________________ 746 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० युगपदुत्पन्नानां तेषां समुदायकल्पना युक्ता; एकपुरुषापेक्षया युगपत्तदुत्पत्तेरेवाऽसंभवात् , प्रतिनियतस्थानकरणप्रयत्नप्रभवत्वात्तेषाम्। न च विभिन्नपुरुषप्रयुक्तगकारौकारविसर्जनीयानां समुदायेऽपि अर्थप्रतिपादकत्वं प्रतीयते; प्रतिनियतवर्णक्रमप्रतिपत्त्युत्तरकालभावित्वेन शाब्दप्रतिपत्तेः प्रतिभासनात् / न च अन्त्यो वर्णः पूर्ववर्णानुगृहीतो वर्णानां क्रमोत्पादे सति अर्थप्रतिपादकः; पूर्ववर्णानाम् अन्त्यवर्णं प्रति अनुग्राहकत्वानुपपत्तेः / तद्धि अन्त्यवर्णं प्रति जनकत्वं तेषां स्यात् , अर्थज्ञानोत्पत्तौ सहकारित्वं वा ? न तावज्जनकत्वम् ; वर्णाद् वर्णोत्पत्तेरभावात् प्रतिनियतस्थानकरणादिसाध्यत्वात्तस्याः, वर्माभावेऽपि आद्यवर्णोत्पत्तिप्रतीतेश्च / नापि अर्थज्ञानोत्पत्तौ सहकारित्वं तेषामन्त्यवर्णानुग्राहकत्वम् ; असतां सहकारित्वस्यैवासंभ10 वात् / यथा च अन्त्यवर्णं प्रति पूर्ववर्णाः सहकारित्वं न प्रतिपद्यन्ते तथा तज्जनित स्फुटीभवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थमुभयथा निराहुः ।"-सर्वद० पृ० 300 / "वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः / यद्यपि वर्णस्फोट: पदस्फोट: वाक्यस्फोटः अखण्डपदवाक्यस्फोटौ वर्णपदवाक्यभेदेन त्रयो जातिस्फोटाः इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकञ्च, तथापि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तत्वबोधनाय तदुपादनमत एवाहअतिनिष्कर्ष इति ।"-वैयाकरणभू० पृ० 294 / परमलघु० 102 / "तादृशमध्यमानादव्यङग्यः शब्द: स्फोटात्मको ब्रह्मरूपः नित्यश्च ।"-परमलघु० 1028 / (10) "प्रत्येकमप्रत्यायकत्वात् साहित्याभावात् नियतक्रमवर्तिनामयोगपद्येन सम्भूयकारित्वानुपपत्तेः, नानावक्तृप्रयुक्तेभ्यश्च प्रत्यया. दर्शनात् क्रमविपर्यये यौगपद्ये च / तस्माद् वर्णव्यतिरेकी वर्णेभ्योऽसम्भवन्नर्थप्रत्ययः स्वनिमित्तमुपकल्पयति ।"-स्फोटसि० पृ० 28 / "ते खल्वमी वर्णाः प्रत्येकं वाच्यविषयां धियमादधीरन् नागदन्तका इव शिक्यावलम्बनम्, संहता वा ग्रावाण इव पिठरधारणम् ? न तावत्प्रथमः कल्पः; एकस्मादर्थप्रतीतेरनुत्पत्तेः उत्पत्तौ वा द्वितीयादीनामनुच्चारणप्रसङ्गः / वर्णानां तु योगपद्याभावोऽतः परस्परमनुग्राह्यानुग्राहकत्वायोगात् संभूयापि नार्थधियमादधते।"-योगभा० तत्त्ववै० 1117 / “वर्णानां प्रत्येक वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गात् / आनर्थक्ये तु प्रत्येकमुत्पत्तिपक्षे यौगपद्येनोत्पत्त्यभावात् / अभिव्यक्तिपक्षे तु क्रमेणौवाभिव्यक्त्या समुदायाभावात् एकस्मृत्युपारूढानां वाचकत्वे सरो रस इत्यादौ अर्थप्रतिपत्त्यविशेषप्रसङ्गात् तद्वयतिरिक्तः स्फोटो नादाभिव्यङग्यो वाचकः ।"-महाभा० प्र० पृ० 16 / "तत्र तावद् गकारादेरेकैकस्मान्न वाच्यधीः। उदेति यदि चेदस्ति प्रथमेनैव गादिना // वर्णेनोच्चरितेनेह गवाद्यर्थाभिधानतः / उच्चारणं द्वितीयादिवर्णानां स्यान्निरर्थकम् // तदुच्चारणसामर्थ्य नैकैकस्मात्ततोऽर्थधीः। समुदायोऽपि वर्णेषु क्रमज्ञातेष्वसम्भवी। नानावक्तृप्रयुक्तेभ्यो नच सा दश्यतेऽर्थधीः / यौगपद्येऽपि वर्णेभ्यो नापि क्रमविपर्यये।"-स्फोट० न्या० पृ० 2 / सर्वद०प० 299 / (1) वर्णानाम् / (2) अनुग्राहकत्वम्। (3) पूर्ववर्णानाम् / (4) वर्णोत्पत्तेः / (5) पूर्ववर्णा नाम / (6) 'क्व पूनरियं सहायता, यदा न विसर्जनीयसमये वर्णान्तरोपलब्धिरस्ति ? कार्ये खलु व्यापारतः सहायता; न चासतस्तदानीं व्यापृतिरस्ति / स्वकालेऽपि च व्यापारस्तदानीमेव प्रध्वंसान्नेदानीन्तनकार्योपजनननिमित्तम् ।"-स्फोटसि०प० 33 / "असतां पूर्ववर्णानां तदानीं व्यापृतिः कथम् / असतामपि साहाय्यं वर्णानां यदि विद्यते॥ केवलान्त्यप्रयोगेऽपि भवेदेवाभिधेयधीः।"-स्फोट० न्या० पृ० 4 / (7) पूर्ववर्णजनितज्ञानानि / 1 शब्दप्रति-ब०।