________________ प्रवचनप्र० का०६५] वाक्यलक्षणविचारः 737 क्यार्थप्रतिपत्तेरपि प्रसिद्धिः अश्रुतकाव्यादिवत् , अतो न वेदार्थप्रतिपत्तौ अतीन्द्रियार्थदर्शिना किञ्चित् प्रयोजनम् ; इत्यप्यपेशलम् ; लौकिकवैदिकपदानामेकत्वेऽपि अनेकार्थत्वव्यवस्थितेः अन्यपरिहारेण व्याचिख्यासितार्थस्य नियमयितुमशक्तेः। न च प्रकरणादिभ्यस्तैन्नियमः; तेषानमप्यनेकधा प्रवृत्तेः त्रिसन्धानादिवत्। यदि च लौकिकेन अग्न्यादिशब्देन अविशिष्टत्वाद् वैदिकस्य अग्न्यादिशब्दस्य अर्थप्रतिपत्तिः; तर्हि पौरुषेयेणापि 5 तेनं अविशिष्टत्वात् पौरुषेयोऽप्यसौ कथन्न स्यात् ? लौकिकस्य हि अग्न्यादिशब्दस्य अर्थवत्त्वं पौरुषेयत्वेन व्याप्तम् , तत्र अयं वैदिकोऽग्न्यादिशब्दः कथं पौरुषेयत्वं परित्यज्य तदर्थमेव ग्रहीतुं शक्नोति ? उँभयमपि गृह्णीयात् जह्याद्वा / न च लौकिकवैदिकशंब्दयोः स्वरूपाऽविशेषे सङ्केतग्रहणसव्यपेक्षत्वेन अर्थप्रतिपादकत्वे अनुच्चार्यमाणयोश्च पुरुषेणाश्रवणे समाने अन्यो विशेषोऽस्ति, यतो वैदिका अपौरुषेयाः शब्दा लौकिकास्तु 10 पौरुषेयाः स्युः / ततो ये नररचितरचनाऽविशिष्टाः ते पौरुषेयाः यथा अभिनवकूपप्रासादादिरचनाऽविशिष्टाः जीर्णकूपप्रासादादयः, नररचितवचनरचनाऽविशिष्टश्च वैदिकं पदवाक्यादिकमिति ॥छ॥ किं पुनः पदं वाक्यश्च इति चेत् ? उच्यते-वर्णानामन्योन्यापेक्षाणां निरपेक्षः पदवाक्ययोर्लक्षणम्- समुदायः पदम् / पदानां तु परस्परापेक्षाणां निरपेक्षः समुदायो 15 (1) तुलना-"उत्पादिता प्रसिद्धयैव शङ्का शब्दार्थनिश्चये / यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते // अन्यथासंभवाभावान्नानाशक्तेः स्वयं ध्वनेः / अवश्यं शङ्या भाव्यं नियामकमपश्यताम् // सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः। ज्ञाता वाऽतीन्द्रियाः केन विवक्षावचनादृते ॥"प्रमाणवा० 3 / 323,24,26 / प्रमेयक० पृ० 402 / स्या० र० पृ० 637 / (2) आदिपदेन संसर्गादयो गाह्याः / तथा चोक्तम्-"संसर्गो विप्रयोगश्च साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः // सामर्थ्य मौचिती देश: कालो व्यक्तिः स्वरादयः / शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।"-वाक्यप० 21317-18 / (3) इष्टार्थनियमः। (4) प्रकरणादीनामपि / तुलना-"तेषामप्यनेकधा प्रवृत्तेः द्विसन्धानादिवत् ।"-प्रमेयक० पृ०४०२। "तेषामप्यनेकताप्रवृत्तेस्त्रिसन्धानादिवत।"-स्या० र० पृ०६३७। (5) पौरुषेयत्वदृष्टयापि / (6) लौकिकशब्देन / (7) वैदिकशब्दः / (8) तात्पर्यम् पौरुषेयत्वञ्च। (9) "अथ स्यादस्त्येव तयोः स्वभावभेद इत्याह-न चात्रेत्यादि / अत्र जगति लौकिकवैदिकयोर्वाक्ययोः स्वभावनानात्वं [नच पश्यामः। असति तस्मिन् स्यरूपभेदे तयोः लौकिकवैदिकवाक्ययोः सामान्यस्यैव तुल्यरूपस्यैव वर्णानुक्रमलक्षणस्य दर्शनाद् एकस्य लौकिकवैदिकस्य कंचिद् धर्म विवेचयन् पौरुषेयत्वमपौरुषेयत्वं वा विभागेन व्यवस्थापयन् पुरुषः आशंक्यव्यभिचारवादः क्रियते ।"-प्रमाणवा० स्ववृ० टी० पृ० 341 // "नच लौकिकवैदिकशब्दयो: शब्दरूपाविशेषे संकेतग्रहणसव्यपेक्षत्वेनार्थप्रतिपादकत्वे अनुच्चार्यमाणयोश्च पुरुषेणाश्रवणे समाने अन्यो विशेषो विद्यते यतो वैदिका अपौरुषेयाः स्युः।"-प्रमेयक० पृ० 402 / सन्मति० टी० पू० 39 / स्या० र० पृ० 637 / (10) दृष्टव्यम्-पृ० 729 टि०१४। (11) तुलना-“सुप्तिङन्तं पदम्"-पाणिनिव्या० 1 / 4 / 14 / "ते विभक्त्यन्ताः पदम्"-न्यायसू० 2 / 2 / 59 / नाटयशा० 14 / 39 / “पदं पुनर्वर्ण ____1-ते: आ०। 2 पौरुषेयत्वस्यापि ततोऽवशि-ब० / 8 न लौकि-आ०, ब० / 4-काश्च पौरु-ब०। 6-तरचना-आ०, ब०। '43