________________ 720 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० विधायित्वात् , यदित्थं तदित्थं यथा घटः, तथा च शब्दः, तस्मात्तथेति / नचेदमप्यसिद्धम् ; ताल्वादिकारणव्यापारे सत्येव अस्यात्मलाभोपलम्भात् तदभावे चानुपलम्भात् मृद्दण्डादिकारणव्यापारभावाभावयोः घटस्य आत्मलाभाऽलाभोपलम्भवत् / न च तव्या पारे तदभिव्यक्तेरेव आत्मलाभो न शब्दस्य इत्यभिधातव्यम् ; तस्याः प्रागेव प्रपञ्चतोऽ5 पास्तत्वादिति ॥छ। तदेवं वर्णानां पौरुषेयत्वप्रसिद्धौ पदवाक्यानामनायासतः तत्प्रसिद्ध्यति तदात्मकत्वात्तेषाम्। नन्वस्तु लौकिकानां तेषां तैत्सिद्धिः न वैदिकानामिति चेत् ; न; तदत्यन्तवैलक्षण्याप्रतीतेः। “य एव हि लौकिका: शब्दाः त एव वैदिकाः"[शाबरभा०१॥३॥३०] इत्यभ्युपगमव्याघातप्रसङ्गाच्च / तदपौरुषेयत्वप्रसाधकप्रमाणाभावाच्च; न च तदभावोऽ10 सिद्धः; यतः तत्प्रसाधकं प्रमाणं प्रत्यक्षम् , अन्यद्वा भवेत् ? न तावत्प्रत्यक्षम् ; तस्य शब्दस्वरूपमात्रग्रहणे चरितार्थत्वेन तत्पौरुषेयत्वाऽपौरुषेयत्वग्राहकत्वाऽसंभवात् / क्तिकारणमित्यत आह-ऐन्द्रियकत्वात् इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः / किमयं व्यज्जकेन समानदेशोडभिव्यज्यते रूपादिवत्, अथ संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यत इति ? संयोगनिवृत्तौ शब्दग्रहणान्न व्यञ्जकेन समानदेशस्य ग्रहणम् / दारुवश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते, न च व्यञ्जकाभावे व्यङ् ग्यग्रहणं भवति तस्मान्न व्यञ्जक: संयोगः 'इतश्च शब्द उत्पद्यते नाभिव्यज्यते कृतकवदुपचारात् / तीव्र मन्दमिति कृतकमुपचर्यते तीव्र सुखं मन्दं सुखं तीव्र दुःखं मन्दं दुःखमिति, उपचर्यते च तीव्रः शब्दो मन्दः शब्दः इति ।"-न्यायसू०, भा० 2 / 2 / 13 / “अनित्यः शब्दः तीव्रमन्दविषयत्वात् दुःखवदिति कृतकवदुपचारादित्यनेन सूत्रेण सर्वानित्यत्वसाधनवर्गसंग्रहः / कृतकत्वग्रहणस्य उदाहरणार्थत्वात् / यथा सामान्यविशेषवतोऽस्मदादिबाह्यकरणप्रत्यक्षत्वात्, उपलभ्यस्य अनुपलब्धिकारणाभावे सत्यनुपलब्धेः, गुणस्य सतोऽस्मदादिबाह्यकरणप्रत्यक्षत्वात् इत्येवमादि ।"-न्यायवा० पृ० 290 / “तदेवन्तीवादिभेदभिन्नत्वात्सुखादिवदनित्यत्वं शब्दानाम् / व्यञ्जकानुपलब्धी चाभूत्वा भवनस्योपलब्धेः कार्यत्वादनित्यत्वं घटादिवत् / तथा परमात्मगुणान्यत्वे सति व्यापकविशेषगुणत्वात् सुखादिवत् ।"-प्रश० व्यो० पृ०६४९ / "अतो यत्नजनितवर्णाद्यात्मा श्रवणमध्यस्वभावः प्राक् पश्चादपि पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः।"-अष्टश०, अष्टसह. प०१०८। “परिणामी शब्द: वस्तुत्वान्यथानुपपत्तेः।"-तत्त्वार्थश्लो० 106 / “अनित्यः शब्द: तीवमन्दतादिधर्मोपेतत्वात् सुखदुःखादिवत्"-रत्नाकराव० 4 / 9 / "तस्माद्वर्णो न नित्योऽनित्यो वा सत्त्वे सत्युत्पत्तिमत्त्वात्, अस्मदादिबहिरिन्द्रियग्राह्यत्वे सति जातिमत्त्वात्, अस्मदादिप्रत्यक्षगुणत्वाद्वा, आत्मैकत्वप्रत्यक्षत्वपक्षे प्रत्यक्षविशेषगुणत्वात्, व्यापकसमवेतप्रत्यक्षविशेषगुणत्वात्, अनात्मप्रत्यक्षगुणत्वात्, अव्याप्यवृत्तित्वात्, "बहिरिन्द्रियव्यवस्थाहेतुगुणत्वात्, भूतप्रत्यक्षगुणत्वात्, उत्कर्षापकर्षशब्दप्रवृत्तिनिमित्तजातिमत्त्वाद्वेत्यादि।"-तत्वचि० शब्द०१० 460 / (1) शब्दस्य / (2) ताल्वादिव्यापारे / (3) वर्णात्मकत्वात्पदवाक्यानाम् / तुलना-“यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्वादिविशिष्टवर्णसमूहरूपाणां पदानां कुतस्तराञ्च तत्समूहरूपस्य वाक्यस्य कुतस्तमाञ्च तत्समूहस्य वेदस्येति"-तत्त्वचि० शब्द० पृ०४६४। (4) पदवाक्यानाम् / (5) पौरुषेयत्वसिद्धिः / (6) तयोः लौकिकवैदिकपदवाक्ययोः / (7) उद्धृतमिदम्-सन्मति० टी० पृ० 39 / तौतातित० पृ० 134 / भादृचि० पृ० 41 / 1 तथा शब्दः श्र०।