________________ प्रवचनप्र० का०६५] शब्दनित्यत्ववादः و میا वस्तुबुद्धित्वात् सम्प्रत्युत्पन्नघटबुद्धिवत् / ततश्च अखिलवस्तुबुद्धीनाम् एकघटलक्षणवस्तुविषयत्वे घटबुद्धित्वमेव स्यात् न गोशब्दबुद्धित्वम् / अतः कथं देशादिभिन्नगोशब्दव्यक्तिबुद्धीनां धर्मित्वम् , कथं वा गोशब्दबुद्धित्वं हेतुः, सम्प्रत्युत्पन्नगोशब्दबुद्धिवदिति दृष्टान्तो वा सिद्ध्येत् यतोऽनुमानं स्यात् ? अथ गवाश्वादिवस्तुभेदस्य प्रत्यक्षसिद्धत्वात् तबुद्धीनामेकघटविषयत्वे साध्ये 'वस्तुबुद्धित्वात्' इत्यस्य कालात्ययापदिष्ट- 6 त्वम् अग्नेरनुष्णत्वे द्रव्यत्ववदित्युच्यते ; यद्येवम् , उदात्तादिधर्मभेदेन गोशब्दव्यक्तिभेदस्यापि प्रत्यक्षसिद्धत्वात् तबुद्धीनामपि एकविषयत्वे साध्ये गोरित्युत्पद्यमानत्वात्' इत्यस्यापि कालात्ययापदिष्टत्वं स्यात् / यदप्यभिहितम्-'ह्यस्तनो गोशब्दोऽद्याप्यनुवर्तते' इत्यादि; तदप्यभिधानमात्रम् ; ह्येस्तनाऽद्यतनगोशब्दयोर्भेदस्य प्रत्यक्षप्रसिद्धत्वेन तदभेदप्रसाधनस्य कालात्ययापदिष्ट- 10 त्वात् / कथमन्यथा ह्यस्तनाऽद्यतनविद्युत्प्रकाशयोरपि एकत्वन्न स्यात् / शक्यं हि वक्तुं ह्यस्तनो विद्युत्प्रकाशोऽद्याप्यनुवर्तते विद्युत्प्रकाशत्वात् अद्यतनविद्युत्प्रकाशवदिति / अथ तीव्रा विद्युत् तीव्रतरा तीव्रतमेति प्रत्यक्षतः तीव्रादिधर्मात्मकतया विद्युत्प्रकाशस्य विभिअस्वभावस्य प्रतीतेः न तदैक्यप्रसाधकमनुमानं गमकम् ; तदन्यत्रापि समानम्-गोशब्दस्यापि तीव्रादिधर्मोपेतस्य श्रोत्रप्रत्यक्षे प्रतिभासनात् / तद्धर्मस्य अत्रौपाधिकत्वे 15 विद्युत्यपि अस्र्यं तदस्तु विशेषाभावात् / अथ शुद्धायाः विद्युतः कदाचिदप्यसंवेदनात् न तत्राँस्यौपाधिकत्वम् / तदेतत् शब्देऽप्यविशिष्टम् , नहि तेद्धर्मशून्यः 'सोपि स्वप्नेऽपि प्रतिभासते / एतेन 'अद्यतनो वा गोशब्दः ह्योऽप्यासीत्' इत्यादि प्रतिव्यूढम् ; न्यायस्य समानत्वात् / - यदप्युक्तम्-'शब्दो वाचको दीर्घकालावस्थायी' इत्यादि; तदपि चेष्टयाँ अनैका- 20 न्तिकम् , तस्याः सम्बन्धबलेन अर्थमतिहेतुत्वेऽपि दीर्घकालावस्थायित्वाभावात् / एतेन 'यस्त्वस्थिरः स सम्बन्धबलेन नार्थ बोधयति' इत्यादि प्रत्याख्यातम् ; (1) पृ० 700 506 / (2) तुलना-"ह्यस्तनाद्यतनाः सर्वे गोशब्दप्रत्यया इमे। नैकार्थाः क्रमसम्भूते रूपगन्धादिबुद्धिवत् ॥"-तत्त्वसं० का० 2465 / स्या०र० पृ० 690 / (3) तुलना"स्वाभाविकत्वावधारणन्यायस्य यत्र तत्र प्रसिद्धस्य अत्रापि तुल्यत्वात् / न हि पयसि शैत्यद्रवत्वे तेजसि वा भास्वरत्वोष्णत्वे स्वाभाविके इत्यत्रान्यत्प्रमाणं प्रत्यक्षात् "-स्या० र० पृ० 690 / (4) उदात्तादिधर्मस्य / (5) शब्दे / (6) तीव्रतीव्रतरादिधर्मस्य / (7) तीव्रतीव्रतरादिसर्वधर्मशून्यायाः। (8) विद्युति / (9) उदात्तानुदात्तादिधर्म रहितः शुद्धः / (10) शब्दोऽपि / (11) पृ० 700 पं०७। (12) पृ० 700 पं० 8 / (13) आह्वानादौ अङ गुल्यादिकृतया-आ० टि० / तुलना-"चेष्टयाऽनकान्तिकत्वात्"-स्या० र० पृ० 692 / (14) पृ० 700 पं०९। 1 यदेवम् श्र०। 2-क्षसि-श्र०, ब०। 3 विद्युत्तीव्रतमेति श्र०। 4 श्रोत्रप्रत्यक्षप्र-श्र०. श्रोत्रप्रत्यक्षेण प्र-ब०। 5-न्यः स्वापे स्वप्नेपि श्र०। 6 चोदयति ब०।