________________ 742 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [.. प्रवचनपरि० सिद्धसाध्यता; पूर्वपूर्ववर्णज्ञानाहितसंस्कारस्यात्मनो वाक्यार्थग्रहणपरिणतस्य अन्त्यवर्णश्रवणानन्तरं वाक्यार्थावबोधहेतोबुद्ध्यात्मनो भाववाक्यस्य अस्माभिरपीष्ठत्वात् / द्रव्यवाक्यरूपतां तु बुद्धेः कः सुधीः श्रद्दधीत प्रतीतिविरोधात् ? एतेन 'अनुसंहृतिर्वाक्यम्' इत्यपि चिन्तितम् ; यथोक्तपदानुसंहृतिरूपस्य चेतसि 5 परिस्फुरतो भाववाक्यस्य परामर्शात्मनोऽभीष्टत्वात् / 'आद्यं पदमन्त्यमन्यद्वा पदान्तरापेक्षं वाक्यम्' इत्यपि नोक्तवाक्याद् भिद्यते; परस्परापेक्षपदसमुदायस्य निराकाङ्क्षस्य वाक्यत्वप्रसिद्धः, अन्यथा पैदस्य वार्ताप्युच्छिंद्येत / "येऽपि मन्यन्ते-पदान्येव पदार्थप्रतिपादनपूर्वकं वाक्यार्थावबोधं विदधानानि वाक्यव्यपदेशं प्रतिपद्यन्ते (1) "संहृतसकलक्रमस्यैकस्यादेशप्रदेशत्वेऽप्यन्तरात्माऽन्तर्यामीत्येवमाख्यायमानस्य प्रतिप्राणिवृत्तेः शब्दतत्त्वस्याक्षरचिह्नादिभिरिवाऽतथाभूतैः क्रमवद्भि गर्योऽयं बुद्धेरनुसंहारः क्रमशः पूर्वपूर्वभागग्राहिणीभिः बुद्धिभिजनितो य संस्कारस्त उपन्नस्य स्मरणस्य बलादन्त्यवर्णभागग्रहणतुल्यकाल: स वाक्यमिति ।"-स्या० र० पृ० 646 / (2) तुलना-"भाववाक्यस्य यथोक्तपदानुसंहृतिरूपस्य चेतसि परिस्फुरतोऽभीष्टत्वात् ।"-अष्टसह पृ० 285 / प्रमेयक० पृ० 460 / (3) “नियतं साधने साध्य क्रिया नियतसाधना। स सन्निधानमात्रेण नियमः सन् प्रकाशते ॥-साधनं साध्यञ्च परस्परं नियतमेव, केवलमाकाङ्क्षादिवशादितरपदार्थसन्निधाने सति नियमः सन्नेव प्रकाशते इत्याक्षिप्तपदान्तराणि पदान्येव वाक्यम्, पदार्थाश्च वाक्यार्थ इति अव्यतिरिक्तः संघातपक्षोऽयम् / ... गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते। साध्यत्वेन निमित्तानि कियापदमपेक्षते ॥"-वाक्यप० 214849 / (4) तुलना-"एवमाद्यन्तसर्वेषां पृथक् संघातकल्पने / अन्योऽन्यानुग्रहाभावात पदानां नास्ति वाक्यता // आद्यं यदि पदं सर्वैः संस्क्रियेत विशेषतः / ततस्तदेव वाक्यं स्यादन्यश्च द्योतको गुणः // एवमन्त्येषु सर्वेषु पृथग्भूतेष्वस्थितम् / स्वतन्त्रेषु हि वाक्यत्वं कथञ्चिन्नोपलक्षितम् ॥"-मी० श्लो० वाक्या० श्लो० 49-51 / "इत्यपि नाकलङ्कोक्तवाक्याद् भिद्यते, तथा परस्परापेक्षपदसमुदायस्य निराकाङक्षस्य वाक्यत्वसिद्धेः ।"-अष्टसह० पृ० 385 / प्रमेयक० पृ. 460 / स्या० र० पृ० 646 / (5) मीमांसकाः / "नानपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यमर्थान्तरप्रसिद्धम् / कुतः ? प्रमाणाभावात् / न च किंचन प्रमाणमस्ति येन प्रमिमीमहे / न ह्यनपेक्षितपदार्थस्य वाक्यान्त्यवर्णस्य पूर्ववर्णजनितसंस्काररहितस्य शक्तिरस्ति पदार्थेभ्योर्थान्तरे वर्तितुमिति / पदानि हि स्वं स्वं पदार्थमभिधाय निवृत्तव्यापाराणि / अथेदानी पदार्था अवगताः सन्तः वाक्यार्थं गमयन्ति / कथम् ? यत्र हि शुक्ल इति वा कृष्ण इति गुणः प्रतीतो भवति, भवति खल्वसावलं गुणवति प्रत्ययमाधातुम् / तेन गुणवति प्रत्ययमिच्छन्तः केवलं गुणवचनमुच्चारयन्ति / सम्पत्स्यत एषां यथा संकल्पितोऽभिप्रायः, भवष्यति विशिष्टार्थसंप्रत्ययः / विशिष्टार्थसंप्रत्ययश्च वाक्यार्थः ।"-शाबरभा० 121225 / "साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् / वर्णास्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले // वाक्यार्थमितये तेषां प्रवृत्ती नान्तरीयकम् / पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥"-मी० श्लो० वाक्या० श्लो० 342-43 / “तस्मात्पदाभिहितः पदार्थः लक्षणया वाक्यार्थः प्रतिपाद्यते ।"-शास्त्रदी० पृ० 604 / “तस्मान्न वाक्यं न पदानि साक्षात् वाक्यार्थबद्धि जनयन्ति किन्तु / पदस्वरूपाभिहितैः पदार्थः संल्लक्ष्यतेऽसाविति सिद्धमेतत् ॥"न्याय० मा० पृ० 102 / / 1-धीति विरो-ब012 चैतस्य परि-श्र० पदवार्ता-श्र014-द्यते आ०।