________________ 722 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० तच्छास्त्रकर्तारमनुस्मरन्ति यथा अष्टकाद्यर्थानुष्ठानार्थिनः तत्प्रणेतारं मनुम्, वेदविहितार्थानुष्ठाने बहुवित्तव्ययायाससाध्याऽग्निष्टोमादिकर्मलक्षणे प्रवर्त्तन्ते च प्रेक्षापूर्वकारिणः, अतस्तेषां महती तत्कर्तृस्मरणापेक्षा / तेहि अदृष्टफलेषु कर्मसु एवं निःसंशयाः प्रवर्ते रन् यदि तेषां तद्विषयः सत्यतानिश्चयः स्यात् / न चासौ तदुपदेष्टुः स्मरणाभावे घटते 5 पित्राद्युपदेशवत् / यथैव हि पित्रादिकमुपदेष्टारं स्मृत्वा स्वयमदृष्टफलेष्वषि कर्मसु तदुप देशात् 'पित्रादिभिरेतदुपदिष्टं तेनाऽनुष्ठीयते' इति, एवं वैदिकेष्वपि कर्मसु अनुष्ठीयमानेषु कर्तुः स्मरणं स्यात् / न चाभियुक्तानामपि वेदार्थानुष्ठातृणां त्रैवर्णिकानां तत्स्मरणमस्ति, अतोऽसौ तत्र नास्तीति निश्चीयते / छिन्नमूलत्वाच्च तंत्र कर्तृस्मरणाभावः / स्मरणस्य हि अनुभवो मूलम् , न चासो 10 वेदे कर्तृविषयत्वेन विद्यते तत्कथं तत्स्मरणसंभावनाशङ्काऽपि ? न च रचनावत्त्वेन अत्र भारतादिवत् कर्तृसद्भावप्रसिद्धर्नास्य छिन्नमूलत्वमित्यभिधातव्यम् ; वेदरचनायाः कर्तृपूर्वकरचनाविलक्षणत्वात् / न च रचनामात्रस्यात्रोपलम्भात् कर्बनुमानं युक्तम् ; जगतो बुद्धिमद्धेतुकत्वानुमानानुषङ्गतोऽनिष्टसिद्धिप्रसङ्गात् / अतो यादृशी रचना कन्वयव्यतिरेकानुविधायिनी प्रतिपन्ना तादृश्येव परिदृश्यमाना कर्तारमनुमापयति इत्यभ्युपगन्तव्यम् / तत्कथं वेदे ततः कनुमानशङ्काऽपि संभाव्यते ? अतो वैदिकी रचना अपौरुषेयी दृष्टकर्तृकरचनाविलक्षणत्वात् आकाशवदिति / तथा "वेदाध्येयनं सर्व गुर्वध्ययनपूर्वकम् / वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा // "[ मी० श्लो० वाक्याधि० श्लो० 366 ] (1) कर्तारः / आग्रहायण्या ऊर्ध्वं कृष्णाष्टमीषु तिसृषु क्रियमाणः पितृश्राद्धविशेषः / तथा च मनुवचनम्-''पितंश्चैवाष्टकास्वर्चेत्"-मनुस्मति०४।१५०। (2) अनुभवः। (3) “विप्लवते खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्ययः, न तु वेदवचनस्य मिथ्यात्वे किञ्चन प्रमाणमस्ति। ननु सामान्यतो दृष्टं पौरुषं वचनं वितथमुपलभ्य वचनसाम्यादिदमपि वितथमवगम्यते; न; अन्यत्वात्। न ह्यन्यस्य वितथभावे अन्यस्य वैतथ्यं भवितुमर्हति अन्यत्वादेव / न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुमर्हति।" -शाबरभा० 13122 / “वाक्यत्वात् पौरुषेयत्वं दृश्यादर्शनबाधितम् / प्रतिहेतुविरुद्धश्च हेतुः तस्मादकत्रिमाः ॥"-शास्त्रदी०१०६१५। "प्रकृष्टं हि वचनं कस्यचिदेव कुत्रचिदेव तावत्संघात्मकत्वं न पौरुषेयतामनुमापयितुमलम् वेदार्थविषयवाक्यरचनासामर्थ्यानुपपत्तेः “य एव हि पदसंघाताः पौरुषेयैः विरचयितुं शक्यन्ते तत्रैव पौरुषेयत्वं दृष्टमित्य शक्यविरचनेषु पौरुषेयत्वानुमानं न क्रमते। न च पौरुषेयत्वं विना पदसंघातात्मकतैव नोपपद्यते; उच्चारणवशेन हि पदानि संहततामापद्यन्ते।"-प्रक० पं० पृ० 98-99 / तन्त्ररह० पृ० 43 / (4) रचनामात्रात् / (5) "उक्तं तु शब्दपूर्वत्वम् / उक्तमस्माभिः शब्दपूर्वत्वमध्येतृणाम् ।"-जैमिनिसू०, शाबरभा० 111330 / "वेदस्य कर्तुरस्मरणम्, वेदार्थस्यातीन्द्रियत्वमित्येवमादिहेतुभिरध्येतृणामनादिप्रवृत्तानां शब्दपूर्व उच्चारणान्तरपूर्वो वेदो न केनचिच्चिन्तयित्वा प्रवर्तित इति अकृतकत्वहेतोरुक्तत्वात्"-मीमांसाभा०प०१०७८ / “सप्रतिसाधनश्च वाक्यत्वात् इति / विवादाध्यासितं वेदाध्ययनं गर्वध्ययनपूर्वकं वेदाध्ययनत्वादद्यतनाध्ययनवदिति / तदिदमाह सूत्र कार:-'उक्तं तु शब्दपूर्व 1 तत्कर्तः स्मरणा-ब०। 2-सत्कर्बन-श्र०।