________________ प्रवचनप्रका० 65] वाक्यलक्षणविचारः 736 प्रतिपत्तुर्यावत्सु परस्परापेक्षेषु पदेषु समुदितेषु निराकाङ्क्षत्वं तस्य तावत्सु वाक्यत्वसिद्धिः प्रतिपत्तव्या। एतेन प्रकरणादिगम्यपदान्तरसापेक्षश्रूयमाणपदसमुदायस्य निराकास्य सत्यभामादिपदवत् वाक्यत्वं प्रतिपादितं प्रतिपत्तव्यम् / . एतेन यत्कैश्चित् वाक्यस्य लक्षणान्तरमुक्तम्"श्राख्यातशब्दः सङ्घातो जातिः सङ्घातवत्तिनी / एकोऽनवयवः शब्दः क्रमो बुद्धयनुसंहृती(तिः)॥ पदमाद्यं पदञ्चान्त्यं पदं सापेक्षमित्यपि / वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवेदिनाम् // " 1 [वाक्यप० 2 / 1-2 ] इति; तत्प्रत्याख्यातम् ;. यस्मादाख्यातशब्दः पदान्तरनिरपेक्षः, सापेक्षो वा वाक्यं स्यात् ? तत्राद्यपक्षोऽनुपपन्नः; पदान्तरनिरपेक्षस्यास्य पदत्वेन वाक्यत्वानुपपत्तेः, अन्यथा आख्यातपदाभावः स्यात् / द्वितीयपक्षेऽपि कचित् निरपेक्षोऽसौ, न वा ? प्रथमपक्षे अस्म- 10 न्मतसिद्धिः, अस्मदुक्तस्यैव वाक्यलक्षणस्य इत्थमभ्युपगात् / द्वितीयपक्षस्त्वयुक्तः; पदान्तरसापेक्षस्याप्यस्य कचिन्निरपेक्षत्वाभावे प्रकृतार्थापरिसमाप्त्या वाक्यत्वायोगाद् अर्द्धवाक्यवत् / (1) "प्रकरणादिना वाक्यकल्पेनाप्यर्थप्रतिपत्तौ न वा प्राथमकल्पिकवाक्यलक्षणपरिहारः, प्रकरणादिगम्यपदान्तरसापेक्षश्रूयमाणपदसमुदायस्य निराकाङ्क्षस्य सत्यभामादिपद् वाक्यत्वसिद्धेः।"अष्टश० अष्टसह पृ० 285 / प्रमेयक० पृ० 458 / स्या०र० पृ० 642 / (2) वैयाकरणैः भर्तृहरिप्रभृतिभिः / (3) व्याख्या-"एतेऽष्टौ वाक्यविकल्पा आचार्याणाम् / तत्राखण्डपक्षे जातिः संघातवतिन्येकोऽनवयवः शब्दो बुद्धयनुसंहृतिरिति त्रीणि लक्षणानि / खण्डपक्षे तु आख्यातशब्द: क्रमः संघातः पदमाद्यं पृथक् सर्वपदं साकाङ्क्षमिति पञ्च लक्षणानि / अत्रापि संघातः क्रमः इत्याभिहितान्वयपक्षे लक्षणद्वयम् / आख्यातशब्दः पदमाद्यं पृथक्सर्वपदं साकाङ्क्षमित्यन्विताभिधानपक्षे लक्षणत्रयम् इति विभागः:"इत्थमष्टावेव वाक्यविकल्पाः। मतभेदेन सम्पद्यन्त इति बोद्धव्यम्।"-वाक्यप० टी०२।१२। 'आख्यातं शब्दसंघातों-मी० श्लो० न्यायर०पू०८६० / (4) 'बुद्धयनुसंहतिः-वाक्यप०, मी०श्लो० न्यायर० पृ० 860 / स्या० र० पृ० 647 / प्रकृतपाठः-अष्टसह पृ० 284 / तत्त्वार्थश्लो० पृ० 427 / प्रमेयक पृ० 459 / नयच०३०प० 168 A. / (5) 'पदमाद्यं पृथक्सर्वपदं साकाङ्क्ष मित्यपि'-वाक्यप० / 'पदमाचं पृथक्सर्वपदं सापेक्षमित्यपि'-मी० श्लो० न्यायर० ए० 860 / स्या० र० पृ० 647 / प्रकृतपाठः-अष्टसह० पृ० 284 / तत्त्वार्थश्लो० पृ० 427 / प्रमेयक० पू० 459 / (6) 'न्यायवादिनाम'-वाक्यप० / 'न्यायदर्शिनाम्'-मी० श्लो० न्यायर०, स्या०र० / 'न्यायवेदिनाम्'अष्टसह०, तत्त्वार्यश्लो०, प्रमेयक०। (7) आख्यातात्मकवाक्यस्य स्वरूपम्-'आख्यातशब्दे नियतं साधनं यत्र गम्यते / तदप्येकं समासाथ वाक्यमित्यभिधीयते // यथा वर्षतीत्युक्ते देवो जलमिति कर्तृकर्माक्षेपात परिपूर्थित्वे वर्षति देवो जलमिति यथा वाक्यमेवं तदप्येक पदं समासाथ परिपूर्णार्थ वाक्यमेवाभिधीयते ।"-वाश्यप० टी० 2 / 317 / "तस्य पदान्तरनिरपेक्षस्य पदत्वाद् अन्यथा आख्यातपदाभावप्रसङ्गात् / पदान्तरसापेक्षस्यापि क्वचिनिरपेक्षत्वाभावे वाक्यत्वविरोधात् प्रकृतार्थापरिसमाप्तेः / निराकाङ्क्षस्य तु वाक्यलक्षणयोगादुपपन्नं वाक्यत्वम् ।"-अष्टसह पृ० 285 / प्रमेयक० पृ० 459 / (8) जैनमत / (9) आख्यातपदस्य / . 1 तद्वाक्यत्वं ब०। 2 'प्रतिपादित' नास्ति आ० / 8 वाक्यलक्षणा-श्र० /