________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [. प्रवचनपरि० नच मन्वादीनां सातिशयप्रज्ञत्वात् तद्व्याख्यानाद् यथार्थप्रतिपत्तिः; तेषां सातिशयप्रज्ञत्वासिद्धेः / तेषां हि प्रज्ञातिशयः स्वतः, वेदार्थाभ्यासात् , अदृष्टात्, ब्रह्मणो वा स्यात् ? स्वतश्चेत् ; सर्वस्य स्यादविशेषात् / वेदार्थाभ्यासाच्चेत् ; ननु वेदार्थस्य ज्ञातस्य, अज्ञातस्य वा अभ्यासः स्यात् ? न तावदज्ञातस्य; अतिप्रसङ्गात् / अथ ज्ञातस्य; कुतस्तज्झप्तिः-स्वतः, अन्यतो वा ? स्वतश्चेत् ; अन्योन्याश्रयः-सति हि वेदार्थाभ्यासे स्वतस्तत्परिज्ञानम् , तस्मिंश्च सति तदर्थाभ्यास इति / अथ अन्यतः; तर्हि तस्यापि तत्परिज्ञानमन्यतः इति अतीन्द्रियार्थदर्शिनोऽनभ्युपगमे अन्धपरम्परातो यथार्थनिर्णयानुपपत्तिः / अदृष्टमपि न प्रज्ञातिशयप्रसाधकम् ; तस्य आत्मान्तरेऽपि सद्भावात् / न तथाविधमदृष्टमन्यत्र मन्वादावेव अस्य संभवादिति चेत् ; कुतस्तत्रैवास्य संभवः ? 10 वेदार्थानुष्ठानविशेषाच्चेत् ; सँ तर्हि ज्ञातस्य अज्ञातस्य वा वेदार्थस्य अनुष्ठाता स्यात् ? अज्ञातस्य चेद् ; अतिप्रसङ्गः। ज्ञातस्य चेत् ; चक्रकप्रसङ्गः-सिद्धे हि वेदार्थज्ञानातिशये तदर्थानुष्ठानविशेषसिद्धिः, तत्सिद्धौ च अदृष्टविशेषसिद्धिः, ततस्तज्ज्ञानातिशयसिद्धि- . . रिति / ब्रह्मणोऽपि वेदार्थज्ञाने सिद्धे सति अतो मन्वादेस्तदर्थपरिज्ञानातिशयः सिद्ध्येत् / तच्चास्य कुतः सिद्धम् ? धर्मविशेषाच्चेत् ; स एव चक्रकप्रसङ्गः-सिद्धे हि वेदार्थपरिज्ञानातिशये तत्पूर्वकानुष्ठानविशेषः सिद्ध्येत् , ततः तज्जनितधर्मविशेषः सिद्ध्येत् , तैत्सिद्धौ च वेदार्थपरिज्ञानातिशयः सिद्धयेदिति / ततोऽतीन्द्रियार्थदर्शिनोऽनभ्युपगमे वेदार्थप्रतिपत्तेरनुपपत्तिरेव / ननु व्याकरणाद्यभ्यासात् लौकिकपदवाक्यार्थप्रतिपत्तौ तदविशिष्टवैदिकपदवातदभक्तानामविचारेण प्रतिपत्तेः बहष्वप्यध्येतष संभावितात पुरुषाद बहलं प्रतिपत्तिदर्शनात / ततोऽपि कथञ्चिद् विप्रलम्भसंभवात् / किञ्च, परिमितव्याख्यातृपुरुषपरम्परामेव चात्र भवतामपि शृणुमः / तत्र कश्चिद् द्विष्टाज्ञधूर्तानामन्यतमः स्यादपीति अनाश्वासः ।"-प्रमाणवा० स्वव० 11322 // (1) तु०-"कुतस्तस्य तादृशः प्रज्ञातिशयः ? श्रुत्यर्थस्मृत्यतिशयादिति चेत् ; सोऽपि कुतः ? पूर्वजन्मनि श्रुत्यभ्यासादिति चेत्; स तस्य स्वतोऽन्यतो वा ? स्वतश्चेत्; सर्वस्य स्यात् / तस्यादृष्टवशाद वेदाभ्यास: स्वतो युक्तो न सर्वस्य तदभावादिति चेत्, कुतस्तस्यैव अदृष्टविशेषः तादग? वेदार्थानुष्ठानाच्चेत् ; तहि स वेदार्थस्य स्वयं ज्ञातस्यानुष्ठाता स्यादज्ञातस्य वापि ? न तावदुत्तरः पक्षः, अतिप्रङ्गात् / स्वयं ज्ञातस्य चेत् ; परस्पराश्रयः / 'मन्वादेर्वेदाभ्यासोऽन्यत एवेति चेत् ; स कोऽन्यः ? ब्रह्मेति चेत् तस्य कुतो वेदार्थज्ञानम् ? धर्मविशेषादिति चेत्; स एवान्योन्याश्रयः ।"-तत्त्वार्थश्लो० पृ० 9 / प्रमेयक० पृ० 401 / स्या०र० पृ० 636 / (2) तुलना-“यस्मादेकोऽपि तन्मध्ये नैवातीन्द्रियदृङ्मतः। अनादि: कल्पितायेषा तस्मादन्धपरम्परा // अन्धेनान्धः समाकृष्ट: सम्यग्वर्त्म प्रपद्यते / ध्रुवं नैव तथाप्यस्या विफलाऽनादिकल्पना।"-तत्वसं० का० 2379-80 / "अविरोधेऽपि नित्यस्य भवेदन्धपरम्परा। तदर्थदर्शिनोऽभावान्म्लेच्छादिव्यवहारवत् ।"-न्यायवि० का० 417 / अष्टश०, अष्टसह० पृ० 239 / प्रमेयक० पृ० 401 / स्या०र० पृ० 637 / तत्त्वचि० शब्द० पृ० 369 / (3) प्रज्ञातिशयप्रयोजकस्य अदृष्टस्य / (4) मन्वादिः / (5) ब्रह्मणः / (6) ब्रह्मणः / (7) धर्मविशेषसिद्धौ। 1 अदृष्टत्वात् श्र० / 2-प्तिः स्वतश्चेदन्यो-आ० /