________________ प्रवचनप्र० का०६५ ] स्फोटवादः 745 रणवैयर्थ्यप्रसक्तेः / अथ सकलवर्णसंकारवत्या अन्त्यवर्णबुद्ध्या वाक्यावधारणमिष्यते; नन्वसौ बुद्धिः किं स्मरणम् , उत अध्यक्षम् ? न तावत् स्मरणम् ; अंगृहीताऽन्त्यवर्णग्राहकत्वात् / नापि प्रत्यक्षम् ; अविद्यमानपूर्ववर्णविषयत्वात् / अथ पूर्ववर्णस्मरणअन्त्यवर्णग्रहणाभ्यामेकं विकल्पज्ञानं जन्यते, तेनीवधारणम् ; नन्वेतत् प्रमाणम्, न वा? प्रमाणश्चेत् ; किं प्रत्यक्षाद्यन्यतमत्, प्रमाणान्तरं वा ? न तावत् तदन्तरम् ; प्रमाणसंख्या- 5 व्याघातप्रसङ्गात् / नापि प्रत्यक्षाद्यन्यतैमत्; तत्रे तदन्यतमरूपतायाः प्रत्यभिज्ञानविचारावसरे प्रतिव्यूढत्वात् / अथ कल्पनाज्ञानमेवेदं न प्रमाणम् ; कथमतस्तत्त्वसिद्धिः अतिप्रसङ्गात् ? वाक्यस्य वा काल्पनिकत्वानुषङ्गाद् वास्तवत्वानुपपत्तिः। ततो यथोक्तलक्षणमेव पदं वाक्यं वा अभ्युपगन्तव्यम् तस्यैव प्रसाधितप्रामाण्ये प्रत्यभिज्ञाने प्रतिभासनादिति / 10 ननु वर्णपदवाक्यानामर्थप्रतिपादकत्वाभावात् तल्लक्षणप्रणयनमनुपपन्नम् ; स्फोट स्फोट एवार्थप्रतिपाद- एव हि अर्थप्रतिपादको न वर्णाः। "ते हि समस्ताः, व्यस्ता वा को न तु वर्णाः इति तत्प्रतिपादकाः स्युः ? यदि व्यस्ताः; तदा एकेनापि वर्णेन गवाद्यर्थवैयाकरणादीनां पूर्व- प्रतिपत्तेः उत्पादितत्वात् द्वितीयादिवर्णोच्चारणानर्थक्यम् / अथ पक्षः समस्ताः; तन्न; क्रमोत्पन्नप्रध्वंसिनां तेषां सामस्त्यासंभवात् / न च 15 . (1) पूर्ववर्णबुद्धयगृहीतस्य अन्त्यवर्णस्य ग्राहकत्वान्नास्य स्मृतिरूपता, पूर्वानुभवानुसारित्वास्मृतेः। (2) प्रत्यक्षस्य च विद्यमानार्थग्राहकत्वात् / (3) प्रत्यक्ष / (4) विकल्पज्ञानेन। (5) प्रत्यक्षस्मरणजनितविकल्पज्ञाने प्रत्यभिज्ञानरूपे / (6) प्रत्यक्षाद्यन्यतरूपतायाः। (7) 10 416 / (8) पूर्ववर्णस्मरण अन्त्यवर्णप्रत्यक्षजनिते। (9) “पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति, वर्णा एकसमयासंभवित्वात्परस्परनिरनुग्रहात्मानः ते पदमसंस्पृश्यानवस्थाप्य आविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते / वर्ण: पुनरकैक: पदात्मा सर्वाभिधानशक्तिप्रचित: सहकारिवर्णान्तरप्रतियोगित्वाद् वैश्वरूप्यमिवापन्नः पूर्वश्चोत्तरेण उत्तरश्च पूर्वेण विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृत्ता गकारीगारविसर्जनीयाः सास्नादिमन्तमथं द्योतयन्तीति, तदेतेषामर्थसङ्कतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासः तत्पदं वाचकं वाच्यस्य संकेत्यते / तदेकं पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागमक्रममवर्ण बौद्धमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्ण रेवाभिधीयमानः श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्धचा सिद्धवत्संप्रतिपत्त्या प्रतीयते ।"-योगभा०३।१७ / तत्त्वव०, भास्वती, योगवा० 3 / 17 / 'नानेकावयवं वाक्यं पदं वा स्फोटवादिनाम् / निरस्तभेदं पदतत्वमेतत् ।"-स्फोटसि० का० 29, 36 / “एकाकारधिया तावद्वर्णेभ्योऽभ्यधिकं पदम् ।"-स्फोट० भा० पृ० 1 / गौरित्यादिषु विज्ञानमेकं पदमिति स्फुटम् ।"-स्फोट० न्या० पृ०१ / “तत्त्वतस्तु वाक्यमेवाखण्डमयूराण्डकललवदविभागं भिन्नार्थप्रतीतिहेतुभूतं स्फोटाख्यमभ्युपगन्तव्यम् ।"-स्फोटप्र० / "इत्यनवयवः प्रत्यस्तमितवर्णपदविभागो वाक्यस्फोट एव श्रेयान् ।"-स्फोटतत्त्वम्। "तस्मादेकवर्णात्मकोऽखण्डवाक्यस्फोटो वाचक इति सिद्धम् ।"-स्फोटच० / "वर्णातिरिक्तो वर्णाभिव्यङग्योऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति / अत एव स्फुटयते व्यज्यते वर्णरिति स्फोटो वर्णाभिव्यङ ग्यः, स्फटति 1 अन्त्यबुद्धचा आ० / 2-तमं प्र-ब०।-तमं तत्र ब० / 4-वेदमप्र-श्र०। 5-वाल्लक्ष-ब०।