________________ प्रवचनप्र० का०६५ ] वेदापौरुषेयत्वविचारः 735 दनात्, अन्यथा व्याख्याभेदो न स्यात् / पुरुषाच्चेत् ; कथं तद्व्याख्यानात् पौरुषेयादर्थप्रतिपत्तौ दोषाशङ्कानिवृत्तिः स्यात् ? पुरुषा हि रागादिमन्तो विपरीतमप्यर्थं व्याचक्षाणा दृश्यन्ते। संवादेन प्रामाण्याभ्युपगमे च अपौरुषेयत्वकल्पनानर्थक्यम् , पौरुषेयत्वेऽपि वेदस्य संवादादेव प्रामाण्योपपत्तेः / नच व्याख्यानानां संवादोऽस्ति, परस्परविरुद्धभावनानियोगादिव्याख्यानानामन्योन्यं विसंवादोपलम्भात् / किञ्च, असौ तद्व्याख्याता अतीन्द्रियार्थद्रष्टा, तद्विपरीतो वा ? प्रथमपक्षे अतीन्द्रियार्थदर्शिनः प्रतिषेधविरोधः / धर्मादौ च अस्य प्रामाण्योपपत्तेः " धर्मे चोदनैव प्रमाणम्' [ . ] इत्यवधारणानुपपत्तिश्च / अथ तद्विपरीतः; कथं तर्हि तद्व्याख्यानाद् यथार्थप्रतिपत्तिः, अयथार्थाभिधानाशङ्कया तनुपपत्तेः ? ऽयमर्थः पुरुषैः ते च रागादिसंयुताः ॥"-प्रमाणवा० 31312 / "वेदो नरं निराशंसो ब्रूतेऽर्थ न सदा स्वतः / अन्धात्तमष्टितुल्यां तु व्याख्यां समपेक्षते // स तया कृष्यमाणश्च कुवमन्यपि सम्पतेत् / ततो नालोकवद्वेदश्चक्ष तश्च युज्यते।"-तत्त्वसं० का० 2374-75 / प्रमेयक० पृ० 400 / स्या० र० पृ० 636 / प्रमेयर० 3 / 99 / “अथवा न तावदयं वेदः स्वस्यार्थ स्वयमाचष्टे सर्वेषामपि तदवगमप्रसङ्गात् ।"-धवलाटी० पृ० 195 / (1) तुलना-"व्याख्याप्यपौरुषेय्यस्य मानाभावान्न सङ्गता। मिथो विरुद्धभावाच्च तत्साधत्वाद्यनिश्चितेः ॥"-शास्त्रवा० 10 // 31 / (2) तुलना-"अथान्ये व्याचक्षते; तेषां तदर्थविषयपरिज्ञानमस्ति वा न वा / प्रथमविकल्पेऽसौ सर्वज्ञो वा स्यादसर्वज्ञो वा ?"-धवलाटी० 50 159 / “व्याख्याता रागादिमान विरागो वा ?"-आप्तप० का० 110 / तत्त्वार्थश्लो० 108 / प्रमेयक० पृ० 401 / स्या० 2010 636 / प्रमेयर० 3 / 99 / (3) तुलना-"यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसंभवः / अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् // यद्यत्यन्तपरोक्षेऽर्थे स्वर्गसम्बन्धादौ जैमिन्यादेरनागमस्य आगमनिरपेक्षस्य ज्ञानस्य संभवः तदा अतीन्द्रियार्थदर्शी कश्चिदस्तीत्यभिमतं भवेत् ततस्तत्प्रतिक्षेपो न यक्तः / यदि तू न कश्चिदतीन्द्रियार्थदर्शी तदा-स्वयं रागादिमानार्थं वेत्ति वेदस्य नान्यतः / न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः ॥"-प्रमाणवा०, मनोरथ० 3 / 316-17 / (4) अतीन्द्रियार्थद्रष्टुः / (5) "चोदनालक्षणोऽर्थो धर्मः ।"-जैमिनिसू० 11112 / “चोदनैव प्रमाणञ्चेत्येतद् धर्मेऽवधारितम् / " -मी० श्लो० चोदना० श्लो० 4 / 'यो धर्मः स चोदनालक्षणः, चोदनव तस्य लक्षणम् ।"-शास्त्रदी० 1 / 1 / 2 / उद्धृतमिदम्-आप्तप० पृ० 57 / तत्त्वार्थश्लो० पृ० 12 / प्रमेयक० पृ० 401 / स्या० र० 10 636 / (6) यथार्थप्रतीत्यनुपपत्तेः। तुलना-"अपि च वेदस्तद्व्याख्यानं वा पुरुषेण पुरुषायोपदिश्यमानमनष्टसम्प्रदायमेवानुवर्तते इत्यत्रापि शपथः शरणम् / आगमभ्रंशकारिणामाहोपुरुषिकया तद्दर्शनविद्वेषेण वा तत्प्रतिपन्नखलीकरणाय धूर्तव्यसनेन अन्यतो वा कुतश्चित् कारणादन्यथारचनासंभवात् / अपि चात्र भवान् स्वमेव मुखवणं स्ववादानुरागान्ननं विस्मृतवान् 'पुरुषो रागादिभिरुपप्लुतोऽन्तमपि ब्रुयादिति नास्य वचनं प्रमाणम्' इति / तदिहापि किन्न प्रत्यवेक्ष्यते संभवति न वेति / स एवोपदिशनुपप्लवात् वेदवेदार्थं वाऽन्यथाप्युपदिशेदिति / श्रूयन्ते हि कैश्चित् पुरुषैरुत्सन्नोद्धृतानि शाखान्तराणि इदानीमपि कानिचिद विरलाध्येतकाणि / तद्वत प्रचराध्येतकाणामपि कस्मिंश्चित्काले कथञ्चित्संहारसंभवात् / पुनः संभावितपुरुषप्रत्ययात् प्रचुरतोपगमनसंभावनासंभवाच्च / तेषाञ्च पुनः प्रतानयितणां पुरुषाणां कदाचिदधीतविस्मृताध्ययनानामन्येषां संभावनाभ्रंशभयादिनाऽन्यथोपदेशसंभवात् / तत्प्रत्ययाच्च 1-न्योन्यवि-आ०।