________________ प्रवचनप्र० का०६५] वेदापौरुषेयत्वविचारः 721 किञ्च, अनादिसत्त्वस्वरूपमपौरुषेयत्वम्, तत्कथम् अक्षप्रभवप्रत्यक्षपरिच्छेद्यम् ? अक्षाणां प्रतिनियतरूपादिगोचरचारितया अनादिकालेनाऽसम्बन्धात् तत्कालसम्बद्धसत्त्वेनाप्यसम्बन्धतः तैज्ज्ञानाऽहेतुत्वात् / ननु मा भूत् प्रत्यक्षतस्तदपौरुषेयत्वसिद्धिः, अनुमानात्तु सा भविष्यति / तच्चावेदस्य अपौरुषेयत्व- नुमानम्-अपौरुषेयो वेदः कर्तुः स्मरणयोग्यत्वे सति अस्मर्यमाण- 5 मुररीकुर्वतां मीमांस- कर्तृकत्वाद् व्योमवत्। न चायमसिद्धः; वेदकर्तुः कदाचित् केनचित् कानां पूर्वपक्षः- स्मरणाभावात् / सतश्चास्य तदर्थानुष्टानसमये अनुष्ठातृणामनिश्चितप्रामाण्यानां तत्प्रामाण्यप्रसिद्धये स्मरणं स्यात् / ये हि यदर्थानुष्ठाने प्रवर्त्तन्ते ते अवश्य (1) तुलना-"अनादिसत्त्वरूपञ्च अपौरुषेयत्वं कथमक्षप्रभवप्रत्यक्षपरिच्छेद्यम् .."-प्रमेयक० 103913 (2) अनादिकाल / (3) अनादिसत्त्वरूपाऽपौरुषेयत्वज्ञानाकारणत्वात् / (4) "अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति। कथं पुनरिदमवगम्यत अपौरुषेय एव सम्बन्ध इति ? पुरुषस्य सम्बन्धरभावात / कथं सम्बन्धा नास्ति ? प्रत्यक्षस्य प्रमाणस्याभावात् तत्पूर्वकत्वाच्चेतरेषाम् / नन चिरवृत्तत्वात्प्रत्यक्षस्याविषयो भवेदिदानीन्तनानाम् / न हि चिरवृत्तः सन्न स्मर्येत / न च हिमवदादिषु कूपारामादिवदस्मरणं भवितुमर्हति, पुरुषवियोगो हि तेषु भवति देशोत्सादेन कुलोत्सादेन वा / न च शब्दार्थवियोगः पुरुषाणामस्ति / स्यादेतत्-सम्बन्धमात्रव्यवहारिणो निष्प्रयोजनं कर्तृस्मरणमनाद्रियमाणा विस्मरेयुरिति; तन्न; यदि हि पुरुषः कृत्वा सम्बन्धं व्यवहारयेत् व्यवहारकाले अवश्यं स्मर्तव्यो भवति / संप्रतिपत्तौ हि कर्तृव्यवहोरर्थः सिद्धयति न विप्रतिपत्तौ। न हि वृद्धिशब्देन अपाणिने~वहरत: आदैच: प्रतीयेरन् पाणिनिकृतिमननुमन्यमानस्य वा। तथा मकारेण अपिङ्गलस्य न सर्वगुरुस्त्रिक: प्रतीयेत पिङ्गलकृतिमननुमन्यमानस्य वा। तेन कर्तृव्यवहारौ सम्प्रतिपद्यते / तेन वेदे व्यवहरद्भिरवश्यं स्मरणीयः सम्बन्धस्य कर्ता स्यात् व्यवहारस्य च / " तस्मात् कारणादवगच्छामो न कृत्वा सम्बन्धं व्यवहारार्थ केनचिद्वेदाः प्रणीता इति / ..."तस्मादपौरुषेयः शब्दस्य अर्थेन सम्बन्धः।" -शाबरभा०२१।५। पृ० 53 / बहती० 10 177 / “यदा चाप्तप्रणीतत्वाच्छब्दोऽयं प्रतिपादयेत् / न स्वशक्त्या तदाप्तत्वं मितौ न स्मर्यते कथम् // यदा हि कश्चित् पदपदार्थसम्बन्धं कृत्वा धर्माधर्मप्रतिपादनाय वेदवाक्यानि कृतवान तदाऽवश्यमसौ सम्बन्धस्य कर्ता. स एव च तैः पदैः वेदवाक्यरचनात्मक व्यवहारं करोतीति समयव्यवहारयोरेककर्तत्वं प्रतिपतृभिः स्मर्तव्यम्, तथा च वाक्यादर्थ प्रतिपद्यमानानामवश्यं वाक्यकर्तराप्तत्वं प्रतिपतभिः स्मतर्व्यम्, तदधीनत्वादर्थनिश्चयस्य, न वेदादर्थं प्रतिपद्यमानाः समयकर्तारं तेन सह वेदकर्तुरेकत्वं तस्य चाप्तत्वं स्मरन्तो दृश्यन्त इति / "दृष्टे भवतु मा वाभूत् कर्तृसंप्रतिपन्नता। वैदिको व्यवहारस्तु न कर्तृस्मरणादृते // एवं गामानयेत्येवमादिषु मा नाम समयकर्तुः व्यवहारकर्तुश्च संप्रतिपत्तिर्भूत, वेदेऽपि प्रतिपत्तिमात्रं विनाऽपि संप्रतिपत्त्या सिद्धयतु नाम / व्यवहारस्त योऽग्निहोत्राद्यनष्ठानात्मकः सोऽदष्टार्थो वाक्यकप्रमाणको नाऽसति वाक्यकाराप्तस्मरणे सिद्धयेत्, तदवश्यंस्मर्तव्यस्य वेदानां सम्बन्धानाञ्च कर्तुरस्मरणात् योग्यानुपलम्भनादभावेऽवधारिते सिद्धं वेदानां सम्बन्धानाञ्च नित्यत्वमित्याह-दष्ट इति ।"-मी० श्लो० न्यायर०, सम्बन्धा० श्लो० 123, 130 / "कथं पुनरपौरुषेयत्वं वेदानाम् ? पुरुषस्य कर्तुरस्मणात् ।"-प्रक० पं० पृ० 140 / "कर्तुरस्मरणाच्चापौरुषेयत्वम्"-भाद्रवी०प० 33 / नयवि०५० 279 / "स्मर्तव्यत्वे सत्यस्मरणाद् योग्यानुपलब्धिनिरस्तस्य कर्तरनमानासंभवात समाख्यायाश्च प्रवचननिमित्तत्वादपौरुषेया वेदा इति ।"-शास्त्रधी० ए० 69,616 / (5) वेदकर्तुः। (6) अग्निष्टोमादियज्ञानुष्ठानकाले / 1 तत्र ज्ञाना-आ०, ब०। 2 कदाचित्कत्वेन चित् श्र० / 41