________________ 724 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० इत्यभिधानात् / वेदे च आत्मनः कर्तृसद्भावावेदके सति कथं तत्प्रवृत्तिः ? “स हि रुद्रं वेदकर्तारम् / " [ ] 'यो ब्रह्माणं विदधाति पूर्व वेदांश्च प्रहिणोति / " [ श्वेताश्व० 6 / 18] "तथा प्रजापतिः सोमं राजानमन्वसृजत , ततः त्रयो वेदाः अन्वसृज्यन्त।" [ ] 1. इत्यादिको वेदः कर्त्तसद्भावावेदकः अनेकधा श्रूयते / स्वरूपासिद्धश्चायं हेतुः; पौराणिका हि वेदस्य ब्रह्मकर्तृत्वं स्मरन्ति “प्रतिमन्वन्तरश्चैव श्रुतिरन्या विधीयते / " [ मत्स्यपु० 145 / 58] "अनन्तरं तु वक्त्रेम्यो वेदास्तस्य विनिःसृताः / ' [ इत्यभिधानात् / यौगा रुद्रकर्तृकत्वम् , जैनाः कालासुरकर्तृकत्वम् / 10 स्मृतिपुराणादिवच्च ऋषिनामाङ्किताः काण्व-माध्यन्दिन-तैत्तिरीयादयः शाखाभेदाः कथमस्मर्थमाणकर्तृकाः ? तथाहि-एताः तत्कृतत्वात् तन्नामभिरङ्किताः, तदृष्टत्वात् , तत्प्रकाशितत्वाद्वा ? तत्राद्यपक्षे कथमासामपौरुषेयत्वम् अस्मर्यमाणकर्तृकत्वं वा स्यात् ? उत्तरपक्षद्वये यदि तावदुत्सन्ना शाखा कण्वादिना दृष्टा प्रकाशिता वा तदा कथमस्याः सम्प्रदायाविच्छेदः अतीन्द्रियार्थदर्शिनः प्रतिक्षेपश्च स्यात् ? अथ अनवच्छिन्नैव सा (1) स्वयमेव वेदस्य / (2) अभावप्रमाणप्रवृत्तिः। (3) उद्धृतोऽयम्-स्या० र० पृ० 630 / रत्नाकराव०४।९। (4) “अपौरुषेयतापीष्टा कर्तृणामस्मृतेः किल / सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तमः / / यस्मादिदं साधनमसिद्धमनैकान्तिकञ्च तत्रासिद्धमधिकृत्याह-तथाहीत्यादि / स्मरन्ति सौगता वेदस्य कर्तनष्टकादीन्, आदिशब्दाद् वामकवामदेवविश्वामित्रप्रभृतीन् / हिरण्यगर्भ ब्रह्माणं वेदस्य कर्तारं स्मरन्ति काणादा वैशेषिकाः ततश्चासिद्धं कर्तुरस्मरणम् ।"-प्रमाणवा० स्वव० टी० 11269 / मनोरथ० 33269 / “असिद्धोप्ययं हेतुः यस्मात्स्मरन्ति एव कर्तारं काणादाः / तथा लौकिका अपि बहुलं वक्तारो भवन्ति ब्रह्मणा वेदाः प्रणीता इति ।"-तत्त्वोप० पृ० 117 / "नवं सर्वनणां कर्तुः स्मृतेरप्रसिद्धितः / तत्कारणं हि काणादाः स्मरन्ति चतुराननम् / जैनाः कालासुरं बौद्धास्त्वष्टकान् सकलाः सदा ॥"-तत्त्वार्थश्लो० पृ० 238 / अष्टसह० पु० 237 / प्रमेयक० पृ० 393 / सन्मति० टी० पृ०४० / स्या० र० पृ० 630 / “यच्चेदमस्मर्यमाणकर्तृकत्वादिति तदसिद्धम् ; प्रजापतिर्वा इदमेक आसीन्नाहरासीन्न रात्रिरासीत् स तपोऽतप्यत तस्मात्तपसश्चत्वारो वेदा अजायन्त इत्याम्नायेनैव कर्तृस्मरणात्, जीर्णकूपादिभिर्व्यभिचाराच्च ।"-प्रश० कन्द० पृ० 216 / "कपिल. कणादगौतमैतच्छिष्यैश्चाद्यपर्यन्तं वेदे सकर्तृकत्वस्मरणस्य प्रतीयमानत्वात् ।"-तत्त्वचि० शब्द० प० 371 / (5) उद्धृतोऽयम्-न्यायमं० पृ० 236 / प्रेमयक० पृ०३९२। स्या० र० पृ० 630 / न्यायपरि० पृ० 383 // तत्त्वचि० शब्द० पृ० 373 / (6) तुलना-"सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियमसन्दर्शनात् / फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनाम्, श्रुतेश्च मनुसूत्रवत्पुरुषकर्तृकैव श्रुतिः॥"-पात्रके० श्लो०१४। प्रमेयक०पृ०३९२ / स्या० र० पृ० 630 / प्रमेयर० 3199 / (7) काण्वमाध्यन्दिनतैत्तिरीयादयः शाखाः / तुलना-"एतास्तत्कृतत्वात्तन्नामभिरङ्कितास्तदृष्टत्वात् तत्प्रकाशितत्वाद्वा।"-प्रमेयक० पृ० 392 / स्या० र० पृ० 630 / रत्नाकराव० 4 / 9 / (8) विशीर्णा विस्मता वा। (9) शाखायाः / 1 कर्तृत्वम-ब०, श्र० / 2-कर्तृत्वम् ब०,१०। 3-वच्छिन्ना आ० /