________________ 744 ___ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० मानरूपार्थगोचरा चोदना प्राप्ता। न च तत्रास्याः प्रामाण्यमिष्टम् ; अनिष्टसिद्धिप्रसङ्गात् / विद्यमानस्य कर्त्तव्यता च स्ववचनविरुद्धा। अभावरूपतायामपि एतदेव दूषणम् , अस्यापि स्वरूपेणाविद्यमानत्वात् / तद्रूपस्य खरविषाणवत् कर्त्तव्यताविरोधात् / अभावे चोदनायाः प्रामाण्यानभ्युपगमाच्च / उभयरूपतापि अनेनैव प्रत्युक्ता / अनुभ__ यरूपतायां तु चोदनायां निर्विषयत्वादप्रामाण्यमेव स्यात् / न च अनुभयरूपता एकस्यै कदोपपन्ना; विधिप्रतिषेधधर्मयोरेकतरप्रतिषेधे अन्यतरविधेरवश्यंभावित्वात् / अथ पूर्वमुत्पादयन्ति तदनु ज्ञापयन्ति ; तर्हि विद्यमानविषयत्वात् तत्रास्याः प्रामाण्यानुपपत्तिः / एतेन नित्यवाक्यार्थपक्षः प्रत्युक्तः; विद्यमानार्थविषयतया अप्रामाण्यानुषङ्गाविशेषात् / किञ्च, प्रसिद्ध पदे वाक्ये वा पदार्थैवाक्यार्थाभिव्यक्तिर्वक्तुं युक्ता, नच तत् 10 प्रसिद्धम् / तद्धि वर्णेम्यो भिन्नम् , अभिन्नं वा स्यात् ? यद्यभिन्नम् ; तदा वर्णा एव, पदवाक्यद्वयमेव वा / भेदेऽपि तद् दृश्यम् , अदृश्यं वा ? अदृश्यत्वे ततोऽर्थप्रतीतिर्न स्यात् / अज्ञाताज्ञा ( ताज्ज्ञा ) पकादर्थप्रतीतावतिप्रसङ्गात्, प्रतीत्यनुपरमानुषङ्गाच्च / नापि दृश्यम् ; वर्णव्यतिरिक्तस्य तस्यानुपलम्भात् / नहि देवदत्तादिवर्णेषु तद्व्यतिरिक्त निरंशमेकं पंदं वाक्यं वोपलभामहे / किञ्च, तत् पदं वाक्यं वा स्वातन्त्र्येण प्रतीयते,वर्णद्वारेण वा ? न तावत् स्वातन्त्र्येण; वर्णाऽश्राविणोऽपि पदवाक्यप्रतीतिप्रसङ्गात् / वर्णद्वारेणापि सावयवस्यास्र्यं प्रतीतिः स्यात् , निरवयवस्य वा ? सावयवत्वे प्रागुक्तमेव पदवाक्यलक्षणमङ्गीकृतं स्यात् , अन्योन्यापेक्षाणां वर्ण-पदान्तरानपेक्षणां कालप्रत्यासत्तिलक्षणस्य समूहस्यैव सावयवपद वाक्यरूपतोपपत्तेः / अथ निरवयवम् ; तत्किं समस्तेम्यो वर्णपदेभ्यः प्रतीयते, व्यस्ते20 भ्यो वा ? न तावत्समस्तेभ्यः, उच्चरितप्रध्वंसिनां "तेषां सामस्त्यासंभवात् / नापि व्यस्तेभ्यः; प्रथमवर्णपदश्रवणकालेपि सकलपदवाक्यप्रतीतिप्रसङ्गतः शेषवर्णपदोच्चा (1) विद्यमानार्थे / (2) चोदनायाः। (3) विद्यमानोपलम्भनत्वेन सत्सम्प्रयोगजत्वापत्त्या प्रत्यक्षत्वमेव स्यात् / (4) “अभावस्य तुच्छतया कर्तुमशक्तेः अतुच्छत्वेऽपि स्वेन रूपेण विद्यमानत्वात् कर्तव्यताऽसंभवात् / नचाभावविषयं चोदनाया: परैः प्रामाण्यमभ्युपगम्यते, अभावप्रमाणविषयत्वाच्च अभावस्य, तद्विषयत्वे चोदनाया अनुवादकत्वात् अप्रामाण्यप्रसङ्गश्च ।"-सन्मति० टी० पृ०७४२। (5) अभावस्यापि / (6) अविद्यमानस्य / (7) विद्यमानार्थविषयत्वेन चोदनाया: प्रत्यक्षाद्यवगतार्थगोचरत्वात् अप्रामाण्यप्रसक्तेः।"-सन्मति० टी० पृ०७४२ / (8) "अथ नित्यो वाक्यार्थः पदार्थः प्रतिपाद्यते; नन्वेवं विद्यमानार्थगोचरत्वं चोदनायाः स्यात्, तथा च त्रिकालशून्यकार्यरूपार्थविषयविज्ञानोत्पादिका चोदनेत्यभ्युपगमव्याघातः ।"-सन्मति० टी० पृ०७४२ / (9) प्रत्यक्षाद्यन्तर्गतत्वात् अपूर्वार्थबोधकत्वाभावतः प्रामाण्यानुपपत्तिरिति भावः / (10) पदम् / (11) अज्ञातपदस्य सुप्तमूच्छितादेश्चार्थप्रतीतिः स्यात् / (12) अज्ञातज्ञापकादर्थप्रतीतौ हि सत्यामपि एकपदार्थप्रतीतो अन्यस्मादज्ञातपदात् पुनरर्थप्रतीतिप्रसङ्ग इति प्रतीत्यनुपरमः / (13) पदस्य। (14) पदस्य वाक्यस्य वा / (15) वर्णानाम् / 1 अतान्यातान ज्ञापका-आ०, अज्ञावापका-श्र०12-दर्थे प्र-ब०।-तावप्यतिप्रं-ब०, श्र०। 4 पवाक्यं श्र०।। चोपलंभा-ब०. वोपलंभा-श्र०। 6-तीयेत ब०। /