________________ प्रवचनप्र० का०६५ ] वेदापौरुषेयत्वविचारः तथाभूतार्थप्रतिपादने प्रामाण्याप्रसिद्धेः। तदप्रसिद्धिश्च गुणवतो वक्तुरभावे तेंद्गुणैरनिराकृतैर्दोषैः तस्यापोहित्वात् सुप्रसिद्धा। तथाभूताश्च प्रेरणामतीन्द्रियार्थदर्शनशक्तिविरहिणोऽपि कर्तुं समर्था इति कुतः तथाभूतप्रेरणाप्रणेतृत्वाऽसामर्थ्येन अशेषपुरुषाणामीदृशत्वसिद्धिर्यतः सिद्धसाधनं न स्यात् / अथ न गुणवद्वक्तृकत्वेनैव शब्देऽप्रामाण्यनिवृत्तिः अपौरुषेयत्वेनाप्यस्याः संभवात् ततोऽयमदोषः; तदप्यसाम्प्रतम् ; यतोऽ- 5 पौरुषेयत्वमस्याः किमन्यतः प्रमाणात् प्रसिद्धम् , अत एव वा ? यदि अन्यतः; तदा अस्य वैयर्थ्यम् / अत एव चेत् ; अन्योन्याश्रयः-अतो हि अनुमानादपौरुषेयत्वसिद्धौ प्रेरणायाः प्रामाण्यसिद्धिः, तत्सिद्धौ च तथाभूतप्रेरणाप्रणेतृत्वासामर्थेन सर्वपुरुषाणामीइंशत्वसिद्धिरिति / तन्न वेदाध्ययनमात्रं हेतुः / अथ अपरविशेषणविशिष्टम् ; किं पुनस्तत्र विशेषणम्-कर्बस्मरणम् , सम्प्रदाया- 10 व्यवच्छेदो वा ? न तावत् कर्बस्मरणम् ; तस्य असिद्धाद्यनेकदोषदुष्टत्वप्रतिपादनात् / सम्प्रदायाव्यवच्छेदोऽपि आत्मगतः, सर्वलोकगतो वा ? न तावदात्मगतः; भारतादिवत् पौरुषेयत्वेऽप्यस्य सम्भवात् / नापि सर्वलोकगतः; असर्वविदा तस्य सतोऽपि ज्ञातुमशक्यत्वात् , 'वटे वटे वैश्रवणः”[ ] इत्यादिवत् पौरुषेयत्वेऽप्यस्याऽविरोधाच्च / किश्च, प्रमाणादर्थव्यवस्था भवति / सम्प्रदायाव्यवच्छेदश्च किं स्वतन्त्रं प्रमाणम्, 15 प्रत्यक्षाद्यन्यतमत् , तदन्तर्भूतं वा ? न तावत् स्वतन्त्रम् ; षट्प्रमाणसंख्याव्याघातप्रसङ्गात्। नापि प्रत्यक्षाद्यन्यतमत्; तस्य तत्सामग्रीतो विलक्षणसामग्रीप्रभवत्वात् , आज्ञापारम्पर्यवत् / अत एव न तदन्तर्भूतम् / ततो वटे यक्षपारम्पर्यवत् संशयजनकमेवैतत् नार्थतत्त्वव्यस्थापनप्रवणम् / अव्यवच्छेदश्चास्य श्रद्धामात्रगम्यः; नैपथ्यव्यव (1) अतीन्द्रियार्थ। (2) तुलना-"गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् / अपौरुषेयं मिथ्यार्थं किन्नत्यन्ये प्रचक्षते // " -प्रमाणवा० 3 / 225 / "यावता गुणवद्वक्त्रभावे तद्गुणैरनिराकृतैर्दोषैरपोहितत्वात् तत्र सापवादं प्रामाण्यम् ।"-प्रमेयक० पृ० 397 / सन्मति० टी०१०४१। स्या० र० पृ० 634 / (3) वक्तृगुणैः। (4) प्रामाण्यस्य निराकृतत्वात् / (5) अप्रमाणभूताम् / (6) अप्रामाण्यनिवृत्तेः। (7) चोदनायाः / 'यतोऽपौरुषेयत्वमस्याः किमन्यत: प्रमाणात् प्रतिपन्नमत एव वा ?"-प्रमेयक० पृ० 397 / सन्मति० टी० पृ० 41 / स्या० 20 पृ० 635 / (8) अस्मदादिवदग्दिर्शित्वसिद्धिः / (9) वेदाध्ययनवाच्यत्वाख्ये हेतौ / "किं तत्र विशेषणम्-कर्चस्मरणं सम्प्रदायाव्यवच्छेदो वा ?"-स्या० र० पृ० 635 / (10) 'सम्प्रदायाव्यवच्छेदोऽपि आत्मगतः, सर्वलोकगतो वा ?"-स्या० र०पू० 635 / (11) सम्प्रदायाव्यवच्छेदस्य / (12) सम्प्रदायाव्यवच्छेदस्य / (13) विलक्षणसामग्रीप्रभवत्वादेव / (14) प्रत्यक्षाद्यन्तर्गतम् / (15) सम्प्रदायाव्यवच्छेदात्मकं प्रमाणम् / (16) वेदस्य / तुलना-"अपि च आदिमतोऽपि शास्त्रग्रामस्य सम्प्रदायव्यवच्छेदोऽस्ति वेदस्य पुनरनादेरसौ नास्तीति कः श्राद्धिको भवतोऽपरः प्रतिपद्येत ।"-स्या०र० पृ० 635 / 1-पोदित-आ०। 2-पादित-श्र०। 2 सर्वगतोः ब०, श्र०। ततो दृष्टयकृपारम्पर्यवत् संशयज्ञवक्तुमेवेतदर्थत्वव्यवस्था भवति सम्प्रदायाध्ययनप्रवणम् ब०। 4-जननमेव तनार्थ-आ० /