________________ प्रवचन० का०६५ ] वाक्यलक्षणविचारः 741 पेक्षपदंसङ्घातवर्तिन्याः सदृशपरिणामलक्षणायाः कथञ्चित्ततोऽभिन्नायाः जातेर्वाक्यत्वघटनात् , अन्यथा सङ्घातवाक्यपक्षोक्ताऽशेषदोषानुषङ्गः / ‘एकोऽनैवयवः शब्दो वाक्यम्' इत्यपि मनोरथमात्रम् ; तस्य अप्रमाणकत्वात् / तदप्रमाणकत्वञ्च शब्दस्फोटग्राहकप्रमाणानां निषेत्स्यमानत्वात् सुप्रसिद्धम् / 'मो वाक्यम्' इत्येतत्तु सङ्घातवाक्यपक्षान्नातिशेते इति तद्दोषेणैव दुष्टं द्रष्टव्यम् / / 'बुर्द्धिर्वाक्यम्' इत्यत्रापि भाववाक्यम् , द्रव्यवाक्यं वा सा स्यात् ? प्रथमकल्पनायां (1) संघातात् / (2) "स्फोटश्च द्विविध:-बाह्य आभ्यन्तरश्चेति / बाह्योऽपि जातिव्यक्तिभेदेन द्विविधः / तत्र जातिलक्षणस्य जातिः संघातवर्तिनीति, व्यक्तिलक्षणस्यैकोऽनवयवः शब्द इति / आभ्यन्तरस्य तु बुद्धयंनुसंहृतिरित्यनेनोद्देशः।"-वाक्यप० टी० 22 / “टीकाकारश्चामुमेव पक्षं सूत्रकाराभिप्रायसमाश्रयणेन युक्तियुक्तं मन्यमानो बहीरूप आन्तरो वा निविभागः शब्दार्थमयो बोधस्वभावः शब्दः स्फोटलक्षण एव वाक्यमिति क्रमेण व्याजिहीर्षुः चित्रज्ञानचित्ररूपदृष्टान्तप्रदर्शनं पूर्वमुपक्रमते / तत्र चित्रबुद्धिदृष्टान्तप्रदर्शनार्थमह-यथैक एव सर्वार्थप्रत्ययः प्रविभज्यते / दृश्यभेदानुकारेण वाक्यार्थानुगमस्तथा / / चित्रस्यैकस्वरूपस्य यथा भेदनिदर्शनैः / नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः / तथैवैकस्य वाक्यस्य निराकाङक्षस्य सर्वतः / शब्दान्तरः समाख्यानं साकाङक्षरनगम्यते ।।.."शब्दस्य न विभागोऽस्ति कुतोऽ. र्थस्य भविष्यति / विभागैः प्रक्रियाभेदमविद्वान् प्रतिपद्यते ॥"-वाक्यप० 27-9,13 / “नित्यत्वे समुदायानां जाते; परिकल्पने। एकस्यैवार्थतामाहुः वाक्यस्याव्यभिचारिणीम् ॥"-वाक्यप० 257 / (3) "श्रोत्रबुद्धौ तदप्रतिभासनात् तत्प्रतिबद्धलिंगाभावात्"-अष्टसह० पृ० 285 / (4) "क्रमपक्षं व्याख्यातुमाह-सन्त एव विशेषा ये पदार्थेषु व्यवस्थिताः। ते क्रमादनुगम्यते न वाक्यमभिधायकम् / / "क्रमव्यतिरे. केण न शब्दात्मकं न वाक्यमभिधायकमस्तीत्युच्यते / शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः। क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते // वर्णानां च पदानाञ्च क्रममावनिवेशिनी। पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः // अनर्थकान्युपायत्वात्पदार्थनार्थवन्ति वा। क्रमेणोच्चारितान्याहुवियार्थ भिन्नलक्षणम् ॥"-वाक्यप० 2250-52,56 / (5) तुलना-"वार्यः पदक्रमो वाक्यं यथा वर्णक्रमः पदम् ।"-मी० श्लो० वाक्या० श्लो०५३ / 'वर्णमात्र क्रमस्य वाक्यत्वप्रसङ्गात् पदरूपतामापन्नानां वर्णविशेषाणां क्रमो वाक्यमिति चेत्; स यदि परस्परापेक्षाणां निराकाङ्क्षस्तदा समुदाय एव, क्रमभुवां कालप्रत्यासत्तेरेव समुदायत्वात्, सहभुवामेव देशप्रत्यासत्तेः समुदायत्वव्यवस्थितेः / अथ साकाङ्क्षः; तदा न वाक्यमर्धवाक्यवत् / परस्परनिरपेक्षाणां तु क्रमस्य वाक्यत्वेऽतिप्रसङ्ग एव।"-अष्टसह० पृ० 285 / प्रमेयक० पृ० 460 / स्या० 20 10 644 / (6) "इदानीमन्तरे वाऽनवयवं बोधस्वभावं शब्दार्थमयं निविभागं शब्दतत्वमिति यद्गीतं तदेव नादैर्बहिः प्रकाशितं वाक्यमाहुराचार्या इत्यनतरं बुद्धचनसंहतिरित्यहिष्टं व्याख्यातुमाह-यदन्तः शब्दतत्त्वं तु नादैरेकं प्रकाशितम्। तदाहुरपरे शब्दं तस्य वाक्ये तथैकता / / अर्थभागैस्तथा तेषामान्तरोऽर्थः प्रकाश्यते / एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ // प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता। अन्तर्मात्रात्मनस्तस्य शब्दतत्त्वस्य सर्वदा ॥"-वाक्यप० 2 / 30-32 / (7) तुलना-"बुद्धया न चोपसंहर्तुं क्रमो निष्कृष्य शक्यते। पदान्येव हि तद्वन्ति वर्तन्ते श्रोत्रबुद्धिवत् / तावत्स्वेव पदेष्वन्यः क्रमोऽन्यश्च प्रतीयते / तत्र यावत्क्रमं भेदो वाक्यार्थस्य प्रसज्यते। किञ्च, वर्णक्रमस्य पदत्वं युज्येतापि, स ह्यर्थप्रतीत्यौपयिकः क्रमान्तरे अर्थप्रतीत्यभावात् / पदक्रमस्य तु वाक्यार्थप्रत्ययानौपयिकस्य कथं वाक्यत्वम् ? औपयिकत्वे वा क्रमभेदे वाक्यार्थभेदः स्यादित्याह तावत्सु इति / " -मी० श्लो० न्यायर वाक्या० श्लो०५३-५५ / "बुद्धिर्वाक्यमित्यत्रापि भाववाक्यं द्रव्यवाक्यं वा?" '-अष्टसह० पृ० 285 / प्रमेयक० पृ० 460 / 1 तदुष्टं श्र०, ब०।