस्का-ब।