________________ 732 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० शिष्टत्वेन वा ? यदि तावन्मात्रेण; तदाऽनैकान्तिकम् ; विपक्षेऽप्यस्य अविरुद्धतया सद्भावसंभवात् / विपक्षण विरुद्धं हि विशेषणं ततो हेतुं व्यावर्त्तयति नान्यद् अतिप्रसङ्गात् / नच वेदविशेषणं कर्तृपूर्वकत्वलक्षणविपक्षेण विरुद्धम् भारताध्ययनवद् वेदाध्ययनस्यापि सकर्तृकत्वेऽप्यविरोधात् / किञ्च, यथाभूतानां पुरुषाणामध्ययनम् अँध्ययनपूर्वकं दृष्टं तथाभूतानामेव तत्तथा साध्यते, अन्यथाभूतानां वा ? यदि तथाभूतानाम् ; तदा सिद्धसाधनम् / अथ अन्यथाभूतानाम् ; तर्हि जगतो बुद्धिमद्धेतुकत्वे सन्निवेशादिवदप्रयोजको हेतुः। अथ तथीभूतानामेव तत्तौँ साध्यते, नच सिद्धसाधनम् , सर्वपुरुषाणामतीन्द्रियार्थदर्शनशक्तिवैकल्येन अतीन्द्रियार्थप्रतिपादकप्रेरणाप्रणेतृत्वाऽसामर्थ्येन ईदृशत्वात् ; तदप्यसुन्दरम् ; प्रेरणायाः (1) तुलना-"वेदेन विशेषणाददोषः, अध्ययनमात्रस्य हि व्यभिचारो न वेदेन विशिष्टस्याध्ययनस्येत्यभिप्रायः / कः पुनरित्यादि सिद्धान्तवादी। कोऽतिशयो वेदाध्ययनस्य येन तद्वेदाध्ययनमन्यथेति स्वयं कृत्वाऽध्येतुं न शक्यते / नैव कश्चिदतिशयः / ततो वेदाध्ययनञ्च स्यान्न च अध्ययनपूर्वकमिति विरोधाभावात् स एव व्यभिचारः / यस्मान्नहि विशेषणं वेदत्वम् अविरुद्धं विपक्षण अनध्ययनान्तरपूर्वकत्वेन सह, अस्माद् विपक्षाद् हेतुं निवर्तयति / किं कारणम् ? अविरुद्धयोः वेदत्व-अध्ययनान्तरपूर्वकत्वयोरेकत्र वेदवाक्ये सम्भवात् / को ह्यत्र विरोधो यद् वेदाध्ययनञ्च स्यान्न च अध्ययनान्तरपूर्वकमिति / तस्माद्वेदत्वं विशेषणमध्ययनस्य हेतोरतिशयभाग् न भवति विशेषाधायकन्न भवति, विपक्षविरोधाभावेन विपक्षादव्यावर्तनात् उपात्तमपि विशेषणमनुपात्तसमम् ।"-प्रमाणवा० स्ववृ० टी० पृ०३४५। प्रमेयक० 10397 / स्था० पृ० 634 / (2) अनध्ययनपूर्वकाध्ययने सकर्तके (३)वेदविशेष- - णस्य अध्ययनशब्दवाच्यत्वस्य / (4) विपक्षात् / (5) अस्मदादीनाम् अर्वाग्दृशाम् / तुलना-"किञ्च यथाभूतानां पुरुषाणामध्ययनमध्ययनपूर्वकं दृष्टं तथाभूतानामेव अध्ययनशब्दवाच्यत्वमध्ययनपूर्वकत्वं साधयत्यन्यथाभूतानां वा ?"-प्रमेयक० पृ०३९८। सन्मति० टी० पृ० 41 // स्या०र० पृ० 634 / (6) गुर्वध्ययनपूर्वकम् / (7) वेदाध्ययनम् / (8) वेदाध्ययनपूर्वकम् / (9) अतीन्द्रियार्थदर्शनशालिनां पुरुषाणां वा / (10) अस्मदादीनाम् / तुलना-"यादृशं त्वध्ययनं स्वयकर्तुमशक्तस्य तन्निमित्तम् अध्ययनान्तरनिमित्तं दृष्टं तत्तथेति अध्ययनान्तरपूर्वकमेवेति स्यात् "तन्निमित्ततया शक्तिनिमित्ततया दृष्टेऽवगते विशेषे स्वयं कृत्वाऽध्ययनलक्षणे तत्यागेन तस्य विशेषस्य त्यागेन वेदाध्ययनत्वसामान्यस्य ग्रहणं शक्तस्याशक्तस्य वा सर्वं वेदाध्ययनमध्ययनान्तरपूर्वकं वेदाध्ययनत्वसामान्यादिति क्रियमाणं व्यभिचार्येव / किमिव ? हुताशनसिद्धौ अग्निसिद्धौ पाण्डुद्रव्यत्ववत्"."-प्रमाणवा० स्ववृ० टी० पृ० 346 / (11) यादृशं सन्निवेशादि घटादिषु यदक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकं दृष्टं तादृशमेव जीर्णकूपादौ बुद्धिमद्धेतुकन्वमनुमापयति नतु तद्विलक्षणम्-अक्रियादर्शिनः कृतबुद्धयनुत्पादकमिति स्थितिः; तथापि सन्निवेशसामान्यात् पृथिव्यादावपि बुद्धिमतुकत्वानुमाने मृद्विकारत्वहेतुना बल्मीकस्यापि कुम्भकारकृतत्वं स्यात. ततो यथा जगतो बुद्धिमद्धेतुके सन्निवेशादिसामान्यमकिञ्चित्करं तथैव यादृशानाम स्मदादिपुरुषाणामध्ययनमध्यनान्तरपूर्वकं दृष्टं तादृशानामेव देशान्तरादौ अध्ययनपूर्वकत्वं साधयितुमुचितं न तु अन्यादृशानामतीन्द्रियार्थद्रष्ट्रणाम्, तत्र अध्ययनशब्दवाच्यत्वस्य अप्रयोजकत्वादिति भावः / (12) अस्मदादीनामर्वाग्दृशाम् / (13) अध्ययनम् / (14) अध्ययनपूर्वकम् / (15) अन्यथाभूताऽतीन्द्रियपुरुषासंभावनया। (16) अस्मदादिवदेव अग्दिर्शित्वात् / (17) वेदस्य / . 1कर्तृत्वलक्षण-ब०। 2-त्वविलक्ष-श्र०। 3-पूर्व दृष्टं आ०, ब० /