________________ 718 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० चेष्टायाः सम्बन्धबलेन अर्थबोधकत्वेऽपि तादात्विकनिमित्तत्वसंभवात् / ततोऽयुक्तमेतत् "कञ्चित्कालं स्थिरः शब्दः सर्वकालमपि स्थिरः / विनाशहेतुशून्यत्वात् सामान्याकाशकालवत् // ' [ ] इति; यतः कश्चित्कालावस्थायित्वं किम् उपलम्भकालावस्थायित्वमभिप्रेतम् , अतीतवर्तमान5 कालावस्थायित्वं वा ? प्रथमपक्षे चेष्टाया विद्युदादेश्च सर्वकालमपि स्थायित्वप्रसङ्गः, तथाविधकियत्कालस्थिरत्वस्य तत्राप्यविशेषात् / अतीतवर्तमानकालावस्थायित्वश्चास्य न कुतश्चित् सिद्ध्यति इत्युक्तं प्रागेव / हेतुश्चात्रासिद्धः; शब्दस्य कादाचित्कतया विनाशहेतुशून्यत्वानुपपत्तेः। यत् कादाचित्कं न तत् विनाशहेतुशून्यम् यथा विद्युदादि, कादाचित्कश्च शब्द इति / यदपि-विवादाध्यासितः कालो गादिशब्दशून्यो न भवति' इत्याद्युक्तम् ; तदपि विद्युदादौ समानत्वादयुक्तम् / तथाहि-विवादाध्यासितः कालो विद्युदादिशून्यो न भवति कालत्वात् तत्सत्त्वोपेतकालवत् / प्रत्यक्षबाधनम् उभयत्र तुल्यम् / .. यदप्युक्तम्-'नित्यः शब्दः ततोऽर्थप्रतिपत्त्यन्यथानुपपत्तेः' इत्यादि; तदप्यविचारितरमणीयम्; धूमादिवदनित्यस्याप्यस्य सादृश्यतोऽर्थप्रतिपादकत्वोपपत्तेः। न खलु 'य एव सङ्केतकाले दृष्टः तेनैव अर्थप्रतीतिः कर्त्तव्या' इति नियमोऽस्ति, महानसदृष्टधूमसदृशादपि पर्वतधूमाद् वह्निप्रतिपत्तिप्रतीतेः / न च पर्वतमहानसप्रदेशवर्तिन्योः धूमव्यक्त्योरैक्यं संभवति; प्रतीतिविरोधात्, सर्वस्य सर्वगतत्वानुषङ्गाच्च / अथ धूमसामान्यस्य अत्र गमकत्वम् ; शब्दसामान्यस्य अन्यत्र वाचकत्वं किन्नं स्यात् ? ननु शब्दसामान्यस्य वाचकत्वे शब्दस्य किमायातम् ? तर्हि धूमसामान्यस्याप्यनुमापकत्वे 20 धूमस्य किमायातम् ? अथ धूमात्तस्याऽभेदात् तदनुमापकत्वे धूमस्याप्यनुमापकत्वम् ; तर्हि शब्दात् तत्सामान्यस्याप्यभेदात् तद्वाचकत्वे तस्यापि वाचकत्वमस्तु अविशेषात् / अथ शब्दे सामान्यमेव नास्ति तत्कथमस्य वाचकत्वमुच्यते; धूमेऽपि तर्हि तन्नास्ति तत्कस्य (१)उच्चारणानन्तरं यदुपलभ्यते स उपलम्भकाल:-आ० टि० / (2) शब्दस्य। (3) तुलना"कादाचित्कत्वाच्च शब्दे तदसिद्धम्"-स्या० र० पृ० 692 / (4) पृ० 701 पं० 3 / (5) तुलना"तदपि विद्यदादौ तुल्यत्वादयुक्तम"-स्या० र०प० 692 / (6) शब्दे विद्यदादौ च। (7) 10 701 पं०४। (8) तुलना-"अनित्यत्वेऽपि सादृश्योपादाने सत्यर्थप्रतिपत्तेर्भावात् / तत्र यत्र गकारौकारविसर्जनीयानामित्थम्भूतानपूर्वीमुपलभसे तत्र तत्र गोत्वविशिष्टोऽर्थः प्रतिपत्तव्यः प्रतिपादयितव्यश्चेति सङ्केतग्रहे सति तथाविधं शब्दमुपलभमानः तमर्थं प्रतिपद्यते प्रतिपादयति चेति ।"-प्रश० व्यो० पृ०६४९ / “धूमादिवदनित्यस्यापि शब्दस्य अवगतसम्बन्धस्य सादृश्यतोऽर्थप्रतिपादकत्वसंभवात् ।"प्रमेयक०पू०४०९ / सन्मति०टी०पृ०३३ / स्या० र० पृ० 692 / प्रमेयर०३।१००। (9) यदि महानसोपलब्धैव धूमव्यक्तिः पर्वतेऽपि स्यात्तदा / (10) धूमसामान्यस्य / (11) शब्दसामान्यस्य शब्दत्वस्य / 1 पूर्वकाल-श्र०। 2 इत्युक्तं ब०,श्र० / 3 शब्दसामा-आ। 4 धूमोऽपि श्र०।