________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० हारबालक्रीडादीनाम् आदिमतामपि निर्मूलोच्छेदोपलम्भन अनादौ वेदे अव्यवच्छेदस्य श्रद्धामात्रादन्यतः संभावयितुमशक्यत्वात् / ___यदप्युक्तम्-'अतीतानागतौ कालौ' इत्यादि; तदप्यसमीक्षिताभिधानम् ; आगमा नरेऽप्यस्याविशेषात् / किञ्चै, इदानीं यथाभूतो 'वेदकरणाऽसमर्थपुरुषयुक्तः तत्कर्तृ5 पुरुषरहितो वा कालः प्रतीतः अतीतोऽनागतो वा तांभूतः कालत्वात् साध्येत, अन्य थाभूतो वा ? यदि तथाभूतः; तदा सिद्धंसाधनम् / अथ अन्याभूतः; तदा सन्निवेशादिवदप्रयोजको हेतुः / अथ तथा तस्यैव तस्य तद्रहितत्वं साध्यते, नच सिद्धसाधनम् अन्यथाभूतस्य कालस्यैवाऽसंभवात् ; नर्नु 'अन्यथाभूतः कालो नास्ति' इत्येतत् कुतः प्रमाणात् प्रतिपन्नम्-अत एव, अन्यतो वा ? यदि अंत एव; इतरेतराश्रयः-अन्यथाभूतका10 लाभावंसिद्धौ हि अतोऽनुमानात्तं;हितत्वसिद्धिः, तत्सिद्धेश्च अन्यथाभूतकालाभावसिद्धिरिति। अन्यतः तत्सिद्धौ चास्यानर्थक्यम् अपौरुषेयत्वस्यापि तत एव प्रसिद्धेः। ततो वेदे अपौरुषेयत्वप्रसाधकस्य कस्यचिदपि प्रमाणस्यासंभवात् कथमसौ अपौरुषेयः स्यात् / / ____ अस्तु वा, तथाप्यसौ व्याख्यातः, अव्याख्यातो वा स्वार्थे प्रतीति कुर्यात् ? न तावदव्याख्यातः; अतिप्रसङ्गात् / अथ व्याख्यातः; कुतस्तद्व्याख्यानम्-स्वतः, पुरुषाद्वा 15 न तावत् स्वत एव; 'अयमेव मदीयपदवाक्यानामर्थः नायम्' इति स्वयं वेदेनाऽप्रतिपा (1) पृ०७२३ पं० 1 / (2) तुलना-"कालत्वपुरुषत्वादौ सन्दिग्धव्यतिरेकिता / पूर्ववत्करणाशक्तेः नराणामप्रसाधनात् ॥"-तत्वसं० का० 2799 / (3) तुलना-"किञ्चेदानीं यथाभूतो वेदाकरणसमर्थपुरुषयुक्तः तत्कर्तृपुरुषरहितो वा काल: प्रतीतः, अतीतानागतो वा तथाभूतः कालत्वात्साध्येत अन्यथाभूतो वा ?"-प्रमेयक० पृ० 399 / सन्मति० टी० पृ० 31 // स्या० र० पृ० 635 / (4) वेदकर्तृपुरुषरहितः / (5) हेतोः वेदकारविवर्जितः इति शेषः / (6) वेदकर्तृपुरुषसहितः / (7) वेदकर्तपुरुषरहितकालस्य वेदकारविजितत्वमिष्टमेव / (8) वेदकरणसमर्थपुरुषयुक्तः तत्कर्तृपुरुष सहितो वा / (9) वेदकर्तपुरुषरहितस्यैव / (10) कालस्य। (11) वेदकाररहितत्वम। (12) वेदकर्तृपुरुषसहितकालसम्भावनया। (13) वेदकर्तृपुरुषसहितस्य / (14) तुलना-'नन्वन्यथाभूतः कालो नास्तीत्येत्कुतः प्रमाणात् प्रतिपन्नम् ?"-प्रमेयक० पृ०३९९ ।सन्मति० टी० पृ० 31 / स्या० र० पृ० 635 / (15) कालत्वात् हेतोः / (16) वेदकर्तृसहित / (17) वेदकारविवर्जितत्व / (28) अन्यथाभूतकालाभावसिद्धौ। (19) कालत्वादिति हेतोः। (20) तुलना-"सहि वेद: केनचिद् व्याख्यातः धर्मस्य प्रतिपादक: स्यादव्याख्यातो वा ?"-आप्तप० का० 110 / प्रमेयक० पृ० 400 / स्प० 2010 636 / प्रमेयर० 3 / 99 / (21) तुलना-"न हि तावत्स्थितोप्येष ज्ञानं वेदः करोति न / यावन्न पुरुषैरेव दीपभूतैः प्रकाशितः // ततश्चापौरुषेयत्वं भूतार्थज्ञानकारणम् / न कल्प्यं ज्ञानमेतद्धि पुंव्याख्यानात्प्रवर्तते // सत्यप्येषा निरर्थातो वेदस्यापौरुषेयता / यदिष्टं फलमस्या हि ज्ञानं तत्पुरुषाश्रितम् // स्वतन्त्राः पुरुषाश्चेह वेदे व्याख्यां यथारुचि / कुर्वाणाः प्रतिबद्धं ते शक्यन्ते नैव केनचित् // मोहमानादिभिर्दोषैरतोऽमी विप्लुताः श्रुतेः / विपरीतामपि व्याख्यां कुर्युरित्यभिशङ्कयते // " -तत्त्वसं० का० 2366-71 / (22) तुलना-“अर्थोऽयं नायमर्थ इति शब्दाः वदन्ति न / कल्प्यो . 1 अधिमता-श्र०। 2 वेदाकरणसमर्थ-ब। 3 तदृष्टपुरु-ब०। 'तत्कर्तपुरुषरहितो' इति नास्ति आ०।