________________ 15 724 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० वेदे आप्तानाप्तप्रणीतत्वाभावान्न प्रामाण्यमप्रामाण्यं वा; इत्यप्यसुन्दरम् ; यंत्र हि पुरुषकृता पदानुपूर्वी तत्र तदपेक्षं प्रामाण्यमप्रामाण्यं वा स्यात्, वेदानुपूर्यास्तु नित्यत्वात् स्वसामर्थेनैवार्थावबोधकत्वात् तन्निरपेक्षं प्रामाण्यम् / नहि तादृशीमानुपूर्वी कश्चित् कत्तुं क्षमः अन्यत्राऽभिव्यक्तेः / पूर्वसिद्धानुऽपूर्वीतोऽपूर्वानुपूर्वीकरणे च कस्यचित् स्वातन्त्र्यासंभवात् / कुर्वाणो वा ती तदध्येतृभिः अन्यैर्वा निवार्येत / उक्तश्च"अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणा / " [मी० श्लो० चोदनासू० श्लो० 150] इति / अत्र प्रतिविधीयते। यत्तावदुक्तम्-'कर्तुः स्मरणयोग्यत्वे सति अस्मर्यमाणकर्तृकत्वात्' वेदाऽपौरुषयेत्वस्य इत्यादि; तदसमीचीनम् ; यतः किमिदम् अस्मर्यमाणकर्तृकत्वन्नाम प्रतिविधानम्- किं कर्तृस्मरणाभावः, अकर्तृकत्वं वा ? प्रथमपक्षे व्यधिकरणासिद्धो 10 हेतुः; कर्तृस्मरणाभावो हि आत्मनि वर्त्तते अपौरुषेयत्वं तु वेदे इति / अज्ञातासिद्धश्च; तद्ग्राहकप्रमाणावात् / नहि प्रत्यक्षं तद्ग्राहकम् ; प्रतिनियतरूपादिगोचरचारितया अभावे तस्य प्रवृत्त्यसंभवात् / संभवे वा अभावप्रमाणकल्पनाऽनर्थक्यम् तत्साध्यस्य अध्यक्षादित एव प्रसिद्धेः। अभावप्रमाणात्तत्सिद्धौ तु तत्र तदुत्पत्तौ कारणं वाच्यम् , 'निष्कारणस्य कार्यस्योदयानुपपत्तेः।। “हीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् / मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया // ' [ मी० श्लो० अभाव० श्लो० 27 ] इति तत्कारणमस्तीति चेत् ; ननु अतः प्रादुर्भूतमभावप्रमाणं तदभावं निराश्रयम्, साश्रयं वा प्रसाधयेत् ? न तावन्निराश्रयम् ; 'गृहीत्वा वस्तुसद्भावम्' इत्यभिधानात् / अनेन हि निषेध्याधारवस्तुग्रहणमभिदधता भट्टेन 'निषेध्याभावाश्रयः सूचित एव, अन्यथा प्रति20 नियतवृत्तितया कर्तृस्मरणाभावसिद्धिः ततोऽतिदुर्लभा। यन्निराश्रयं न तत् प्रतिनियतवृत्ति यथा आकाशम् , निराश्रयश्च भवद्भिरभिप्रेतोऽभावप्रमाणात्प्रसिद्ध्यन् कर्त्तस्मरणाभाव इति / (1) “पौरुषेये तु वचने प्रमाणान्तरमूलता / तदभावे हि तद् दुष्येदितरन्न कदाचन ॥"-मी० श्लो० चोदना० श्लो०७१ / (2) पुरुषगुणनिरपेक्षम्। (3) पूर्वानुपूर्वीतो विलक्षणा आनुपूर्वी। (4) विलक्षणां शब्दानुपूर्वीम् / (5) 'निवारणम्'-मी० श्लो० / प्रकृतपाठः-स्या० र० पृ० 628 / (6) पृ०७२१५०५। (7) तुलना-"किमिदं कर्तृरस्मरणं नाम कर्तृस्मरणाभावः अस्मर्यमाणकर्तृकत्वं वा?" -प्रमेयक० पृ०३९२। (8) "अपौरुषेयो वेदः कञस्मरणात् इत्येवं प्रयोगे हेतोळधिकरणत्वदोषात् / " -सन्मति० टी० पृ० 41 / (9) "तत्रास्मर्यमाणकर्तृकत्वमसिद्धम् ; तद्ग्राहकप्रमाणाभावात् ।"स्या० र० पृ० 629 / (10) अभावप्रमाणेन क्रियमाणस्य अभावज्ञानस्य / (11) कर्तृस्मरणाभावसिद्धौ / (12) अभावप्रमाणोत्पत्तौ। (13) द्रष्टव्यम्-पृ०४६४टि०१। (14) कर्तृस्मरणाभावम् / "नन्वतःप्रादुर्भूतमभावप्रमाणं तदभावं साश्रयमेव प्रसाधयेत् गृहीत्वा वस्तुसद्भावमित्यभिधानात् ।"स्या० 20 पु० 629 / (15) गृहीत्वा वस्तुसद्भावमिति श्लोकांशेन। (16) निषेध्यस्य यः अभावः तस्य आश्रयः। (17) अभावप्रमाणात् / 1-नवावबोध-ब०। 2-त्वान्निरपे-ब०। 3-त्रापि व्यक्तेः आ० / 4 पूर्व सि-ब०। 5 अन्यनिवा-आ। 6 बहुभिः श्र०। निःका-आ०। 8 निषेध्याश्रयः ब०।