________________ 738 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [. प्रवचनपरि० वाक्यमिति / नन्वेवं कथमिदं साधनवाक्यं घटते-'यत् सत् तत्सर्वं परिणामि यथा घटः संश्च शब्दः' इति, 'तस्मात्परिणामि' इत्याकाङ्क्षणात् , साकाङ्क्षस्य वाक्यत्वानिष्टेः ? इत्यचोद्यम् ; कस्यचित् प्रतिपत्तुः तदनाकाङ्कत्वोपपत्तेः / यस्य हि प्रतिपत्तुः 'तस्मात् परिणामि' इत्यत्र आकाङ्काक्षयः तदपेक्षया तद् वाक्यं भवति उक्तवाक्यलक्षणसद्भावात् नान्यापेक्षया / निराकाङ्कत्वं हि प्रतिपतृधर्मः वाक्येष्वध्यारोप्यते, न पुन: शब्दधर्मः तस्याऽचेतनत्वात् / स चेत् प्रतिपत्ता तावता अर्थ प्रत्येति किमित्यपरमाकाङ्केत् ? पक्षधर्मोपैसंहारपर्यन्तसाधनवाक्यादर्थप्रतिपत्तावपि निगमनवचनापेक्षायां निगमनान्तपञ्चावयववाक्यादप्यर्थप्रतिपत्तौ परापेक्षाप्रसङ्गात् न कचिन्निराकाङ्क्षत्वसिद्धिः स्यात् / तथा च वाक्याभावात् न कचिद् वाक्यार्थप्रतिपत्तिः कस्यचित् स्यात् / तामिच्छता यस्य समूहः"-ज्यायवा० 101 / न्यायमं० पृ० 367 / "शक्तं पदम् ।"-मुक्ता० का०८१ / "वर्णाः पदं प्रयोगानिन्वितकार्थबोधका:"-सा० द० 2 / 5 / "व्याकरणस्मृतिनिर्णीत: शब्द: निरुक्तनिघण्टवा दिभिः निर्दिष्टस्तदभिधेयोऽर्थः तौ पदम् ।"-काव्यमी० पृ० 21 / "वर्णानां परस्परापेक्षाणां निरपेक्षः समुदायः पदम्।"-प्रमेयक 10458 / "वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम, पदानां तू वाक्यमिति ।"-प्रमाणनय०.४।१०। (1) तुलना-"आख्यातं साव्ययं सकारकं सकारकविशेषणं वाक्यसंज्ञं भवतीति वक्तव्यम्-अपर आह-आख्यातं सविशेषणमित्येव / सर्वाणि ह्येतानि विशेषणानि / “एकतिङ, एकतिङ वाक्यसंज्ञं भवतीति वक्तव्यम् ।"-पात० महाभा० 2 / 11 / “तिसुबन्तचयो वाक्यम् क्रिया वा कारकान्विता।"-अमरको। “पूर्वपदस्मृत्यपेक्षः अन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसन्धीयमानः विशेषप्रतिपत्तिहेतुर्वाक्यम् ।"-न्यायवा० पृ० 16 / "यावद्भिः पदैरर्थपरिसमाप्तिः तदेकं वाक्यम्।" -वादन्याय पृ० 108 / "पदसमूहो वाक्यमिति ।"-न्यायमं० पृ० 637 / न्यायवा० ता० ए० 434 / “अथात्र प्रसङ्गान्मीमांसकवाक्यलक्षणमर्थद्वारेण प्रदर्शयितुमाह-साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् / कर्मप्रधानं गुणवदेकार्थ वाक्यमिष्यते ॥"-वाक्यप० 2 / 4 / "पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यम् ।"-अष्टश०, अष्टसहपृ० 285 / प्रमेयक० पृ० 458 / प्रमाणनय० 4 / 10 / “मिथः साकाङ्क्षशब्दस्य व्यूहो वाक्यं चतुर्विधम् / सुप्तिङन्तचयो नैवमतिव्याप्त्यादिदोषतः // यादृशशब्दानां यादृशार्थविषयताकान्वयबोधं प्रत्यनुकूला परस्पराकाङक्षा तादृशशब्दस्तोम एव तथाविधार्थे वाक्यम् ।"-शब्दश० श्लो०१३ / 'वाक्यं स्याद्योग्यताकाङ क्षासत्तियुक्तः पदोच्चयः / -सा० द० 2 / 1 / "पदानामभिधित्सितार्थग्रन्थनाकारः सन्दर्भो वाक्यम् ।"-काव्यमी० पृ० 22 / “वाक्यं विशिष्टपदसमुदायः / यदाह-पदानां संहतिर्वाक्यं सापेक्षाणां परस्परम् / साख्याता: कल्पनास्तत्र पश्चात्सन्तु यथायथम् ।"-न्यायाव० टी० टि० 108 / (2) "ननु यदि निराकाङक्षः परस्परा. पेक्षपदसमुदायो वाक्यं न तर्हि तदानीमिदं भवति, यथा यत्सत्तत्सर्व परिणामि यथा घट: संश्च शब्द इति साधनवाक्यम् ; तस्मात्परिणामीत्याकाङ्क्षणात्, साकाङ्क्षस्य वाक्यत्वानिष्टेरिति न शङ्कनीयम्; कस्यचित्प्रतिपत्तुस्तदनाकाङ्क्षत्वोपपत्तेः , निराकाङ्क्षत्वं हि नाम प्रतिपत्तुर्धर्मोऽयं वाक्येष्वध्यारोप्यते न पुनः शब्दस्य धर्मः तस्यावेतनत्वात् / स चेत्प्रतिपत्ता तावताऽथं प्रत्येति किमिति शेषमाकाङ क्षति?" -अष्टश०, अष्टसह० पृ० 85 / प्रमेयक० पृ० 458 / स्या० र० पृ. 641 / (3) सौगतस्य / (4) सौगतापेक्षया। (5) पञ्चावयववादिनैयायिकापेक्षया। (6) उपनय। (7) षष्ठावयवापेक्षा / (8) क्वचिदाकाङक्षापरिसमाप्त्यभावे न वाक्यपरिनिष्ठितिः। 1-पत्तधर्मःश्र०।