________________ प्रवचनप्र० का०६५] वाक्यलक्षणविचारः 743 __ "पदार्थानां तु मूलत्वमिष्टं तैद्भावभावतः।" [मी० श्लो० वाक्या० श्लो० 111] “पदार्थपूर्वकस्तस्माद् वाक्यार्थोऽयमवस्थितः / " [ मी० श्लो० वाक्या० श्लो० 336 ] इत्यभिधानात्; तैरपि विवक्षितपदानामन्योन्यापेक्षाणां प्रदान्तरानाकाङ्क्षाणां वाक्यार्थप्रतिपत्तिहेतुत्वमुच्यते, तद्विपरीतानां वा ? तत्र उत्तरपक्षे अतिप्रसङ्गः। प्रथमपक्षे तु अन्धसर्पबिलप्रवेशन्यायेन अस्मदुक्तवाक्यलक्षणानुसरणमेव / / ___ किश्च, वाक्यार्थः पदार्थादन्यः, अनन्यो वा ? यदि अनन्यः; तदा पदार्थ एवासौ म वाक्यार्थः। तत्रैव 'वाक्यार्थः' इति नामकरणे बँकम्बलस्य 'कूलिका' इति नामकृतं स्यात् / अान्योऽसौ क्रियाकारकसंसर्गरूपः; ननु तथाभूतोऽसौ किं नित्यः, अनित्यो वा ? यद्यनित्यः; किं विवक्षितपदार्थैर्जन्यते, पदार्थान्तरैर्वा ? पदार्थान्तरोत्पाद्यत्वे स्वसिद्धान्तविरोधः। विवक्षितपदार्थोत्पाद्यत्वे त एव उत्पादकाः त एव ज्ञापकाः स्युः, 10 तत्र च किं पूर्व ज्ञापयन्ति पश्चादुत्पादयन्ति, किं वा पूर्वमुत्पादयन्ति तदनु ज्ञापयन्ति ? प्रथमकल्पनायाम् असति वाक्यार्थे मेये के ते ज्ञानमुत्पादयेयुः ? उत्पादयतां वा, तेषां न तज्ज्ञानं प्रमाणम् अविद्यमानविषयत्वात् केशोण्डुकादिज्ञानवत् / अथ असन्तमपि तं कर्त्तव्यतया ते प्रतिपादयन्ति तेनायमदोषः; ननु 'किंस्वरूपेयं तत्कर्त्तव्यता नार्म-भावरूपा, अभावरूपा, उभयरूपा, अनुभयरूपा व ? यदि भावरूपा; तदा विद्य- 15 (1) "सिद्धान्तमाह-अत्राभिधीयते यद्यप्यस्ति मूलान्तरं न नः / पदार्थानां तु मूलत्वं दृष्टं तद्भावभावतः। सत्यं न वाचकं वाक्यं वाक्यार्थस्योपपद्यते // यद्यपि प्रत्येकं पदं संहतानि वा साक्षान्न मलं तथा जातिः सम्बन्धज्ञानं सावयवनिरवयवाक्यानि तथापि पदार्थाः पदैः प्रत्याथिताः प्रत्यासत्त्यपेक्षया योग्यत्वसनाथा मूलं भविष्यन्ति, तद्भावे वाक्यार्थप्रत्ययस्य भावादिति ।"-मी० श्लो० न्यायर० वाक्या० श्लो. 110-11 / उद्धृतोऽयम्-सन्मति० टी० पृ०७४३ / 'तद्भावनावतः'-प्रमेयक० पृ० 461 / (2) अन्योन्यानपेक्षत्वे पदत्वमेव स्यान्न वाक्यत्वम्, पदान्तराकाङ क्षत्वे वाक्याऽपरिसमाप्तिः। (3) 'तेप्यन्धसर्पबिलप्रवेश'-प्रमेयक पृ० 461 / (4) तुलना-"यद्यसौ पदार्थादभिन्नः तदा पदार्थ एव स्यान्न वाक्यार्थः तथा च कुतः पदार्थगम्यता? अथ क्रियाकारकसंसर्गरूप: पदार्थादर्थान्तरं वाक्यार्थः, नन्वसावपि यद्यनित्यः तदा कारकसंपाद्यः, पदार्थसंपाद्यो वा ?"-सन्मति० टी० पृ० 742 / (5) "स्वकम्बलस्य कर्दालिकेति नामान्तरकरणमात्रं स्यात् ।"-अष्टसह०प०९। (6) "पदार्थोत्पाद्यत्वेऽपि य एव पदार्थास्तस्योत्पादकास्त एव यदि ज्ञापकाः, तदा पूर्व कि ज्ञापकाः उत उत्पादका इति वक्तव्यम्।"-सन्मति० टी० पृ०७४२ / (7) विवक्षितपदार्थाः / (8) क्रियाकारकसंसर्गम् / “भावनव हि वाक्यार्थः सर्वत्राख्यातवतया। अनेकगुणजात्यादिकारकार्थानुरञ्जिता। पदार्थाहितसंस्कारचित्रपिण्डप्रसूतया। पदार्थपदबुद्धीनां संसर्गस्तदपेक्षया ॥"-मी० श्लो० वाक्य० श्लो० 330-33 / (9) "कर्तव्यतया ते तं ज्ञापयन्तीति चेन्न; तस्यामपि भावाभावोभयानुभयविकल्पानतिक्रमात् ।"-सन्मतिः टी० पृ०७४२। (10) "आद्यविकल्पे तत्कर्तव्यताया भावस्वभावतया विद्यमानवाक्यार्थविषया चोदना स्यात. तथा च विद्यनोपलम्भनत्व-सत्सम्प्रयोगजत्वोपपत्तेः अध्यक्षवन्न भावना अर्थविषया स्यात।"सन्मति० टी० पृ० 742 / 1 तद्भावतः श्र०12 कृते श्र० / 3-किंरूपेयं ब०, श्र०। 4 तदा विद्यमानार्थ-श्र०, तथा विद्यमानार्थ-ब०।