________________ प्रवचनप्र० का 065 ] शब्दनित्यत्ववादः 716 गमकत्वमुच्येत ? अथ तद्भेदस्य प्रमाणसिद्धत्वात् 'धूमो धूमः' इत्यसन्दिग्धाऽबाध्यमानाऽनुगतप्रतीतिदर्शनात् अस्ति तत्र तत् ; तदेतदन्यत्रापि समानम्। ननु शब्दव्यक्तीनां प्रत्यक्षतो भेदप्रसिद्धेः तत्र इष्टमेव शब्दत्वसामान्यम् , गादीनां तु एकैकव्यक्तिकत्वेन भेदाभावान्न तत्र गत्वादिसामान्यं संभवतीति तैत्र तस्य वाचकत्वाभावः; तदप्यसाम्प्रतम् ; तेषामपि उदात्तादिभेदतो नानाव्यक्तिकत्वसंभवाद् गत्वादिसामान्यसद्भावोपपत्तेः। 5 'ध्वनिधर्मा एव उदात्तादयः' इति च मनोरथमात्रम् ; तेषों तद्धर्मत्वस्य प्रागेव कृतोत्तरत्वात् / ततोऽनित्यपक्षेऽपि इत्थं शब्दादर्थप्रतिपत्तेरुपपत्तेः नार्थापत्तितोऽपि तन्नित्यत्वसिद्धिः / अतोऽयुक्तमुक्तम्-“अर्थापत्तिरियं चोक्ता' [ मी० श्लो०] इत्यादि / प्रसाधितश्च नित्यसम्बन्धपरीक्षावसरे अनित्यत्व एव शब्दस्य वाचकत्वमित्यलमतिप्रसङ्गेन। ___यच्चान्यदुक्तम्-'सादृश्यस्य विचार्यमाणस्यानुपपत्तेः' इत्यादि; तदप्यनल्पतमो- 10 विलसितम् ; तस्य आबालमबाधप्रतीतिगोचरचारितया अपह्रोतुमशक्यत्वात् / एकस्य हि स्वसामग्रीतो यादृशः परिणामः तादृश एवापरस्य सादृश्यं यमलकवत्। तच्च व्यक्तिभ्यो भिन्नमभिन्नञ्च सामान्यपरीक्षाप्रघट्ट के सप्रपञ्चं प्रपञ्चितमिति कृतं पुनः प्रसङ्गेन / ततो यद् यद्रूपतया कुतश्चिदपि प्रमाणान्न प्रतीयते न तत्तद्रूपतयाऽभ्युपगन्तव्यम् यथा * जगद् अद्वैतरूपतया, सर्वथा नित्यस्वभावतया न प्रतीयते च कुंतश्चित्प्रमाणात् शब्द 15 इति / तदनित्यस्वभावतायां तु प्रमाणसद्भावात् तद्रूपतयाऽसौ अभ्युपगन्तव्यः / तच्च प्रमाणम्-अनित्यः शब्दः कृतकत्वात्, यत्कृतकं तदनित्यं दृष्टं यथा घटः, कृतकश्चायमिति / न चेदमसिद्धम् ; तथाहि-कृतकः शब्दः, कारणान्वयव्यतिरेकानु (1) महानसीयपर्वतीयादिभेदेन धूमव्यक्तीनामनेकत्वादस्ति तत्रानुगतं धूमत्वाख्यं सामान्यम्, गादिशब्दस्तु एकः अतः कथं तत्र शब्दत्वम् व्यक्तेरभेदस्य जातिबाधकत्वादित्याशयेन शङ्कते अथेति / (2) धूमत्वाख्यं सामान्यम् / (3) गत्वादौ। (4) गादीव्यक्तीनामपि / (5) उदात्तादीनाम् / (6) 10 70259 / (7) तुलना-“स्वहेतोरेकस्य हि यादृशः परिणामः तादृश एवापरस्य सादृश्यं न तु स एव / स च व्यक्तिभ्यो भिन्नोऽभिन्नश्च ।”-प्रमेयक० पृ० 411 / (8) पृ० 289 / (9) तुलना-"नित्यत्वेऽपि शब्दानां सर्वेषां स्यात् सकृच्छ्र तिः / समाक्षग्रहयोग्यत्वात् व्यापिनां समवस्थितेः॥ तत्कृतमुपकारमात्मसात्कुर्वतः तद्देशवृत्तिनियमात् कूटस्थस्य न संभवति / सर्वगतत्वेऽपि विवक्षितैकशब्दश्रुतिर्न स्यात् ।"सिद्धिवि०प०५५४ / “स्वतन्त्रत्वे तु शब्दानां प्रयासोऽनर्थको भवेत् / व्यक्तयावरणविच्छेदसंस्कारादिविरोधतः // वंशादिस्वरधारायां संकुलं प्रतिपत्तितः / क्रमेणाशुग्रहेऽयुक्तः सकृद्ग्रहणविभूमः / ताल्वादिसन्निधानेन शब्दोऽयं यदि जायते। को दोषो येन नित्यत्वं कुतश्चिदवकल्प्यते ॥"-न्यायवि०का०४२२२४। (१०)तुलना-"अनित्य: शब्दः इत्युत्तरम् / कथम् ? 'आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च / / आदियोंनिः कारणम् आदीयते अस्मादिति / कारणवदनित्यं दृष्टम्। संयोगविभागजश्च शब्दः कारणवत्वादनित्य इति / का पुनरियमर्थदेशना कारणवत्त्वादिति ? उत्पत्तिधर्मकत्वादनित्यः शब्दः इति, भत्वा न भवति विनाशधर्मक इति / सांशयिकमेतत्-किमुत्पत्तिकारणं संयोगविभागौ शब्दस्य आहोस्विदभिव्य _1 भेदसिद्धेः श्र० / 2-कत्वे भेदा-आ०। 3 यथा च जगद् श्र०। 4 नित्यत्वस्व-श्र०। 5 कुतश्चेतिप्रमा-श्र०। 6-त्यं यथा ब०।