________________ 730 - लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० आप्तोक्तानि, वाक्यत्वे सति प्रमाणत्वात् , यदित्थं तत्तथा यथा पित्रादिवाक्यम् , तथा चामूनि, तस्मात्तथेति / ___ यदप्यभिहितम्- 'वेदरचनायाः कर्तृपूर्वकरचनाविलक्षणत्वात्' इत्यादि; तत्र किमिदं तस्याः तद्वैलक्षण्यं नाम-दुर्भणत्वम् , दुःश्रवणत्वम् , लोकव्याकरणप्रसिद्धशब्दवैलक्षण्येन शब्दविनिवेशः, अपूर्वछन्दोनिबद्धत्वम् , अतीन्द्रियार्थप्रतिपादकत्वम् , महाप्रभावोपेतमन्त्रयुक्तत्वं वा ? सर्वमेतत् पुरुषाणां न दुष्करम् , विज्ञानकरणपाटवाधीनत्वाद् वाचोवृत्तेः। मन्त्राणाञ्च महाप्रभावोपेतत्वं पुरुषप्रणीतत्वेनैवोपपन्नम् , निरतिशयप्रभाववता हि पुरुषेण पदवत्त्वात् लौकिकवाक्यवत् ।"-ज्यायवा० पृ० 272 / “अनित्यानि वेदवाक्यानि वाक्यत्वादुभयाभिमतवाक्यवत् ।"-प्रश० व्यो० 581 // "न चाक्षरराशेरपौरुषेयत्वं येन स्वतः प्रमाणं वेद: स्यात्, शास्त्रान्तरस्यापि तदनुषङ्गात् विशेषाभावाच्च ।"-सिद्धिवि०, टी० पृ० 406 B. | "वेदपदवाक्यानि पौरुषेयाणि पदवाक्यत्वाद् भारतादिपदवाक्यवत ।"-प्रमेयक० 50 391 / "श्रतिः पौरुषेयी वर्णाद्यात्मकत्वात् कुमारसंभवादिवत् ।”-रत्नाकराव० 4 / 9 / (1) पृ० 722 पं० 11 // (2) तुलना-"दुर्भणत्वानुदात्तत्वक्लिष्टत्वाऽश्रव्यतादयः / वेदधर्मा हि दृश्यन्ते नास्तिकादिवचस्स्वपि // विषापगमभूत्यादि यच्च किञ्चित्समीक्ष्यते। सत्यं तद्वैनतेयादिमन्त्रवादेऽपि दृश्यते / दुर्भणत्वं दुरभिधानम्, अनुदात्तत्वं मनोज्ञत्वम् क्लिष्टं व्यवहितम्, . . . . . . अश्रव्यता श्रुतिदुभंगता। आदिशब्देन पदविच्छेदप्लुतोदात्तादिपरिग्रहः / विषापगमे भूति: सामर्थ्य प्रभाव इति यावत् / अथवा विषापगमश्च भूतिश्चेति समासः, भतिविभतिरैश्वर्यमिति यावत / आदिशब्देन भूतग्रहाद्यावेशवशीकरणाभिचारादयो गृह्यन्ते। सत्यमिति अविसंवादि / वैनतेयादीत्यादिशब्देन बौद्धादिमन्त्रवादपरिग्रहः ।"-तत्वसं०. पं० पृ० 739 / “सर्वेषां दुर्भणत्वादीनां मन्त्रादिसामर्थ्यानाञ्च साधारणत्वात् ।"-प्रमाणवा० मनोरथ० 3 / 242 // "दुर्भणनदुःश्रवणादीनामस्मदाद्युपलभ्यानां तदतिशयान्तराणां शक्यक्रियत्वादितरत्रापि।"-अष्टश०, अष्टसह०१०,२३७ / स्या०र०पू० 632 // रत्नाकराव० 4 / 9 / (3) तुलना-"अपि चेदं मन्त्रा अपौरुषेयाश्चेति व्याहतं पश्यामः / तथाहि -"समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनम् / युक्तं यद्येते मन्त्राः कस्यचित्समयो यथा मत्प्रणीतमेतदभिमतार्थोपनिबन्धनं वाक्यमेवं नियुञ्जानमनेनार्थेन योजयामीति; परार्थपरतानुरोधेन अन्यतो वा कुतश्चिद्धेतोः स्यात् तदा मन्त्रप्रयोगात् कदाचिदर्थनिष्पत्तिर्युक्ता कविसमयादिव पाठकानाम्।" -प्रमाणवा० स्ववृ० 11294 / “अपि च न मन्त्रो नामान्यदेव किञ्चित् / किं तहि ? सत्येत्यादि / यथाभताख्यानं सत्यम्, इन्द्रियमनसोर्दमनं तपः तयोः प्रभावो विषस्तम्भनादिसामर्थ्यं स विद्यते येषां पुंसां ते तथा तेषां सत्यतपःप्रभाववतां पुंसां समीहितार्थस्य साधनं तदेव मन्त्रः / तद्वचनं मन्त्रलक्षणमद्यत्वेऽपि पुरुषेषु दृश्यत एव / किं कारणम् ? यथास्वं सत्याधिष्ठानबलाद् विषदहनादेः स्तम्भनस्य सामोपघातस्य दर्शनात् / तथा शबराणां केषाञ्चित् स्वनियमस्थानामद्यापि विषापनयनशक्तियुक्तस्य कारणात् शक्नुवन्त्येव पुरुषाः मन्त्रान् कर्तुम् / अवैदिकानाञ्च-वेदादन्येषां बौद्धादीनामिति, आदिशब्दाद् आर्हतगारुडमाहेश्वरादीनां मन्त्रकल्पानां मन्त्राणां मन्त्रकल्पानाञ्च दर्शनात् / विद्याक्षराणि मन्त्राः, तत्साधनविधानोपदेशाः मन्त्रकल्पाः तेषाञ्च बौद्धादीनाम्मन्त्रकल्पानां पुरुषकृतेः पुरुषः करणात्।" -प्रमाणवा० स्ववृ० टी० पृ० 342 / 'येऽपि मन्त्रविदः केचिन्मन्त्रान् कांश्चन कुर्वते / प्रभोः प्रभावस्तेषां स तदुक्तन्यायवृत्तितः / / कृतकाः पौरुषेयाश्च मन्त्राः वाच्याः फलेप्सुना। अशक्तिसाधनं पुंसामनेनैव निराकृतम् ।"-प्रमाणवा० 3 / 309-10 / “परोक्षाया मन्त्रशक्तेरपि दर्शनात् / न ह्याथर्वणानामेव मन्त्राणां शक्तिरुपलभ्यते न पुनः सौगतादिमन्त्राणामिति शक्यं वक्तुं प्रयाणबाधनात् / " -अष्टश० अष्टसह० पृ० 237 / स्या०र०पू०६३३। “मन्त्रादीनाञ्च सामर्थ्य शाबरणामपि स्फटम /