________________ प्रवचनप्र० का०६५] वेदापौरुषेयत्वविचारः 725 15 अथ साश्रयोऽसौ प्रसाध्यते; ननु कोऽस्य आश्रयः-स्वात्मा, सर्वप्रमातारो वा ? यदि स्वात्मा 'अमुष्मिन्मदीय आत्मनि वेदकर्तृस्मरणं नास्ति' इति; किमेतावता सिद्धम् ? पदार्थजातस्य अनेकस्य अत्रै स्मरणं नास्ति, न चैतावता तस्याभावः सिद्ध्यति / ममानुष्ठातुरवश्यं स्मर्त्तव्योऽसौं, यदा स्मृतिपथप्रस्थायी न भवति तदाऽसन् ; इत्यप्यसारम्; भवत्स्मरणाभावमात्रेण अर्थाभावाऽसिद्धेः / तस्य॑ स्वयं निहितेऽवश्यं स्मर्त्तव्ये कचिद् / द्रव्यादौ विद्यमानेऽपि सद्भावेन अनेकान्तात् / तथा व्याधितेन उपयुज्यमानमौषधं स्वयं धृतं महत्यामप्यर्थितायां न स्मर्यते, नचैतावता तस्याऽभावः इत्यनेन चाऽनेकान्तः / अथ सर्वप्रमातारः; ननु त्रैलोक्योदरवर्तिनः प्रमातारो वेदकर्तारं न स्मरन्ति' इत्यसर्वविदो वेदनानुपपत्तिः / उपपत्तौ वा सर्ववेदित्वप्रसङ्गः / किच, सर्वप्रमातृदेशान् गत्वा तांश्च पृष्ट्वा तत्र स्मरणाभावः प्रतीयेत, अन्यथा 10 वा ? न तावदन्यथा; “गता गत्वा तु तान् देशान्' [मी० श्लो० अर्था० श्लो० 38] इत्यस्य विरोधानुषङ्गात् / गत्वा चेत् ; ननु तंत्र तेषु पृष्टेषु 'न स्मरामः' इति प्रतिवचनश्च ब्रुवाणेष्वपि कः समाश्वासः पुरुषवचसामप्रामाण्येन अर्थतथाभावानुपपत्तेः ? न च सर्वेषामाप्तताप्रतिपत्तिरस्ति, यतः तद्गुणसंक्रान्त्या तंत्र प्रामाण्यं स्यात् ; तत्प्रतिपत्तेरेव असर्वविदो युगपत्क्रमेण वाऽसंभवात् / . किञ्च, अभावप्रमाणस्य तत्र प्रवृत्तिः यत्र वस्तुसत्तावबोधकं प्रमाणपश्चकं न प्रवर्तते। "प्रमाणपश्चकं यत्र वस्तुरूपे न जायते / . . . वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता // " [मी० श्लो० अभाव० श्लो०१] (1) कर्तस्मरणाभावस्य / “अपि च किमशेषजनस्मरणनिवृत्तिरिह हेतुत्वेन विवक्षिता, आहोस्वित् कतिपयपुरुषस्मरणविनिवृत्तिः। तद्यदि सकलजनस्मरणविनिवृत्तिः; तदाऽसिद्धा; अवधारयितुमशक्यत्वाच्चाग्भिागविभिः / अवधारणे वा त एव सर्वज्ञाः स्युः अग्भिागविदो न भवेयुः / अथ कतिपयपुरुषापेक्षया; तदाऽनकान्तिको हेतुः, विद्यमानकर्तृकेष्वपि कर्ता न स्मर्यते कैश्चित्।"-तत्त्वोप० पृ० 117 / “आश्रयश्चास्य स्वात्मा सर्वेप्रमातारो वा"-स्या० र० पृ० 629 / (2) मदीय आत्मनि / (3) “ममानुष्ठाने स्मर्तव्योऽसौ"-स्या० र० पृ० 629 / (4) वेदकर्ता / (5) “एवं तहि पितामहस्य पितरं मातामहीमातरम्, तन्मातापितरौ च न स्मरति तत्तेषामभावो भवेत् ।"-स्या० 2010 629 / (6) भवत्स्मरणाभावस्य (7) स्वयं धृतौषधादिद्र व्यस्य / (8) ननु इति निश्चयार्थे / तुलना"सर्वे पुमांसः कर्तारं वेदस्य न स्मरन्ति इति कथं जानाति भवान् / न हि तव सकललोकहृदयानि प्रत्यक्षाणि सर्वज्ञत्वप्रसङ्गात् / न च यत् त्वं न जानाति तदन्योऽपि न जानातीति युक्तमतिप्रसङ्गात् / " -न्यायमं० पु० 237 / स्था० र० पृ० 630 / (9) तुलना-'अपि च सर्वप्रमातृदेशान् गत्वा तांश्च पृष्ट्वा तत्र कर्तस्मरणाभावः प्रतीयेतान्यथा वा ?"-स्या०र०पृ०६३० / (10) सर्वप्रमातृन् / (11) “गत्वा गत्वा तु तान्देशान् यद्यर्थो नोपलभ्यते / ततोऽन्यकारणाभावादसन्नित्यवगम्यते ।।"-मी० श्लो० / उद्धृतोऽयम्-प्रमेयक० पृ० 22 / सन्मति० टी० पृ० 23,321 / (12) देशान्तरे / (13) सर्वप्रमातष / (14) तैरुक्ते 'न स्मरामः' इति प्रतिवचने / (15) द्रष्टव्यम्-पृ० 464 टि०४। 1 वाने-आ०। 2 सर्वत्रप्रमा-श्र०। 3 तत्र स्मरं न स्मरन्तीत्यसर्वविदो वेदनानु गत्वा गत्वा आ०। 4 प्रतीयते ब०। 5 सद्भाव-ब०।