________________ प्रवचनप्र० का०६५ ] वेदापौरुषेयत्वविचारः 726 ___यदप्युक्तम्-'ये हि यदर्थानुष्ठाने प्रवर्त्तन्ते तेऽवश्यं तच्छास्त्रकर्तारमनुस्मरन्ति' इत्यादि; तदप्यनल्पतमोविलसितम् ; नियमाभावात् / न हि 'यो धर्मशीलः' [ ] इत्यादिवाक्येभ्यः तदर्थानुष्ठाने प्रवर्त्तमानानामनुष्ठातृणां तत्कर्तृस्मरणमस्ति, तदन्तरेणापि धर्मशीलताद्यर्थानुष्ठाने महापुरुषार्थोपयोगिन्यैहिकपारटिकभयाऽभावहेतौ प्रवृत्तिप्रतीतेः / ___ यच्चान्यदुक्तम्-'छिन्नमूलत्वाच्च' इत्यादि; तदप्यसुन्दरम् ; यतः अँध्यक्षेणानु- 6 भावाभावात् तत्रं तच्छिन्नमूलम् , प्रमाणान्तरेण वा ? अध्यक्षेण चेत् ; किं भंवत्सम्बन्धिना, सर्वसम्बन्धिना वा ? यदि भवत्सम्बन्धिना; तर्हि आगमान्तरेऽपि कर्तृसद्भावग्राहकत्वेन भवत्प्रत्यक्षस्याऽप्रवृत्तेः तत्कर्तृस्मरणस्य छिन्नमूलत्वेन अस्मर्यमाणकर्तृकत्वस्य भावाद् व्यभिचारी हेतुः / अथ तत्रं तद्ब्राहकत्वेन अस्मत्प्रत्यक्षस्याप्रवृत्तावपि परैः कर्तृसद्भावाभ्युपगमान्न व्यभिचारः; तन्न; परकीयाभ्युपगमस्य भवतोऽप्रमाणत्वात् , 10 अन्यथा वेदेऽपि परैस्तत्सद्भावाभ्युपगमात् अस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः स्यात् / सर्वसम्बन्धिना चेत् ; सोऽसिद्धः; अर्वाग्दृशा तस्यावसातुमशक्यत्वात् / अथ प्रमाणान्तरेण अनुभवाभावः; तन्न; आर्गेमस्य तत्र कर्तृसद्भावावेदकस्य प्रतिपादितत्वात् ।रचनावत्त्वाद्यनुमानस्य च तत्प्रसाधकस्य सद्भावात् / तथाहि- पौरुषेयो वेदः रचनावत्त्वात् भारतादिवत्, पर्दैवाक्यात्मकत्वाद्वा तद्वत् / तथा प्रमाणान्तरविषयभाञ्जि वैदिकानि वाक्यानि 15 (1) पं०७२१ पं०८। (2) “न चायं नियमोऽनुष्ठानसमये तत्कर्तारमनुस्मृत्यैव प्रवर्तन्ते"प्रमेयक० पृ०३९५ / सन्मति० टी०१० 43 / शास्त्रवा० यशो० 10 284 B.I "न हि यो धर्मशील इत्यादिवाक्येभ्यस्तदर्थानष्ठाने प्रवर्तमानानामनष्ठातणां तत्कर्तस्मरणमस्ति / तदन्तरेणापि धर्मशीलताद्यर्थानुष्ठाने महापुरुषार्थोपयोगिन्यैहिकपारत्रिकभयाभावहेतौ प्रवृत्तिप्रतीतेः ।"-स्या० र० पृ० 631 / (3) पृ० 722 पं० 9 / (4) “यतोऽध्यक्षेण तदनुभवाभावात्तत्र तच्छिन्नमूलं प्रमाणान्तरेण वा।" -प्रमेयक० पृ० 393 / सन्मति० टी० पृ० 42 / स्या० र० पृ० 631 / (5) वेदे / (6) कर्तृस्मरणम् / (7) तुलना-"सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी। विन्ध्याद्रि रन्धुदूर्वादेरदष्टावपि सत्त्वतः ॥"-तत्त्वसं० 10 65 / न्यायवि० टि० 10 167 पं० 3 / न्यायली० पृ० 22 / (8) आगमान्तरकर्तृस्मरणस्य / (9) आगमान्तरे / (10) मीमांसकस्य / (11) जैनादिभिः / (12) कर्तृसद्भाव / (13) वेदस्मृतिरूपस्य / (14) तुलना-"बुद्धिपूर्वा वाक्यकृतिदे-वाक्यकृतिक्यिरचना सा बुद्धिपूर्वा वक्तृयथार्थवाक्यार्थज्ञानपूर्वा वाक्यरचनात्वात्, नदीतीरे पञ्च फलानि सन्तीत्यस्मदादिवाक्यरचनावत् ।"-वैशे० सू०, उप० 6 / 11 / 'बुद्धिपूर्वा वाक्यकृतिक्यिरचना वेदे तद्रचनात्वात् उभयाभिमतवाक्यरचनावत् ।"-प्रश० व्यो० 50 581 प्रश० कन्द० पृ० 217 / "तथा च वैदिक्यो रचना: कर्तपविकाः रचनात्वाल्लौकिकरचनावत्।"-न्यायमं० 10 232 / स्या०र० पृ० 632 / "ततो ये नररचितवचनरचनाऽविशिष्टास्ते पौरुषेयाः यथाऽभिनवकूपप्रासादादिरचनाऽविशिष्टा जीर्णकूपप्रासादादयः, नररचितवचनरचनाऽविशिष्टञ्च वैदिकं वचनमिति ।"-प्रमेयक० पृ०४०२। सन्मति० टी०प०३९ / . (15) तुलना-"इतश्च वर्णवत्त्वात्, वर्णवन्ति लौकिकवाक्यानि अनित्यानि तथा च वेदवाक्यानि, तस्मात्तान्यप्यनित्यानि / इतश्च सामान्यविशेषवत्त्वे सति श्रोत्रग्राह्यत्वात् लौकिकवाक्यवत् / इतश्च 1-णमिति ब०। 2-त्रिकमयाद्वारहेतौ ब० ।-त्रिकतयाभावहेतौ आ०। 8 तत्रकर्त-ब० / 4 अथतना-ब०। 42