________________ 728 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० वस्तु स्मर्यमाणकर्तृकमस्मर्यमाणकर्तृकं वा प्रतिपन्नम् , किन्तु अकर्तृकमेव / कालात्ययापदिष्टश्च; श्रुतिस्मृतिबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वात् / तन्न कर्तृस्मरणाभावलक्षणमस्मर्यमाणकर्तृकत्वं घटते / / नापि अकर्तृकत्वलक्षणम् ; अशब्दार्थत्वात् / नहि अस्मर्यमाणकर्तृत्वशब्दस्य 5 अकर्तृकत्वमर्थो लोके शास्त्रे वा प्रसिद्धः / प्रसिद्धौ वा साध्याविशिष्टत्वम् / अस्तु वाऽवि चारितमणीयमस्मर्यमाणकर्तृकत्वम् ; तथापि तद् वादिनः, प्रतिवादिनः, सर्वस्य वा सम्बन्धि हेतुः स्यात् ? यदि वादिनः ; तदनैकान्तिकम् , “वटे वटे वैश्रवणः” [ ] इत्यादिषु विद्यमानकर्तृकेष्वपि प्रयोजनाभावात् मीमांसकैरस्मर्यमाणकर्तृकेषु अस्य सद्भावात्। ननु वेदे कर्बभावपूर्वकमस्मर्यमाणकर्तृत्वं हेतुः, तच्चाā नास्ति कर्चनुपलम्भमात्रपूर्वकत्वात्तत्र तस्य तत्कथमनैकान्तिकत्वम् ? इत्यपि मनोरथमात्रम् ; यतः कुतोऽत्र कञभावसिद्धिः-प्रमाणान्तरात् , अत एव वा ? यदि प्रमाणान्तरात् ; तदाऽस्य आनर्थक्यम् / अत एव चेत् ; अन्योन्याश्रयः-अतो हि अनुमानात् तँदभावसिद्धौ तत्पूर्वकमस्मर्यमाणकर्तृकत्वं सिद्ध्यति, तैत्सिद्धौ च अतोऽनुमानात्तदभावसिद्धिरिति / अथ प्रतिवादिनः सम्बन्धि तत् हेतुत्वेन विवक्षितम् ; तदसिद्धम् ; तत्र हि प्रतिवादी स्मरत्येव कर्तारम् / 15 एतेन सर्वस्याऽस्मरणं प्रत्याख्यातम् ; सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य तंत्र कर्ब स्मरणमवैति ? अतोऽस्य अज्ञातासिद्धत्वम् , सतोऽप्यस्य असर्वविदा ज्ञातुमशक्यत्वात् / (1) साध्यं हि अपौरुषेयत्वं तदेव च अकर्तकत्वमिति, साध्यावशिष्टत्वाद् असिद्धो हेत्वाभासो लक्ष्यते साध्यस्य असिद्धत्वादिति / (2) तुलना-"किञ्च अस्मर्यमाणकर्तृकत्वं वादिनः प्रतिवा. दिनः सर्वस्य वा स्यात् ।”-प्रमेयक० पृ० 395 / सन्मति० टी० पृ० 30 / स्या० र० पृ० 631 / प्रमेयर० 3399 / “अपि च किमशेषजनस्मरणविनिवृत्तिरिह हेतुत्वेन विवक्षिता, आहोस्वित् कतिपयपुरुषस्मरणविनिवृत्तिः।"-तत्त्वोप० पृ० 117 / (3) तुलना-'अनैकान्तिंकत्वमप्याह-दृश्यन्ते चेत्यादि। उपदेशपारम्पर्य सम्प्रदायः, विछिन्नः क्रियासम्प्रदायः पुरुषकृतत्वसम्प्रदायो येषां वटे वटे वैश्रवणादिशब्दानां ते तथा / अनेन अस्मर्यमाणकर्तृत्वमाह / कृतकाश्च पौरुषेयाश्च। ततः पौरुषेयेऽपि वाक्ये कर्तुरस्मरणं वर्तत इत्यनकान्तिको हेतुः ।"-प्रमाणवा० स्ववृ० टी० 12242 / स्या० र० पृ० 631 // "वादिनश्चेत्तदनैकान्तिकम् ; सा ते भवतु सुप्रीतेत्यादौ विद्यमानकर्तृकेप्यस्य भावात् ।"-प्रमेयक० पृ० 395 / (4) 'वटे बटे श्रवणः' इत्यादिवाक्येषु / (5) अस्मर्यमाणकर्तृकत्वस्य / (6) वेदे / तुलना-“यतः कुतोऽत्र कर्बभावसिद्धिः प्रमाणान्तरादत एव वा" ? -स्या० र० पृ० 631 / (7) अस्मर्यमाणकर्तृकत्वस्य हेतोः / (8) वेदे कञभावसिद्धौ। (9) अस्मर्यमाणकर्तृकत्वसिद्धौ च / (10) अस्मर्यमाणकर्तृकत्वम् / (11) तुलना-"तद्यदि सकलजनस्मरणनिवृत्तिः तदाऽसिद्धा अवधारयितुमशक्यत्वाच्च अर्वाग्भागविद्भिः / अवधारणे वा त एव सर्वज्ञाः स्युः अर्वाग्भागविदो न भवेयुः ।"तत्त्वोप० पृ० 117 / न्यायमं० पृ० 237 / प्रमेयक० पृ० 395 / स्या० र० पृ० 631 / (12) वेदविषये / (13) सर्वसम्बन्धिकञस्मरणस्य / 1-णकत्र्तकत्वं शब्दस्य ब०,-णकर्तृत्वं शब्दस्य आ०। 2 कर्तृत्वभाव-श्र०। 3-त्वात्तस्य ब०। 4 अज्ञानासि-श्र०।