________________ प्रवचनप्र० का०६५] वेदापौरुषेयत्वविचारः 727 सम्प्रदायेन दृष्टा प्रकाशिता वा; तर्हि यावद्भिपाध्यायैः सा दृष्टा प्रकाशिता वा तावतां नामभिः तस्याः किन्नाङ्कितत्वं स्यादविशेषात् ? अथोच्यते-अस्ति यौगादीनां वेदे कर्त्तस्मरणं किन्तु सैविगानं तत्कर्तृविशेषे विप्रतिपत्तेः अतोऽप्रमाणमिति; तदप्युक्तिमात्रम् ; येतः कर्तृविशेषे विप्रतिपत्तेः तद्विशेषस्मरणमेवाप्रमाणं स्यान्न कर्तृमात्रस्मरणम्, अन्यथा कादम्बर्यादीनामपि कर्तृविशेषे 5 विप्रतिपत्तेः कर्त्तमात्रस्मरणस्याप्रमाणत्वेन अस्मर्यमाणकर्तृक त्वस्य तदापि (तत्रापि ) गतत्वादनेकान्तः / अर्थं वेदे कः विशेषे विप्रतिपत्तिवत् कर्तृमात्रेऽपि विप्रतिपत्तेः तन्मात्रस्मरणमप्यप्रमाणे कादम्बर्यादीनां तु कर्तृविशेषे एव विप्रतिपत्तेः तत्प्रमाणमित्यतो नानेकान्तः; नेनु वेदे सौगतादयः कर्तारं स्मरन्ति न मीमांसकाः इत्येवं कर्तृमात्रे विप्रतिपत्तेः यदि तदप्रमाणम् , तर्हि तद्वत् तदस्मरणमप्यप्रमाणं किन्न स्यात् विप्रतिपत्तेरविषेशात् / 10 तथा चायमसिद्धो हेतुः। विरुद्धश्च; स्मर्यमाणकर्तृकत्वाऽस्मर्यमाणकर्तृकत्वयोः कार्यधर्मतया विक्ष एव वर्तमानत्वात् / कार्यमेव हि किश्चित् स्मर्यमाणकर्तृकं दृष्टं घटादि, किञ्चिदस्मर्यमाणकर्तृकं जीर्णकूपादि / ततश्च कृतको वेदः अस्मर्यमाणकर्तृकत्वात् जीर्णकूपादिवत् / 'नेहि नित्यं (1) “समाख्यापि च शाखानां नाद्यप्रवचनादृते / . . . . . 'काठकं कालापकमित्यादयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्यन्ते / ते च न प्रवचनमात्रनिबन्धनाः प्रवक्तृणामनन्तत्वात् / नापि प्रकृष्टवचननिमित्ताः; उपाध्यायेभ्योपि प्रकर्षे प्रत्युतान्यथाकरणदोषात्, तत्पाठानुकरणे च प्रकर्षाभावात् / कति चानादौ संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति ।"-न्यायकूस० 5 / 17 / (2) "येऽपि हि पौरुषेयतां मन्यन्ते तेऽपि नैव परम्परया तत्र कर्तविशेषस्मरणं शक्नवन्ति वदितुम्, सामान्यतोदृष्टेन कर्तारमनुमाय स्वाभिमतं कर्तारं तत्र निक्षिपन्ति-केचिदीश्वरम, अन्ये हिरण्यगर्भम्, अपरे प्रजापतिम् / न चायं नानाविधो विवादः परम्परया कर्तरि मन्वादिवत् स्मर्यमाणे कथञ्चिदवकल्पते / नहि मानवे भारते शाक्यग्रन्थे वा कर्तृविशेष प्रति कश्चिद्विवदते / तस्मात स्मर्तव्यत्वे सत्यस्मरणाद् दृश्यादर्शनबाधितं सामान्यतोदृष्टं न शक्नोति कर्तारमवसाययितुम् / " -शास्त्रदी० पृ० 617 / (3) सविवादम्। (4) रुद्रे-आ० टि०। (5) तुलना-"नन्वेवं कर्तविशेषे विप्रतिपत्तेस्तद्विशेषस्मरणमेवाप्रमाणं स्यात् न कर्तुमात्रस्मरणम्।"-प्रमेयक० पृ० 393 / सन्मति० टी० पृ० 42 / स्या० र० पृ० 630 / शास्त्रवा० यशो० पृ० 384 A. / (6) कादम्ब-दावपि / (7) तुलना-"अथ वेदे कर्तृविशेषे विप्रतिपत्तिवत् कर्तृमात्रेऽपि विप्रतिपत्तेस्तत्स्मरणमप्यप्रमाणम्"."-प्रमेयक० पृ० 393 / सन्मति० टी० 1042 / स्या०र०पू०६३० / (8) कर्तृमात्रस्मरणम् / (9) तुलना-'ननु वेदे सौगतादयः कर्तमानं स्मरन्ति न मीमांसकाः इत्येवं कर्तृमात्रेऽपि विप्रतिपत्तेः यदि कर्तस्मरणं मिथ्या तदा कर्तृस्मरणत् अस्मर्यमाणकर्तृकत्वमपि असत्यं स्याद्विप्रतिपत्तेरविशेषात् तथा च पुनरप्यसिद्धो हेतुः ।"-सन्मति० टी० पृ० 42 / प्रमेयक० पृ० 393 / स्या० र० पृ० 631 / (10) कर्तृमात्रस्मरणम् / (11) कर्तृस्मरणवत् / (12) कञस्मरण / (13) अस्मर्यमाणकर्तकत्वात् / (14) पौरुषेये अनित्ये। (15) तूलना-"नित्यं हि वस्तु न स्मर्यमाणकर्तृक नाप्यस्मर्यमाणकर्तृकं प्रतिपन्नं किन्त्वकर्तृकमेव ।"-प्रमेयक० 50 392 / 1-नां कर्त-ब०। 2-पि विप्र-श्र०। एतदन्तर्गतः पाठो नास्ति श्र०। एतदन्तर्गतः पाठो नास्ति आ० / अथ कर्तृविशेषे विप्रतिपत्ति कर्तमात्रमपि विप्रतिपत्तेः ब० / 4-णमतो ब०।